परिषेचनम्

परिषेचन अनुज्ञा

०१ अदितेऽनु मन्यस्व ...{Loading}...

अदि॒तेऽनु॑ मन्यस्व। +++(इति दक्षिणतः, प्राचीनम्)+++

०२ अनुमतेऽनु मन्यस्व ...{Loading}...

अनु॑म॒ते+++(=ऊनचन्द्रे पूर्णमासि)+++ ऽनु॑ मन्यस्व। +++(इति पश्चिमाद् उदीचीनम्)+++

०३ सरस्-वतेऽनु मन्यस्व ...{Loading}...

सर॑स्-वते+++(छान्दसो गुणः)+++ ऽनु॑ मन्यस्व। +++(इति उत्तरतः प्राचीनम्)+++

०४ देव सवितः ...{Loading}...

देव॑ सवितः॒ प्रसु॑व। +++(इति प्रागारम्भं प्रदक्षिणं)+++

उत्तरं परिषेचनम्

१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...

अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++

अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++

सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++

देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++

वैश्वदेवम्

वैश्वदेवम् ...{Loading}...

होममन्त्राः

16 औपासने पचने वा ...{Loading}...

औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् १६

०५ ओम् अग्नये ...{Loading}...
  • ओम्+++(इत्यनुज्ञाक्षरं)+++ अ॒ग्नये॒ स्वाहा॑+++(हविःप्रदानार्थः)+++।
०६ सोमाय स्वाहा ...{Loading}...
  • सोमा॑य॒ स्वाहा॑।+++(कैश्चिन्नोच्यते मन्त्रः।)+++
०७ विश्वेभ्यो देवेभ्यस् ...{Loading}...
  • विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑।
०८ ध्रुवाय भूमाय ...{Loading}...
  • +++(खे)+++ ध्रु॒वाय॑ भू॒माय॑+++(=भूम्ने)+++ स्वाहा॑।
०९ ध्रुवक्षितये स्वाहा ...{Loading}...
  • ध्रु॒व॒-क्षित॑ये॒ +++(खे)+++ स्वाहा॑। +++(विवाहे ध्रुवदर्शनमन्त्रेऽप्य् अयम् प्रयोगः)+++
१० अच्युतक्षितये स्वाहा ...{Loading}...
  • अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा॑।
११ अग्नये स्विष्टकृते ...{Loading}...
  • अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑।+++(=रुद्रोऽग्निस्स्विष्टकृत्)+++

17 उभयतः परिषेचनं यथा ...{Loading}...

उभयतः परिषेचनं यथा पुरस्तात् १७

१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...

अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++

अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++

सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++

देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++

बलिहरणमन्त्राः

15 बलीनान् तस्य तस्य ...{Loading}...

बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम् १५

18 एवम् बलीनान् देशे ...{Loading}...

एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् १८

19 सति सूपसंसृष्टेन कार्याः ...{Loading}...

सति सूपसंसृष्टेन कार्याः १९

धर्मसूत्रोक्तांशाः

वैश्वदेवम् ...{Loading}...

चोदनम्, फलम्
13 अथ ब्राह्मणोक्ता विधयः ...{Loading}...

अथ ब्राह्मणोक्ता विधयः १३

14 तेषाम् महायज्ञा महासत्त्राणीति ...{Loading}...

तेषां महायज्ञा महासत्त्राणीति संस्तुतिः १४

15 अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् ...{Loading}...

अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् १५

01 देवेभ्यः स्वाहाकार आ ...{Loading}...

देवेभ्यः स्वाहाकार आ काष्ठात्, पितृभ्यः स्वधाकार ओदपात्रात्, स्वाध्याय इति १

01 आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः ...{Loading}...

आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः १

12 गृहमेधिनोर्यदशनीयस्य होमा बलयश्च ...{Loading}...

गृहमेधिनोर्यदशनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः १२

09 य एतानव्यग्रो यथोपदेशङ् ...{Loading}...

य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ९

13 यस्याग्नौ न क्रियते ...{Loading}...

यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् १३

व्रतग्रहणम्
13 तेषाम् मन्त्राणामुपयोगे द्वादशाहमधःशय्या ...{Loading}...

तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं च १३

14 उत्तमस्यैकरात्रमुपवासः ...{Loading}...

उत्तमस्यैकरात्रमुपवासः १४

विधिः

+++(साधारणो ऽन्नसंस्कारविचारोऽन्यत्रोक्तः।)+++

09 परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् ...{Loading}...

परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् । तद्देवपवित्रमित्याचक्षते ९

10 सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने ...{Loading}...

सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात् १०

11 तत्सुभूतं विराड् अन्नन् ...{Loading}...

तत्सुभूतं विराड् अन्नं तन्मा क्षायीति प्रतिवचनः ११

15 बलीनान् तस्य तस्य ...{Loading}...

बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम् १५

16 औपासने पचने वा ...{Loading}...

औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् १६

०५ ओम् अग्नये ...{Loading}...
  • ओम्+++(इत्यनुज्ञाक्षरं)+++ अ॒ग्नये॒ स्वाहा॑+++(हविःप्रदानार्थः)+++।
०६ सोमाय स्वाहा ...{Loading}...
  • सोमा॑य॒ स्वाहा॑।+++(कैश्चिन्नोच्यते मन्त्रः।)+++
०७ विश्वेभ्यो देवेभ्यस् ...{Loading}...
  • विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑।
०८ ध्रुवाय भूमाय ...{Loading}...
  • +++(खे)+++ ध्रु॒वाय॑ भू॒माय॑+++(=भूम्ने)+++ स्वाहा॑।
०९ ध्रुवक्षितये स्वाहा ...{Loading}...
  • ध्रु॒व॒-क्षित॑ये॒ +++(खे)+++ स्वाहा॑। +++(विवाहे ध्रुवदर्शनमन्त्रेऽप्य् अयम् प्रयोगः)+++
१० अच्युतक्षितये स्वाहा ...{Loading}...
  • अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा॑।
११ अग्नये स्विष्टकृते ...{Loading}...
  • अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑।+++(=रुद्रोऽग्निस्स्विष्टकृत्)+++
17 उभयतः परिषेचनं यथा ...{Loading}...

उभयतः परिषेचनं यथा पुरस्तात् १७

१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...

अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++

अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++

सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++

देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++

18 एवम् बलीनान् देशे ...{Loading}...

एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् १८

19 सति सूपसंसृष्टेन कार्याः ...{Loading}...

सति सूपसंसृष्टेन कार्याः १९

20 अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् ...{Loading}...

अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०

21 उदधानसन्निधौ नवमेन ...{Loading}...

उदधानसंनिधौ नवमेन २१

१३ धर्माय स्वाहा ...{Loading}...
  • धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑। +++(अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०)+++
  • अ॒द्भ्यस् स्वाहा॑ । +++(उदधानसंनिधौ नवमेन २१)+++
22 मध्येऽगारस्य दशमैकादशाभ्याम् प्रागपवर्गम् ...{Loading}...

मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२

१४ ओषधिवनस्पतिभ्यस् स्वाहा ...{Loading}...
  • ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ । +++(मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२)+++
23 उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः ...{Loading}...

उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३

१५ गृह्यभ्यस् स्वाहा ...{Loading}...
  • +++(वास्तुविद्याप्रसिद्धेभ्यः)+++ गृह्या॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस्+++(=सीमाभ्यः)+++ स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ । +++(उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३)+++
01 शय्यादेशे कामलिङ्गेन ...{Loading}...

शय्यादेशे कामलिङ्गेन १

02 देहल्यामन्तरिक्षलिङ्गेन ...{Loading}...

देहल्यामन्तरिक्षलिङ्गेन २

१६ कामय स्वाहा ...{Loading}...
  • काम॑य॒ स्वाहा॑ । +++(शय्यादेशे कामलिङ्गेन)+++
  • अ॒न्तरि॑क्षाय॒ स्वाहा॑ । +++(देहल्यामन्तरिक्षलिङ्गेन २)+++
03 उत्तरेणापिधान्याम् ...{Loading}...

उत्तरेणापिधान्याम् ३

१७ यदेजति जगति ...{Loading}...
  • यद् एज॑ति+++(=कम्पते)+++ जग॑ति यच् च॒ चेष्ट॑ति, नाम्नो॑ भा॒गो ऽयं, नाम्ने॒ स्वाहा॑। +++(उत्तरेणापिधान्याम् (अर्गले)३)+++
04 उत्तरैर्ब्रह्मसदने ...{Loading}...

उत्तरैर्ब्रह्मसदने ४

१८ पृथिव्यै स्वाहा ...{Loading}...

+++(उत्तरैर्ब्रह्मसदने)+++

  • पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ ।
  • सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ ।
  • इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑।
05 दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः ...{Loading}...

दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः कुर्यात् ५

१९ स्वधा पितृभ्यस् ...{Loading}...
  • स्व॒धा पि॒तृभ्य॒स् स्वाहा॑। +++( दक्षिणतः पितृलिङ्गेन प्राचीनावीत्य् अवाचीन-पाणिः कुर्यात् ५)+++
06 रौद्र उत्तरो यथा ...{Loading}...

रौद्र उत्तरो यथा देवताभ्यः ६

२० नमो रुद्राय ...{Loading}...
  • नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑। +++(रौद्र उत्तरो यथा देवताभ्यः ६ तयोर् नाना परिषेचनं धर्म-भेदात् ७)+++
07 तयोर्नाना परिषेचनन् धर्मभेदात् ...{Loading}...

तयोर्नाना परिषेचनं धर्मभेदात् ७

08 नक्तमेवोत्तमेन वैहायसम् ...{Loading}...

नक्तमेवोत्तमेन वैहायसम् ८

२१ ये भूताः ...{Loading}...
  • ये भू॒ताः प्र॒चर॑न्ति दिवा॒ /नक्तं॒
    बलि॑म् इ॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ ।
    तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒
    मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥ +++(नक्तमेवोत्तमेन वैहायसम् ८)+++
10 अग्रञ् च देयम् ...{Loading}...

अग्रं च देयम् १०

आतिथ्यम्
11 अतिथीनेवाग्रे भोजयेत् ...{Loading}...

अतिथीनेवाग्रे भोजयेत् ११

12 बलान् वृद्धान् रोगसम्बन्धान् ...{Loading}...

बालान् वृद्धान् रोग-संबन्धान् स्त्रीश् चान्तर्वत्नीः १२

05 सर्वान्वैश्वदेवे भागिनः कुर्वीता ...{Loading}...

सर्वान्वैश्वदेवे भागिनः कुर्वीता श्व-चाण्डालेभ्यः ५

06 नानर्हद्भ्यो दद्याद् इत्य् ...{Loading}...

नानर्हद्भ्यो दद्याद् इत्य् एके ६

+++(अतिथिभोजनम् अन्यत्रोक्तम्)+++

विवाहः ...{Loading}...

कालः

०२ १२ सर्व-ऋतवो विवाहस्य ...{Loading}...

सर्वऋतवो +++(=मासाः)+++ विवाहस्य शैशिरौ मासौ +++(= माघफाल्गुनौ)+++ परिहाप्योत्तमं च नैदाघम् +++(= आषाढः)+++ १२

०२ १३ सर्वाणि पुण्योक्तानि ...{Loading}...

+++(अनेन पूर्वपक्षादिनियमाभावः।)+++ सर्वाणि पुण्योक्तानि नक्षत्राणि +++(सर्वापवादत्वात्पुण्याहविधानार्थमिदम् । तथा च रात्र्यपरपक्षयोः विवाहपिरतिषेधः ।)+++१३

०२ १६ इन्वकाभिः प्रसृज्यन्ते ...{Loading}...

इन्वकाभिः +++(=मृगशिरसि)+++ प्रसृज्यन्ते +++(कन्यार्थं प्रेष्यन्ते)+++ ते वराः प्रतिनन्दिताः १६

०३ ०४ इन्वकाशब्दो मृगशिरसि ...{Loading}...

इन्वकाशब्दो मृगशिरसि ४

०३ ०१ मघाभिर्गावो गृह्यन्ते ...{Loading}...

मघाभिर्गावो गृह्यन्ते +++(दानार्थम्)+++१

०३ ०२ फल्गुनीभ्यां व्यूह्यते ...{Loading}...

फल्गुनीभ्यां व्यूह्यते +++(= सेनाया इति केचित्, विवाहविशेषेषु कन्याया इत्यपरे)+++ २

०३ ०३ याङ् कामयेत ...{Loading}...

यां कामयेत दुहितरं प्रिया स्यादिति, तां निष्ट्यायां दद्यात् प्रियैव भवति, नैव तु पुनरागच्छतीति ब्राह्मणवेक्षो विधिः ३

कन्या-चयनम्

०३ ११ सुप्तां रुन्दन्तीम् ...{Loading}...

