०१ कुम्भ-स्थापनादि

शुचौ देशे गोमयेन उपलिप्ते
तण्डुल-पूर्णं पात्रं निधाय
तद्-उपरि उल्लेखनादि-दर्भ-प्रच्छादनान्तं पूर्ववत् कृत्वा

[[5]]

कुम्भस्योत्तरतो
नव-गुणितं गन्धोपलिप्तं कार्पास-सूत्रं
भस्म-हरिद्रा-चूर्ण–गो-रजस्सु अन्यतमं च निधाय

अमुक-गोत्रस्य +अमुक-शर्मणः कुमारस्य
अमुक-कर्माङ्गं प्रतिसर-बन्ध-कर्म करिष्यामि

इति सङ्कल्प्य