०५ नान्दी-श्राद्धम्

काल-परिभाषे

कालः

नान्दी-श्राद्धम् ।

“शुचीन् मन्त्रवतस् सर्व-कृत्येषु भोजयेत्”

इति वचनात्
आपस्तम्बीय-मते
सर्वेषु कर्मसु निर्वर्तितेषु सत्सु
नान्दीश्राद्धं कुर्यात्
क्वचित् अन्ते ऽनुष्ठानस्यापवादः,
अन्न-प्राशन-चौलोपनयन-सीमन्ताख्येषु कर्मसु
आदाव् एव ।
अङ्कुर-प्रतिसरानन्तरं नान्द्या अनुष्ठानम् ।

प्रातर्-वृद्धि-निमित्तकम् इति
वृद्धि-श्राद्धस्यास्य नान्दी-श्राद्धस्य
प्रातर् एवानुष्ठानम् ।
कर्मादौ विहितमभ्युदयं प्रातरेव कुर्यात् ।
अन्ते विहितस्य कर्मणः परिसमाप्तेः प्रातःकालातिक्रमणे श्वः प्रातः कुर्यात् ।

परिभाषा

इदं नान्दी-श्राद्धं पैतृकम् अपि
उपवीत्य् एव कुर्यात् ।

तिल-स्थाने यवाः ।

इमम् अभ्युदयम्
अन्न-रूपेणाम-रूपेण, हिरण्य-रूपेण वा कुर्यात् ।

मातुः श्राद्धन्तु पूर्वं स्यात्
पितॄणान्तु ततः परम् ।
ततो मातामहानाञ् च
वृद्धौ श्राद्ध-त्रयं स्मृतम् ॥

तमिऴ्

நாந்தீச்ராத்தம் (அப்யுதயம்)

ஆபஸ்தம்ப ஸூத்ரகாரர்களுக்கு அப்யுதயம் ஸமஸ்த கர்மாக்களிலும் கர்மாவின் முடிவில்தான் செய்ய வேண்டும். அன்னப்ராசனம்- சௌளம்-உபநயனம் - ஸீமந்தம் இந்த நான்கு கர்மாக்களில் மட்டும் கர்மாவின் ஸங்கல்ப்பத்திற்கு முன்பாகவே செய்ய வேண்டும். நாந்தீமுகா: பிதர: என்பதாக விசேஷணம். (அதாவது இதர ஸந்தர்ப்பங்களில் வஸுருத்ராதித்ய என்பதுபோல இங்கு சொல்லாமல் நாந்தீமுகா: என்று சொல்ல வேண்டும். அவ்விதம் பித்ரு- பிதாமஹ ப்ரபிதாமஹ என்று சொல்லாமல் ப்ரபிதாமஹு- பிதாமஹ பிதர: என்று சொல்ல வேண்டும். அவ்விதம் சாதாரணமாக முதலில் பித்ராதிகள். பிறகு மாத்ராதிகள். அதை மாற்றி முதலில் ப்ரபிதாமஹி-பிதாமஹி [[TODO::परिष्कार्यम्??]]

ब्राह्मण-सङ्ख्या

मुख्य-कल्पे षड्-विंशतिर् ब्राह्मणाः ।
गौणकल्पे तावद् दश ब्राह्मणाः ।

[[23]]

मुख्य-कल्पे

मुख्य-कल्पे वर्ग-त्रयस्यापि
एकैकस्य द्वौ द्वाव् इति
विश्वेदेवार्थं
सत्य-वसु-संज्ञकाः षड् ब्राह्मणाः ।

प्रपितामहार्थं द्वौ, पितामह्यर्थं द्वौ, मात्रर्थं द्वौ । प्रपितामहार्थं द्वौ, पितामहार्थं द्वौ पित्रर्थं द्वौ ।
स-पत्नीक–मातृ-प्रपितामहार्थं द्वौ,
स-पत्नीक–मातृ-पितामहार्थं द्वौ,
स-पत्नीक-माता-महार्थं द्वौ
इति अष्टादश

एते सर्वे नान्दीमुखा इति विशेष्याः ।
(“नान्दीमुखाः प्रपितामह्यः” इत्य् एवं-रूपेण।)