+++(वरे प्राप्ते)+++ सुप्तां रुन्दन्तीं निष्क्रान्तां वरणे परिवर्जयेत् ११

०३ १२ दत्ताङ् गुप्ताम् ...{Loading}...

दत्तां गुप्तां +++(=अदर्शिता)+++ द्योताम् +++(=पिङ्गाक्षी, बभ्रुकेशी वा, विषमदृष्टिर्वा)+++ ऋषभां +++(=ऋषभस्येव शरीरं गतिः शीलं वा यस्यास्सा)+++ शरभां +++(= शीर्णदीप्तिः, सर्वनीललोम्नी वा, अरूपा वा, केचित्दर्शनीया)+++ विनतां +++(=कुब्जां)+++ विकटां +++(विस्तीर्ण-जङ्घां)+++ मुण्डां मण्डूषिकां +++(=वामनाङ्गा, दग्धाङ्गा वा ।)+++ साङ्कारिकां रातां +++(=रतिशीलां)+++ पालीं +++(=वत्सादीनां पालयित्रीं)+++ मित्रां +++(=बहुमित्रां)+++ स्वनुजां +++(=केचित्वरजन्मसंवत्सर एव पश्चाज्जातेति।)+++ वर्षकारीं +++(=स्वेदशीलामिति केचित्। वराद्वर्षेणाधिका ।)+++ च वर्जयेत् १२

०३ १३ नक्षत्रनामा नदीनामा ...{Loading}...

नक्षत्र-नामा नदी-नामा वृक्ष-नामा च गर्हिताः १३

०३ १४ सर्वाश्च रेफलकारोपान्ता ...{Loading}...

रेफ-लकारोपान्ता +++(=गौरी शालीत्याद्या)+++ वरणे परिवर्जयेत् १४

०३ १९ बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत ...{Loading}...

बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत १९

०३ २१ यस्याम् ...{Loading}...

यस्यां मनश्-चक्षुषोर् निबन्धस् तस्याम् ऋद्धिर् नेतरद् आद्रियेतेत्य् एके २१

०३ १५ शक्तिविषये द्रव्याणि ...{Loading}...

कन्या-परीक्षा - शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति १५

०३ १६ नाना बीजानि ...{Loading}...

नाना बीजानि संसृष्टानि, वेद्याः पांसून्, क्षेत्राल्लोष्टं, शकृच्, छ्मशानलोष्टमिति १६

०३ १७ पूर्वेषामुपस्पर्शने ...{Loading}...

पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः १७

०३ १८ उत्तमम् परिचक्षते ...{Loading}...

उत्तमं परिचक्षते १८

०३ २० बन्धुशीललक्षणसम्पन्नश्रुतवानरोग ...{Loading}...

(वर-चयनम् -) बन्धुशील-लक्षण-सम्पन्नश् श्रुतवान् अरोग इति वरसम्पत् २०

विधिः -

०२ १४ तथा मङ्गलानि ...{Loading}...

तथा मङ्गलानि १४

०२ १५ आवृतश्चास्त्रीभ्यः प्रतीयेरन् ...{Loading}...

+++(“ब्राह्मणान् भोजयित्वाशिषोवाचयित्वे"त्येवमादीनि स्वशास्त्रप्रसिद्धानि । मङ्गलानि स्नातोऽहतवासा गन्धानुलिप्त, स्रग्वी भुक्तवानित्येवमादीनि नापितकर्माङ्कुरार्पणादीनि लोकप्रसिद्धानि ।)+++ आवृतश्च +++(=प्रसिद्धाः)+++ +आस्त्रीभ्यः प्रतीयेरन् १५

कन्यालाभः-

सुहृत्-प्रेषणम्

०४ ०१ सुहृदस्समवेतान् मन्त्रवतो ...{Loading}...

सुहृदस् समवेतान् मन्त्रवतो ऽवरान् +++(वरः)+++ प्रहिणुयात् १

०४ ०२ तानादितो द्वाभ्यामभिमन्त्रयेत ...{Loading}...

तानादितो द्वाभ्यामभिमन्त्रयेत २ +++(कृतप्राणायामोऽवरान् प्रेषयिष्येऽइति सङ्कल्प्य, “प्रसुग्मन्ते"ति द्वाभ्यां वरानभिमन्त्र्य, “यूयममुष्मात्कुलात्मह्यं कन्यां वृणीध्वम्” इति प्रेषयेत् । ततस्ते दुहितृमतो गृहं गत्वा, कन्यां दत्तसगोत्रत्वादिदोषरहितां बन्ध्वादिगुणसम्पन्नां च यत्नतोऽवधार्य, दुहितृमन्तं पित्रीदिकं “गौतमगोत्राय विष्णुशर्मणे वराय भवदीयां कन्यां प्रजासहत्वकर्मभ्यो वृणीमहे"इति ब्रूयुः । ततस्स पित्रादिर् “दास्यामी"ति प्रतिब्रूयात् । ततस्ते प्रत्येत्य, “सिद्धार्ता वय"मिति वरायावेदयेयुः । एतच्च वरप्रेषणाद्यासुरार्षयोरेव, नान्येषु अर्थलोपात् ।)+++

+++(हे सुहृदः)+++

०१ प्रसुग्मन्ता धियसानस्य ...{Loading}...

प्र॒सु॒ग्मन्ता॑+++(=प्रकर्षेण सुष्ठु गन्तारः)+++ धि॒यसा॒नस्य॑+++(=ध्यायमानस्य)+++ स॒क्षणि॑+++(=समाने क्षणे)+++
व॒रेभि॑र्+++(=श्रेष्ठैः [पथिभिः])+++ व॒राꣳ+++(=वरयितव्यान् [कन्यायाः पित्रादीन्])+++ अ॒भि षु॒ प्रसी॑दत+++(=प्रगच्छत)+++ ।
अ॒स्माक॒म्+++(=कन्याया मम च, अस्मदो द्वयोश्च इति बहुवचनम्)+++ इन्द्र॑ उ॒भयं॑ जुजोषति॒
यत् +++(यज्ञेषु)+++ सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति ।

०२ अनृक्षरा ऋजवस्सन्तु ...{Loading}...
२३ अनृक्षरा ऋजवः ...{Loading}...

