०३ अवान्तरदीक्षाग्रहणम्

अथ यजमानोऽवान्तरदीक्षामुपैति । अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूरेषा सा त्वयि या तव तनूरियꣳ सा मयि सह नौ व्रतपते व्रतिनोर्व्रतानि आहवनीयमुपतिष्ठते । संतरां मेखलां समायच्छते । सन्तरां मुष्टी कर्षते । तप्तव्रतो भवति । मदन्तीभिर्मार्जयते । या ते अग्ने रुद्रिया तनूस्तया नः पाहि तस्यास्ते स्वाहा एतेनैवात ऊर्ध्वं व्रतयति ।