श्राद्ध-संरक्षक-श्री-विष्ण्व्-अर्थं द्वौ

गौण-कल्पे

गौण-कल्पे वर्ग-त्रयस्यापि
विश्वेदेवार्थं द्वौ ।

प्रपिता-मही–पिता-मही–मात्र्-अर्थं द्वौ ।
प्रपिता-मह–पिता-मह–पित्र्-अर्थं द्वौ ।
स-पत्नीक–मातृ-प्रपितामह–मातृ-पितामह–मातामहार्थं द्वौ ।
विष्ण्वर्थं द्वौ।
इति दश ब्राह्मणाः ।

लोके तावत् नव ब्राह्मणाः
इति व्यवहारः ।
तद् अयुक्तं,
नान्दी-श्राद्धे युग्मत्व-विधानात्
नवत्वे युग्मत्वाभावात्
दशानां वरणम् एव युक्तम् ।

नान्दीश्राद्धे उद्देश्येषु
वर्गादौ जीविते सति
तां वा, तं वा विहाय
स्व-जनकस्य या वा, ये वा उद्देश्याः
ता वा, त एव वा
अस्यापि उद्देश्याः

अत्र केचित् अस्यैव वचनस्य
विपरीतार्थ-ग्रहणं कृत्वा
जीवत्-पितृक-विषये मातामहादि-वरणे
प्रमीत-स्व-माता-महादीन् विहाय
स्व-जनकस्य माता-महादीनां वरणं कुर्वते ।
सर्वथा तद् अयुक्तम् ।

‘‘पितरो यत्र पूज्यन्ते
तथा मातामहा अपि"

इति विहित-स्व–माता-महादीन् विहाय
स्वजनकस्य माता-मह-वियोगे स्वस्याशौच-लेशस्याप्य् अभावात्
अत्र तेषां वरणम् अयुक्तमेव ।+++(5)+++

अतः जीवत्-पितृक-कर्तव्य–नान्दी-श्राद्धे
पित्रादि-वर्गे
स्व-जनकस्य ये उद्देश्याः
त एव अस्याप्युद्देश्याः,
तथैव प्रमीत-मातृकस्य जीवत्-पितृकस्य नान्दी-श्राद्धे
स्वस्य मात्रादय एव अस्याप्य् उद्देश्याः । +++(जीवन्-मातृकस्य)+++ स्वस्य मातामहादय एवास्य उद्देश्याः
इति व्यवस्था ।

तमिऴ्

பைத்ருகமான மாதர: என்பதாகக் கொள்ள வேண்டும். காரியமானதால் ப்ராசீனாவிதம் ப்ரஸக்தமாக அப்யுதயத்தில் எல்லாம் உபவீதமாகவே செய்ய வேண்டும். “எள்” ஸ்தானத்தில் யவம் அதாவது. அக்ஷதை. ப்ரயோகம் எழுதப்படுகிறது. ஸங்கல்ப்பம். இன்ன காரியத்திற்கு அங்கமான அப்யுதயம் அல்லது செய்யப்பட்ட இன்ன காரியம் செய்யப்படப் போகிற இன்னென்ன காரியங்கள் இவைகளுக்கு அங்கபூதமான அப்யுதயத்தைச் செய்கிறேன் என்று ஸங்கல்ப்பம் செய்து கொள்ள வேண்டும். பிராம்மணர்களை வரிப்பதாக இருந்தால் [[TODO::परिष्कार्यम्??]]

[[24]]

मुख्य-कल्पः

एवं मुख्य-कल्प-करणे
सर्वम् उपवीती कुर्यात् ।
तथा प्राङ्-मुखः,
प्रदक्षिण-क्रमः,
दक्षिणं जान्वाच्य कुर्यात् ।
प्रागग्राः ऋजवो युग्मा आमूलाग्रा दर्भाः ।
तिलार्थे यवाः।
पृषद्-आज्य–बदरी-फल-मिश्रान् प्राग्-अपवर्गान् पिण्डान्
देवतीर्थेन दद्यात्,
एकैकस्य द्वौ द्वौ पिण्डौ दद्यात् ।

अन्यत् सर्वं पार्वणवत् ।

(घृत-मिश्रं दधि पृषद्-आज्यम्।)