अ॒नृ॒क्ष॒रा+++(=कंटकशर्करादिरहिताः)+++ ऋ॒जव॑स् सन्तु॒ पन्था॒
येभि॒स् सखा॑यो॒ यन्ति॑ नो वरे॒यम्+++(=वरणीयं [कन्यायाः पित्रादिकं प्रति])+++ ।
सम् अ॑र्य॒मा सं भगो॑ नो+++(=आवाम्, अस्मदो द्वयोश्च इति बहुवचनम्)+++ निनीया॒त्
सञ् जा॑स्प॒त्यꣳ+++(=जायापतिभावः)+++ सु॒यम॑म् अस्तु देवाः ।+++(र५)+++

वरपूजा

०३ ०६ विवाहे गौः ...{Loading}...

विवाहे +++(=विवाहस्थाने)+++ गौः ६

०३ ०७ गृहेषु गौः ...{Loading}...

गृहेषु +++(=शालायां)+++ गौः ७

०३ ०८ तया वरमतिथिवदर्हयेत् ...{Loading}...

तया वरमतिथिवदर्हयेत् ८

०३ ०९ योऽस्यापचितस्तमितरया ...{Loading}...

योऽस्यापचितस्तमितरया ९

कन्या-प्रतिपादनम्

स्वयं दृष्ट्वा

+++(कन्यां प्रतिपादयति “तुभ्यमिमां प्रजासहत्वकर्मभ्यः प्रतिपादयामी"ति।)+++

०४ ०३ स्वयन् दृष्ट्वा ...{Loading}...

स्वयं दृष्ट्वा +++(दृष्ट्वैव चक्षुषी उपसंहरति)+++ तृतीयां +++(=अभ्रातृघ्नीमित्येताम्)+++ जपेत् ३

०३ अभ्रातृघ्नीं वरुणापतिघ्नीम् ...{Loading}...

अभ्रा॑तृघ्नीं॒ वरु॒णा-
ऽप॑तिघ्नीं बृहस्पते ।
इन्द्राऽपु॑त्रघ्नीं ल॒क्ष्म्य॑न्,
ताम् अ॒स्यै स॑वितस् सुव ।+++(र५)+++

अवयवशः समीक्षणम्

०४ ०४ चतुर्थ्या समीक्षेत ...{Loading}...

चतुर्थ्या +++(=अघोरचक्षुरित्येषा)+++ समीक्षेत ४

०४ अघोरचक्षुरपतिघ्न्येधि शिवा ...{Loading}...

अघो॑र-चक्षु॒र् अप॑तिघ्न्य् एधि
शि॒वा प॒तिभ्य॑स् सु॒मना॑स् सु॒वर्चाः॑ ।
जी॒व॒सूर् दे॒वका॑मा स्यो॒ना+++(=प्रशस्ता)+++
शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे ।+++(र५)+++

भ्रुवोरन्तरे सम्मार्जनम्

०४ ०५ अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या ...{Loading}...

अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा +++(=इदमहमित्यनेन)+++ तस्या भ्रुवोरन्तरँ संमृज्य, प्रतीचीनं +++(प्रत्यग्गतम् उपर्युपरि शिरो )+++ निरस्येत् ५

+++(अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा भ्रुवोरन्तरं संमृज्य प्रतीचीनं निरस्येत्।)+++

०५ इदमहय्ँ या ...{Loading}...

इ॒दम् अ॒हय्ँ या त्वयि॑ पति॒घ्न्य् अ॑ल॒क्ष्मिस्, तां निर्दि॑शामि ।+++(र५)+++

कन्यावियोगकाले बन्धुजनस्य रोदने जपः

०४ ०६ प्राप्ते निमित्त ...{Loading}...

प्राप्ते निमित्त +++(=वध्वा स्वबन्धूनां च रोदनं)+++ उत्तरां जपेत् +++(“जीवारुदन्ती”)+++ ६ +++(निमित्तावृत्तौ मन्त्र आवर्तते ।)+++

+++(कन्याया एव रोदन इत्याश्वलायनः । यथाह - जीवां रुदन्तीति रुदत्याम् इति ।)+++

०६ जीवां रुदन्ति ...{Loading}...

+++(हर्षस्थाने)+++ जी॒वाꣳ रु॑दन्ति॒ वि+++(नि)+++म॑यन्ते अद्ध्व॒रे
दी॒र्घाम् अनु॒ +++(भाव)+++प्रसि॑तिं+++(=बन्धं)+++ दीधियु॒र्+++(=ध्यायन्तु)+++ नरः॑+++(बहुवचनम्)+++ ।
वा॒मं पि॒तृभ्यो॒ य इ॒दꣳ स॑मेरि॒रे+++(=प्रवर्तयन्ति)+++
मयः॒+++(=सुखदं)+++ पति॑भ्यो॒, जन॑यः+++(=जन्याः [वध्वाः])+++ परि॒ष्वजे॑ ।

स्नापनम्, अहतवस्त्रधारणं, योक्त्रसन्नहनं च ।

स्नपन-जलाऽऽनयनम्

०४ ०७ युग्मान् समवेतान् ...{Loading}...

युग्मान् समवेतान् मन्त्रवत उत्तरया +++(=व्युक्षत्क्रूर…)+++ ऽद्भ्यः +++(स्नानार्थजलाहरणार्थं)+++ प्रहिणुयात् ॥

०७ व्युक्षत् क्रूरमुदचन्त्वाप ...{Loading}...

व्यु॑क्षत्+++(=अपगच्छेत्)+++ +++(यदपां)+++ क्रू॒रम्,
उद॑च॒न्त्व्+++(=उद्गच्छन्तु)+++ आप॒,
आऽस्यै ब्रा॑ह्म॒णास् स्नप॑नꣳ हरन्तु ।
अ-वी॑र-घ्नी॒र्+++(!)+++ उद् अ॑च॒न्त्व् आपः॑ ।

वध्वाः शिरसि दर्भेण्वनिधानम्

दर्भेण्वं +++(=दर्भैः परिकल्पितमिण्वं निगलाकृतिं परिमण्डलाकारम् रोमककिरीटम् इव)+++ निधाय -

०४ ०८ उत्तरेण यजुषा ...{Loading}...

उत्तरेण यजुषा +++(=अर्यम्णो अग्निं)+++ तस्याश्शिरसि दर्भेण्वं +++(=दर्भैः परिकल्पितमिण्वं निगलाकृतिं परिमण्डलाकारम् रोमककिरीटम् इव)+++ निधाय,

०८ अर्यम्णो अग्निम् ...{Loading}...

अ॒र्य॒म्णो +++(प्रसादात्)+++ अ॒ग्निं परि॑यन्तु क्षि॒प्रं
प्रती॑क्षन्ता॒ꣳ॒ श्वश्र्वो॑ दे॒वरा॑श् च ।

तस्मिन्नुत्तरया +++(=खेऽनस)+++ दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य,

+++(तस्मिन्निण्वे दक्षिणं युगच्छिद्रं प्रतिष्ठापयति )+++

०९ खेऽनसः खे ...{Loading}...

खे+++(=छिन्द्रावकाशे)+++ ऽनसः॒+++(=शकटस्य)+++ खे रथः॒+++(थस्य)+++ खे युग॑स्य +++(अपो निस्सार्य प्रसन्न)+++ शचीपते ।
अ॒पा॒लाम् इ॑न्द्र॒ त्रिः पू॒त्व्य्॑ अकर॒त् सूर्य॑वर्चसम् ।+++(र५)+++

(अत्रेतिहासमाचक्षते - अपाला नाम काचित् कन्या श्वित्रिणी +++(=श्वेतकुष्टवती)+++ । तां न कश्चिदुपयेमे । तस्याश्च मनसि कामः सदा बभूव, कथमहं इन्द्रं यजे इति । सा कदाचित् स्नानार्थं नद्याम् अवतीर्णा स्रोतसा ह्रियमाणा, तम् एव कामं मनसि दधाना, स्रोतसा ऽपनीतं सोमम् अपश्यत् । तं दन्तैः पिष्ट्वा तद्रसं इन्द्राय उपाहरत् । तम् इन्द्रः पीत्वा रथस्यानसो+++(=शकटस्य)+++ युगस्येति त्रयाणां छिद्रेषु अपो निस्सार्य, ताभिः तां त्रिः पूर्त्वा सूर्यवर्चसम् अकरोत् । तदेतत् “कन्या वारवायती” (ऋग्वेदे) इत्यस्मिन् वर्गे द्रष्टव्यम् । रथ इति षष्ठ्यर्थे प्रथमा । रथादीनां खेषु छिद्रेषु, अपो निस्सार्य त्रिः पूर्त्वी । छान्दसो रेफोपजनः । पूत्वा शोधयित्वा हे शचीपते हे इन्द्र । त्वं अपालां नाम कन्यां सूर्यवर्चसं अकरत् अकरोः । पुरुषव्यत्ययश्छान्दसः । तथैव एनामपि कुर्वित्यर्थः ॥ )

छिद्रे सुवर्णमुत्तरया +++(=शं ते हिरण्यम्)+++ ऽन्तर्धाय,

शन् ते हिरण्यम् ...{Loading}...

+++(युगच्छिद्रे सुवर्णनिधानम् - )+++
शन् ते॒ +++(छिद्रे निधीयमानं)+++ हिर॑ण्य॒ꣳ॒ शम् उ॑ स॒न्त्व् आप॒श्
शन् ते॑ मे॒धी+++(=खलेवाली, खले धान्यपेषणस्थाने वाल्यन्ते वृषा इति - अत्र युगः)+++ भ॑वतु॒, शय्ँ यु॒गस्य॒ तृद्म॑+++(=छिद्रम्)+++ ।
शन् त॒ आप॑श् श॒त-प॑वित्रा भव॒न्त्व्
अथा॒ पत्या॑ त॒न्वꣳ॑ सꣳसृ॑जस्व ।। (1)

स्नानम्

उत्तराभिः पञ्चभिस् +++(=हिरण्यवर्णा)+++ स्नापयित्वा,

०१ हिरण्यवर्णाश्शुचयः पावकाः ...{Loading}...
०१ हिरण्यवर्णाः शुचयः ...{Loading}...

हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒काः
प्रच॑क्रमुर् ‌हि॒त्वा ऽव॒द्यम् आपः॑ ।
श॒तं प॒वित्रा॒ वित॑ता॒ ह्य् आ॑सु॒ +++(अप्सु)+++
ताभि॑ष् ट्वा दे॒वस् स॑वि॒ता पु॑नातु ।+++(र५)+++

०२ हिरण्यवर्णाश्शुचयः पावका ...{Loading}...

हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्व् अ॒ग्निः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना +++(=सुखा)+++ भ॑वन्तु ।+++(५)+++

०३ यासां राजा ...{Loading}...
०२ यासां राजा ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना भ॑वन्तु ।+++(५)+++

०४ यासान् देवा ...{Loading}...
०३ यासां देवा ...{Loading}...

यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भ॑वन्ति।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥

०५ शिवेन त्वा ...{Loading}...

शि॒वेन॑ +++(यजमान!)+++ त्वा॒ चक्षु॑षा पश्यन्त्व् +++(हे)+++ आपश्!
शि॒वया॑ त॒न्वा+उ॒प॒स्पृ॒श॒न्तु॒ त्वच॑न् ते ।
घृ॒त॒श्-चुत॒श्+++(=दुहन्त्यः)+++ शुच॑यो॒ याः पा॑व॒कास्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना भ॑वन्तु ।+++(५)+++

विश्वास-टिप्पनी

अथर्ववेदे - “शि॒वेन॑। मा॒। चक्षु॑षा। प॒श्य॒त॒। आ॒पः॒। शि॒वया॑। त॒न्वा। उप॑। स्पृ॒श॒त॒। त्वच॑म्। मे॒। " त्वत्कारप्रयोगम् अत्र घटयितुं तर्हि कठिनम् एव।
My guess is that some ancient ritualist copied over the AtharvaNa mantra and modified it without fixing the svara appropriately, leaving later commentators to either ignore the svara-error or multi-sambodhana error.

अहतस्य वाससः परिधानम्

उत्तरया +++(=परि त्वा गिर्वणो गिरः)+++ ऽहतेन वाससाच्छाद्य,

०६ परि त्वा ...{Loading}...
१२ परि त्वा ...{Loading}...

परि॑ त्वा गिर्-वणो॒+++(=सम्भक्तः)+++
गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ ।
वृ॒द्धायु॒म्+++(=वृद्धगम्)+++ अनु॒ वृद्ध॑यो॒,
+++(त्वया)+++ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ।+++(र४)+++

योक्त्रबन्धनम्

उत्तरया +++(=आशासाना सौमनसम्)+++ योक्त्रेण सन्नह्यति ८

०७ आशासाना सौमनसम् ...{Loading}...