हिरण्य-रूपेण

काल-देशादीन् अनुसृत्य
सङ्ग्रह-रूपेण हिरण्य-रूप-नान्दी-श्राद्ध-प्रयोगो लिख्यते ।

तमिऴ्

அமுககர்மாங்கபூதே அஸ்மிந்நப்யுதயே ஸத்யவஸுஸும்ஜ்ஞகாநாம் விச்வேஷாம் தேவாநாம் இதமாஸநம் – 2 - அஸ்மிந்நப்யுதயே நாந்தீமுகாநாம் ப்ரபிதாமஹீ பிதாமஹீ மாத்ரூணாம் இதம் ஆஸநம் அஸ்மிந்நப்யுதயே பித்ரூணாம்-இதம் ஆஸநம் 2 அஸ்மிந்நப்யுதயே நாந்தீமுகாநாம் மாது: ஸபத்நீக ப்ரபிதாமஹ பிதாமஹ பித்ரூணாம் இதம் ஆஸநம் 2 2 நாந்தீமுகாநாம் ப்ரபிதாமஹ பிதாமஹ

அஸ்மிந்நப்யுதயே ச்சராத்த ஸம்ரக்ஷக ஸ்ரீ விஷ்ணோ: இதமாஸநம் 2 யதாஸ்தானத்தில் உட்கார்ந்து கொண்டு ஹிரண்யகர்ப்ப கர்ப்பஸ்த்தம் [[TODO::परिष्कार्यम्??]]

अमुक-कर्माङ्गभूतं नान्दी-श्राद्धं (आभ्युदयिकं वा)
हिरण्य-रूपेण करिष्ये ।

आसन-कल्पनम्

(१) अमुक-कर्माङ्ग-भूते, अस्मिन्न् अभ्युदये
सत्य-वसु-संज्ञकानां विश्वेषां देवानाम्
इदम् आसनम् ।
इमे गन्धाः।
सकलाराधनैः शोभनम् ।

(२) एवम् एवान्यस्यापि +++(वैश्वदेवस्य आसनादि)+++।

(३) अस्मिन्न् अभ्युदये
नान्दी-मुखानां प्रपितामही-पितामही-मातॄणाम् इदम् आसनम्,
इमे गन्धाः ।
सकलाराधनैः शोभनम् ।

(४) एवम् एवान्यस्यापि +++(प्रपितामही-वर्गस्य +आसनादि)+++।

[[25]]

(५) अस्मिन्न् अभ्युदये
नान्दी-मुखानां प्रपितामह-पितामह-पितॄणाम्
इदम् आसनम् ।
इमे गन्धाः,
सकलाराधनैः शोभनम् ।

(६) एवम् अन्यस्यापि +++(प्रपितामह-वर्गस्य +आसनादि)+++।

(७) अस्मिन्न् अभ्युदये
नान्दी-मुखानां स-पत्नीक-मातृ-प्रपितामह–मातृ-पितामह-मातामहानाम्
इदम् आसनम् ।
इमे गन्धाः।
सकलाराधनैः शोभनम् +++(मातृ-प्रपितामह-वर्गस्य +आसनादि)+++॥

(८) एवमन्यस्यापि ।

(९) अस्मिन्न् अभ्युदये श्राद्ध–सं-रक्षक-श्रीविष्णोः
इदम् आसनम् ।
इमे गन्धाः ।
सकलाराधनैः शोभनम् ।

(१०) एवमन्यस्यापि +++(विष्ण्व्-अर्थस्य +आसनादि)+++।

एवं दश-ब्राह्मणान् वृत्वा
यथा-स्थानम् उपवेश्य

निधानम्

हिरण्यं निधाय

Hira Nya garbha garbhastha M sampradade ...{Loading}...
हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

दानम्, त्यागः

… यत्किञ्चिद्धिरण्यानि
नानागोत्रेभ्यः श्रीवैष्णवेभ्यः येभ्यस् तेभ्यः/ तुभ्यम् अहं
सम्प्रददे

(न मम॥)

तमिऴ्

அமுக கர்மாங்கபூதே அஸ்மிந் நப்யுதயே ஸத்யவஸு ஸமஜ்ஞிகேப்ய: விச்வேப்ய: தேவேப்ய: நாந்தீமுகாப்ய: ப்ரபிதாமஹீ பிதாமஹீ மாத்ருப்ய: - 2 நாந்தீமுகேப்ய: ப்ரபிதாமஹ பிதாமஹ பித்ருப்ய: 2 நாந்தீமுகேப்ய: மாது:ஸபத்நீக ப்ரபிதாமஹ பிதாமஹ பித்ருப்ய: 2 நாந்தீஸம்ரக்ஷக ஸ்ரீ விஷ்ணவே நாந்தீஸம்ரக்ஷக

ஸ்ரீ விஷ்ணவே ச

யத்கிஞ்சித் இதம் ஆக்நேயம் ஹிரண்யம் நாந்தீசோபந்தேவதா: பிதர: ப்ரீயந்தாம் இயஞ்சவிருத்தி: இடாதேவஹூ + சோபாயை பிதர: அநுமதந்து இட ஏஹி-அதித ஏஹி-ஸரஸ்வத்யேஹி சோபநம்-சோபநம்-சோபநம் [[TODO::परिष्कार्यम्??]]