आ॒शासा॑ना सौमन॒सं
प्र॒जां सौभा॑ग्यं तनूम्।
अ॒ग्नेर् अनु॑व्रता भू॒त्वा +++(तिष्ठति/ तिष्ठामि)+++,
+++(तां)+++ सं न॑ह्ये सुकृ॒ताय॒ कम् +++(=सुखम् [यथा])+++।

अग्निसाधनम्

होमः

अग्निम् प्रति नयनम्

०४ ०९ अथैनामुत्तरया दक्षिणे ...{Loading}...

अथैनामुत्तरया +++(=पूषात्वेत)+++दक्षिणे हस्ते गृहीत्वाग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत+++(ः)+++। उत्तरो वरः ॥

०८ पूषा त्वेतो ...{Loading}...
२६ पूषा त्वेतो ...{Loading}...

पू॒षा त्वा+इ॒तो न॑यतु॒ हस्त॒-गृह्या॒
ऽश्विनौ॑ त्वा॒ प्रव॑हता॒ꣳ॒ रथे॑न ।
+++(मदीयान्)+++ गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒
यथा ऽसो॑+++(=स्या)+++ व॒शिनी॒ त्वं वि॒दथ॒म्+++(=यज्ञं)+++ आव॑दासि+++(=आवद)+++ ।। (2)

आज्यभागान्ते उत्तराभ्यामभिमन्त्रणम्

०४ १० अग्नेर् ...{Loading}...

अग्नेरुपसमाधानाद्याज्यभागान्ते +++(उत्थाय)+++ ऽथैनाम् +++(तृतीयस्यानुवाकस्य)+++ आदितो द्वाभ्याम् +++(=सोमः प्रथम)+++ अभिमन्त्रयेत ॥

०१ सोमः प्रथमो ...{Loading}...
४० सोमः प्रथमो ...{Loading}...

सोमः॑ प्रथ॒मो वि॑विदे +++(लेभे)+++
गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
तृ॒तीयो॑ अ॒ग्निष् टे॒ पति॑स्
तु॒रीय॑स्ते मनुष्य॒जाः ।+++(र५)+++

+++(स्त्रीमनस् तादृशम् - आदाव् अन्नं, ततः कामकलाः, ततो हि धर्मः, ततः पतिः।)+++
०२ सोमोऽददद्गन्धर्वाय गन्धर्वोऽदददग्नये ...{Loading}...
४१ सोमो ददद्गन्धर्वाय ...{Loading}...

सोमो॑ऽददद् गन्ध॒र्वाय॑
गन्ध॒र्वो ऽद॑दद् अ॒ग्नये॑ ।
र॒यिञ् च॑ पु॒त्राꣳश् चा॑दाद्
अ॒ग्निर् मह्य॒म् अथो॑ इ॒माम् ।

पाणिग्रहणम्

पाणिग्रहणम्

०४ ११ अथास्यै दक्षिणेन ...{Loading}...

अथास्यै +++(=अस्याः)+++ दक्षिणेन नीचा +++(=न्यग्भूतेन)+++ हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयात्।

(अनेन नित्यविधिना “सो ऽभीवाङ्गुष्ठम्? इत्येतावन्मात्रस्य व्यवहितस्यापि सम्बन्धः । इतरथा स इति न ब्रूयात् । अभीवाङ्गुष्ठम् = उपर्यङ्गुष्ठमेव गृह्णीयात्।)

०४ १२ यदि कामयेत ...{Loading}...

यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात् ॥

०४ १३ यदि कामयेत ...{Loading}...

यदि कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सोऽभीवाङ्गुष्ठमभीव लोमानि +++(=यथा वरस्याङ्गुष्ठलोमानि सर्वाण्येवोपरि भवन्ति तथा)+++ गृह्णाति ॥

०४ १४ गृभ्णामि त ...{Loading}...

गृभ्णामि त इत्येताभिश्चतसृभिः ॥

०३ गृभ्णामि ते ...{Loading}...
३६ गृभ्णामि ते ...{Loading}...

गृ॒भ्णा+++(ह्णा)+++मि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒
मया॒ पत्या॑ ज॒रद॑ष्टि॒र् यथा ऽसः॑ ।
भगो॑ अर्य॒मा स॑वि॒ता पुर॑न्धि॒र् +++(=बहुप्रज्ञा बहुकर्मा वा)+++
मह्य॑न् त्वा ऽदु॒र् गार्ह॑पत्याय+++(=गार्हस्थ्याय)+++ देवाः ।+++(र५)+++

०४ ते ह ...{Loading}...

ते +++(भगादयः)+++ ह॒ पूर्वे॒ जना॑सो॒
यत्र॑ +++(गार्हस्थ्ये)+++ पूर्व॒-वहो॑+++(=पूर्वविवाहकृतः)+++ हि॒ताः ।
मू॒र्द्ध॒न्वान्+++(=प्राधान्यवान् [अग्निः])+++ यत्र॑ सौभ्र॒वः +++(=सुभ्रुवा अदितेः पुत्रः)+++
पूर्वो॑ दे॒वेभ्य॒ आऽत॑पत् ।

०५ सरस्वति प्रेदमव ...{Loading}...

सर॑स्वति॒ प्रेदम् अ॑व॒
सुभ॑गे॒ वाजि॑नी+++(=अन्नक्रिया/स्तुति)+++वति ।
तां त्वा॒ विश्व॑स्य
भू॒तस्य॑ प्र॒-गाया॑मस्य् +++(“इदन्तो मसि”)+++ अग्र॒तः ।

०६ य एति ...{Loading}...

य एति॑ प्र॒दिश॒स् सर्वा॒
दिशोऽनु॒ पव॑मानः ।
हिर॑ण्यहस्त ऐर॒म्मस्+++(=अग्निः)+++
+++(इरा अन्नं तां मिमीते करोतीतीरंमः अग्निः)+++
स त्वा॒ मन्म॑नसं+++(!)+++ कृणोतु ।

सप्तपदीगमनम्

०४ १५ अथैनामुत्तेरणाग्निन् दक्षिणेन ...{Loading}...

अथैनामुत्तेरणाग्निं - दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमयत्य् “एकमिष” इति ॥

०७-१३ एकमिषे विष्णुस्त्वाऽन्वेतु ...{Loading}...

एक॑म् - इ॒षे+++(=अन्नाय)+++ विष्णु॒स्त्वाऽन्वे॑तु ।+++(५)+++
द्वे - ऊ॒र्जे+++(=बलाय)+++ विष्णु॒स्त्वाऽन्वे॑तु ।
त्रीणि॑ - व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
च॒त्वारि॒ - मायो॑+++(=सुख)+++भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
पञ्च॑ - प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
षड् - रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु ।
स॒प्त - +++(यज्ञेषु)+++ स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
+++(होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाच्छावाक आग्नीध्र इत्येतास्सप्त होत्राः)+++
सखा॑यस् स॒प्तप॑दा अभूम ।
स॒ख्यन्ते॑ गमेयम् ।

०४ १६ सखेति सप्तमे ...{Loading}...

सखेति सप्तमे पदे जपति ॥

१४ सखा सप्तपदा ...{Loading}...

सखा॑ +++(हे)+++ स॒प्तप॑दा भव॒।
सखा॑यौ स॒प्तप॑दा बभूव+++(=बभूविव)+++।
स॒ख्यन्ते॑ गमेयꣳ।
स॒ख्यात् ते॒ मा यो॑षꣳ+++(=पृथकृतो मा भूवं)+++।
स॒ख्यान् मे॒ मा यो॑ष्ठा॒स्,
सम॑याव॒, सङ्क॑ल्पावहै॒, सं प्रि॑यौ रोचि॒ष्णू+++(=दीप्यमानौ)+++ सु॑मन॒स्यमा॑नौ+++(=सुमनायमानौ)+++ ।
इष॒म् ऊर्ज॑म् अ॒भि सं॒वसा॑नौ॒
सन्नौ॒ मनाꣳ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् ।

सा +++(ऋक्)+++ त्वम् अ॒स्य् अमू॒+++(=साम)+++ ऽहम्, अमू॒हम् अ॑स्मि॒। +++(५)+++
+++(सैव नाम ऋगासीदमो नाम साम इति बह्वृचब्राह्मणदर्शनात् । बह्वृचानां तु अमोहम् इति एव पाठः ।)+++
सा त्वं द्यौर् अ॒हं पृ॑थि॒वी।
त्वꣳ रेतो॒ ऽहꣳ रे॑तो॒भृत्।
त्वं मनो॒ ऽहम॑स्मि॒ वाक्।
त्वꣳ सामा॒हम॒स्म्यृ॑क्।

त्व॒ꣳ॒ सा माम् अनु॑व्रता भव।
पु॒ꣳ॒से पु॒त्राय॒ वेत्त॑वै+++(=लाभाय)+++,
श्रि॒यै पु॒त्राय॒ वेत्त॑वा॒,
एहि॑ सूनृते+++(=प्रियवाग्वति)+++ ।। (3)

प्रधानहोमः

०५ ०१ प्राग्घोमात् प्रदक्षिणमग्निम् ...{Loading}...

प्राग्घोमात् प्रदक्षिणमग्निं कृत्वा, यथास्थानम् उपविश्यान्वारब्धायाम् उत्तरा +++(१६)+++ आहुतीर् जुहोति - “सोमाय जनिविदे स्वाहे"त्येतैः प्रतिमन्त्रम् ॥

षोडश प्रधानाहुतिमन्त्राः
०१-०३ सोमाय जनिविदे ...{Loading}...
मन्त्रः

सोमा॑य जनि॒+++(=जाया)+++विदे॒ स्वाहा॑ ।
ग॒न्ध॒र्वाय॑ जनि॒विदे॒ स्वाहा॑ ।
अ॒ग्नये॑ जनि॒विदे॒ स्वाहा॑ ।

०४ कन्यला पितृभ्यो ...{Loading}...

क॒न्य॒ला+++(=कन्यैव, लशब्द उपजनः)+++ पि॒तृभ्यो॑ य॒ती+++(=गच्छन्ती)+++ प॑तिलो॒कम्
अव॑+++(उपसर्गः)+++ +++(कन्या)+++दी॒क्षाम् अ॑दास्थ॒+++(=अवक्षपितवती त्यक्तवती)+++ स्वाहा॑ ।
+++(दीङ् क्षये। तकारस्य थकारः छान्दसः)+++

०५ प्रेतो मुञ्चाति ...{Loading}...

प्रेतो मु॒ञ्चाति॒, नाऽमुत॑स्+++(=पतिलोकात्)+++
सुब॒द्धाम् अ॒मुत॑स् करत्+++(=कुरु)+++ ।
यथे॒यम् इ॑न्द्र मीढ्वस्+++(=वर्षक इन्द्र)+++
सुपु॒त्रा सु॒भगा ऽस॑ति+++(=स्यात्)+++ ।+++(र५)+++

०६ इमान्त्वमिन्द्र मीढ्वस्सुपुत्राम् ...{Loading}...

इ॒मान् त्वम् इ॑न्द्र मीढ्वस्+++(=वर्षक इन्द्र)+++
सुपु॒त्राꣳ सु॒भगां॑ कुरु ।
दशा॑ऽस्यां पु॒त्रान् आ धे॑हि॒
पति॑म् एकाद॒शं कृ॑धि ।+++(५)+++

०७ अग्निरैतु प्रथमो ...{Loading}...

अ॒ग्निर् ऐ॑तु प्रथ॒मो दे॒वता॑ना॒ꣳ॒
सो॑ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपा॒शात् ।
तद॒यꣳ राजा॒ वरु॒णो ऽनु॑मन्यतां॒
यथे॒य२ꣳ स्त्री पौत्र॑म् अ॒घन्+++(=पापजं व्यसनम्)+++ न रोदा॑त् ।+++(र५)+++

०८ इमामग्निस्त्रायताङ् गार्हपत्यः ...{Loading}...

इ॒माम् अ॒ग्निस् त्रा॑यतां॒ गार्ह॑पत्यः
प्र॒जाम् अ॑स्यै नयतु दी॒र्घम् आयुः॑ ।
अशू॑न्योपस्था॒+++(!)+++, जीव॑ताम् अस्तु मा॒ता
पौत्र॑मान॒न्दम् अ॒भि प्रबु॑द्ध्यताम् इ॒यम् ।+++(५)+++

०९ मा ते ...{Loading}...

मा ते॑ गृ॒हे नि॒शि +++(रोदन)+++घोष॒ उत्था॑द्
अ॒न्यत्र॒ त्वद्+++(=त्वत्तः)+++ रु॑द॒त्य॑स् सव्ँ वि॑शन्तु ।
मा त्वं वि॑के॒श्य् उर॒ आवधि॑ष्ठा+++(=आताडयेः)+++ जी॒वप॑त्नी
पतिलो॒के विरा॑ज॒ पश्य॑न्ती प्र॒जाꣳ सु॑मन॒स्यमा॑नाम् ।+++(५)+++

१० द्यौस्ते पृष्ठम् ...{Loading}...