प्रीणनम्

अमुक-कर्माङ्ग-भूते अस्मिन्न् अभ्युदये

सत्य-वसु-संज्ञिकेभ्यो विश्वेभ्यो देवेभ्यः,
सत्य-वसु-संज्ञिकेभ्यो विश्वेभ्यो देवेभ्यः,

नान्दी-मुखाभ्यः प्रपितामही-पितामही-मातृभ्यः,
नान्दी-मुखाभ्यः प्रपितामही-पितामही-मातृभ्यः,

नान्दी-मुखेभ्यः प्रपितामह-पितामह-पितृभ्यः,
नान्दी-मुखेभ्यः प्रपितामह-पितामह-पितृभ्यः

नान्दीमुखेभ्यः स-पत्नीक–मातृ-प्रपितामह–मातृ-पितामह–मातामहेभ्यः,
नान्दीमुखेभ्यः स-पत्नीक–मातृ-प्रपितामह–मातृ-पितामह–मातामहेभ्यः

नान्दी-संरक्षक-श्रीविष्णवे,
नान्दी-संरक्षक-श्रीविष्णवे च

यत्किञ्चिद् इदम् आग्नेयं हिरण्यम्

यवोदकञ् च निनीय,

नान्दी-शोभन-देवताः पितरः प्रीयन्तां,
इयञ् च वृद्धिः ।

[[26]]

दानम्

इडा॑ देव॒हूः ...{Loading}...
भास्करोक्त-विनियोगः

3आर्त्विज्यं वा करिष्यन् शस्त्रं वा प्रतिगरिष्यन् जपति - इडेति ॥

मूलम् (संयुक्तम्)

इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द्विश्वे॑ दे॒वाः [3] सू॒क्त॒वाच॒ᳶ पृथि॑वि मात॒र्मा मा॑ हिꣳसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वख्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीन्दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्या᳚म्मनु॒ष्ये᳚भ्य॒स्तम्मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑ मदन्तु ॥ [4]

विश्वास-प्रस्तुतिः

इडा॑ देव॒हूर्,
मनु॑र् यज्ञ॒-नीर्,
बृह॒स्-पति॑र् उक्था-म॒दानि॑+++(=प्रतिगरान्)+++ शꣳसिष॒द् ,
विश्वे॑ दे॒वास् सू᳚क्त॒-वाचः॑ ।

Keith

May Ida who summoneth the gods, Manu who leadeth the sacrifice,
May Brhaspati recite the hymns and acclamations.
The All-gods [1] are reciters of the hymns.

मूलम्

इडा॑ देव॒हूर्, मनु॑र्यज्ञ॒नीर्, बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द् , विश्वे॑ दे॒वास्सू᳚क्त॒वाचः॑ ।

भट्टभास्कर-टीका

इडा देवी गौर् वा प्रष्टिर्वा,
यामुपह्वयते सा देवहूः
देवानामाह्वाता होता ।
यद्वा - सा देवानां
मनुर् यज्ञनीः यज्ञस्य नेता मनुः प्रजापतिः वा
बृहस्पतिरुक्थामदानि शस्त्र-प्रतिगरादीनि
शंसिषत् शंसति शस्त्राणि शंसति
मदान् प्रतिगरान् शंसति । शंसेर्लेटि ‘सिब्बहुलं लेटि’ इति सिप् । उक्थशब्दस्य संहितायां छान्दसं दीर्घत्वम् । विश्वेदेवाः सूक्तवाचः सूक्तवाकस्य वक्तारः सूक्तं सूक्तवाकः, तद्ब्रुवन्तीति सूक्तवाचः । ‘क्विब्वचि’ इत्यादिना क्विप्दीर्घत्वे । यस्मादेवं सर्वमेतदिडादयः कुर्वन्ति तस्मात्सत्यपि प्रमादे न मे कश्चिदपराधः ।

विश्वास-प्रस्तुतिः

पृथि॑वि मात॒र् मा मा॑ हिꣳसीः ।

Keith

O earth mother, do not harm me.

मूलम्

पृथि॑वि मात॒र्मा मा॑ हिꣳसीः ।

भट्टभास्कर-टीका

तस्मात् हे पृथिवि मातः सर्वस्य रक्षिके मा मा हिंसीः ।

विश्वास-प्रस्तुतिः

मधु॑ मनिष्ये
मधु॑ जनिष्ये
मधु॑ वख्ष्यामि
मधु॑ वदिष्यामि

Keith

Of honey shall I think, honey shall I produce, honey shall I proclaim, honey shall I speak,

मूलम्

मधु॑ मनिष्ये ।
मधु॑ जनिष्ये ।
मधु॑ वख्ष्यामि ।
मधु॑ वदिष्यामि ।

भट्टभास्कर-टीका

अहं तु मधु मनिष्ये मधुवदेव मनसा चिन्तयिष्यामि ।

विश्वास-प्रस्तुतिः

मधु॑मतीन् दे॒वेभ्यो॒ वाच॑म् उद्यासꣳ शुश्रू॒षेण्या᳚म् मनु॒ष्ये᳚भ्यः

Keith

may I utter speech full of honey for the gods, and acceptable to men.

मूलम्

मधु॑मतीन्दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्या᳚म्मनु॒ष्ये᳚भ्यः

भट्टभास्कर-टीका

देवेभ्यो मधुमतीं मधुवदनहेतुं न केवलप्रमादां वाचं उद्यासं वदितुं समर्थो भूयासम् । ‘किदाशिषि’ इति कित्त्वात् ‘वचिस्वपि’ इति संप्रसारणम् ।

मनुष्येभ्यः शुश्रूषेण्यां श्रवणीयां श्रुतिसुखहेतुं वाचं उद्यासमित्येव । उभयत्रापि षष्ठ्यर्थे चतुर्थी । सनन्तादौणादिक एण्यप्रत्ययः ।

विश्वास-प्रस्तुतिः

तम् मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ । पि॒तरो ऽनु॑ मदन्तु

Keith

May the gods aid me to radiance, may the Pitrs rejoice in me.

मूलम्

तम्मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ । पि॒तरोऽनु॑ मदन्तु ॥

भट्टभास्कर-टीका

तं मामेवंगुणं देवा अवन्तु रक्षन्तु शोभायै यथा मया कृतं शोभते तथा अनुमदन्तु अनुमोदन्तां, उत्कृष्टत्वेन समीचीनं करोतीति शोभार्थं पितरश्च अनुमोदन्तु । माद्यतेर्व्यत्ययेन शप् ॥

इति तृतीये तृतीये द्वितीयोनुवाकः ॥

इड॒ एहि॑ ...{Loading}...
विश्वास-प्रस्तुतिः

इड॒ एहि॑+++(=आ+इ॑हि)+++ ।
अदि॑त॒ एहि॑ ।
सर॑स्व॒त्य् एहि॑+++(=आ+इ॑हि)+++ ।

Keith

O Ida, come hither; O Aditi, come hither; O Sarasvati, come hither.

मूलम्

इड॒ एहि॑ ।
अदि॑त॒ एहि॑ ।
सर॑स्व॒त्येहि॑ ।

भट्टभास्कर-टीका

इडादयश् शब्दा गवां नामानि, यथा - ‘इडे रन्तेदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतनि ते अघ्निये नामानि’ इति । ताच्-छब्द्येनेडा स्तूयते ।

तत्र गवां भेदान् निमृढ्वम् इति बहुवचनम् उपपद्यते, हे इडादयो यूयमागत्य मां निमृढ्वमिति । यदा तु गोभिर् अभेदेनेडोच्यते हे इडादिरूपे इड इति तदा त्वेकवचनम् एव न्याय्यम् । इडा पशुसाधनीड्या वा । अदितिर् अदीना अखण्डनीया ।
सरस्वती सरणवती सरस्वतीसदृशा वा ।

शोभनं शोभनं शोभनं ॥

विश्वास-टिप्पनी (अन्यत्रोक्तांशः)

इति साक्षतं जलं हिरण्योपरि निनीय

इदं हिरण्यं नानागोत्रेभ्यः श्रीवैष्णवेभ्यस्तेभ्यः तेभ्यः सम्प्रददे न मम

इति साक्षतं जलं निस्राव्य,

वरण-क्रमेण ब्राह्मणेभ्यो दत्वा

+++(तद्-अङ्ग-भूतं पुण्याहवाचनम् अग्रे दर्श्यते।)+++