द्यौस्ते॑ पृ॒ष्ठꣳ र॑क्षतु
वा॒युर् ऊ॒रू
अ॒श्विनौ॑ च॒ स्तन॒न्
+++(स्तनं)+++ धय॑न्तꣳ+++(=चूसन्तम्)+++ सवि॒ताऽभि र॑क्षतु ।+++(५)+++
आ वास॑सः परि॒धाना॒द् +++(परि॑ त्वा गिर्-वणो॒ इत्यादिना)+++ बृह॒स्पति॒र्,
विश्वे॑ दे॒वा अ॒भिर॑क्षन्तु प॒श्चात् ।

११ अप्रजस्ताम् पौत्र ...{Loading}...

अ॒प्र॒ज॒स्तां पौ॑त्र मृ॒त्युं
पा॒प्मान॑म् उ॒त वा॒ ऽघम् ।
शी॒र्ष्णस् स्रज॑म् इवो॒न्मुच्य॑
द्वि॒षद्भ्यः॒ प्रति॑मुञ्चामि॒ पाश॑म् । +++(५)+++

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

१४ त्वन्नो अग्ने ...{Loading}...
०४ त्वं नो ...{Loading}...

त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।

१५ स त्वन्नो ...{Loading}...
०५ स त्वं ...{Loading}...

स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

१६ त्वमग्ने अयाऽस्यया ...{Loading}...

त्वम् अ॑ग्ने अ॒या+++(=एतव्यः/ प्रत्येता)+++ ऽस्य्
अ॒या सन् मन॑सा हि॒तः
अ॒या सन् ह॒व्यम् ऊ॑हिषे॒
ऽया नो॑ धेहि भेष॒जम् ॥ (4)

अश्मारोहणम्, लाजहोमाः

अश्मानमास्थापयति

०५ ०२ अथैनामुत्तरेणाग्निन् दक्षिणेन ...{Loading}...

अथैनाम् उत्तरेणाग्निं दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् आतिष्ठेति ॥

०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...

आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++

लाजहोमः

०५ ०३ अथास्या अञ्जलावुपस्तीर्य ...{Loading}...

अथास्या अञ्जलावुपस्तीर्य, द्विर् लाजानोप्याभिघारयति।

०५ ०५ जुहोतीयन् नारीति ...{Loading}...

+++(वर एव तस्याः पाणिना)+++ जुहोति “इयं नारी"ति ॥

०२ इयन्नार्युपब्रूते कुल्पान्यावपन्तिका ...{Loading}...

इ॒यन् ना॒र्य् उप॑ब्रूते॒
कुल्पा॑न्य् +++(=लाजान्)+++ आवपन्ति॒का+++(=आवपन्ती)+++ ।
दी॒र्घा॒युर् अ॑स्तु मे॒ पति॒र्
जीवा॑तु+++(=जीव्यात्)+++ श॒रद॑श्श॒तम् ।+++(र५)+++

प्रदक्षिणमन्त्राः

०५ ०६ उत्तराभिस्तिसृभिः ...{Loading}...

उत्तराभिस्तसृभिः +++(=तुभ्यमाग्रे पर्यवहन्नित्यादिभिः)+++ प्रदक्षिणमग्निं कृत्वा ऽऽश्मानमास्थापयति यथा पुरस्तात् ॥ +++(यथा पुरस्तात्)+++

०३ तुभ्यमग्रे पर्यवहन्त्सूर्याम् ...{Loading}...
३८ तुभ्यमग्रे पर्यवहन्त्सूर्यां ...{Loading}...

+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++

तुभ्य॒म् +++(अग्नये)+++ अग्रे॒ +++(गन्धर्वाः)+++ पर्य॑वहन्त्
सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुनः॒ पति॑भ्यो जा॒यां दा+++(ः)+++
अ॑ग्ने प्र॒जया॑ स॒ह ।+++(र५)+++

०४ पुनः पत्नीमग्निरदादायुषा ...{Loading}...
३९ पुनः पत्नीमग्निरदादायुषा ...{Loading}...

पुनः॒ पत्नी॑म् अ॒ग्निर् अ॑दा॒द्
आयु॑षा स॒ह वर्च॑सा ।
दी॒र्घा॒युर् अ॑स्या॒ यः पति॒स्
स ए॑तु श॒रद॑श् श॒तम् ॥+++(र५)+++

०५ विश्वा उत ...{Loading}...
०३ विश्वा उत ...{Loading}...

विश्वा॑ उ॒त त्वया॑ व॒यं
धारा॑ उद॒न्या॑+++(=उदक-सम्बन्धिनीः)+++ इव ।
अति॑गाहेमहि॒ द्विषः॑ ।+++(५)+++

अश्मानमास्थापयति

०५ ०२ अथैनामुत्तरेणाग्निन् दक्षिणेन ...{Loading}...

अथैनाम् उत्तरेणाग्निं दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् आतिष्ठेति ॥

०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...

आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++

द्वितीयो लाजहोमः

०५ ०७ होमश्चोत्तरया यथा ...{Loading}...

होमश्चोत्तरया +++(=अर्यमणं नु देवम्)+++ ॥

०७ अर्यमणन्नु देवम् ...{Loading}...

अ॒र्य॒मण॒न् नु+++(=क्षिप्रं)+++ दे॒वं क॒न्या॑+++(ः)+++
अ॒ग्निम् +++(च)+++ अयक्षत +++(पतिलाभाय)+++।
स इ॒मां दे॒वो अ॑द्ध्व॒रः+++(=अहिंसितः)+++ प्रेतो मु॒ञ्चाति॒ नाऽमुत॑स्+++(=पतिलोकात्)+++
सुब॒द्धाम् अ॒मुत॑स् करत्+++(=कुरु)+++ ।+++(५)+++

०५ ०८ पुनः परिक्रमणम् ...{Loading}...

पुनः परिक्रमणम् ॥

०५ ०९ आस्थापनम् पुनरपि ...{Loading}...

+++(अश्मन)+++ आस्थापनम् ॥

०८-११ तुभ्यमग्रे पर्यवहन्पुनः ...{Loading}...
३८ तुभ्यमग्रे पर्यवहन्त्सूर्यां ...{Loading}...

+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++

तुभ्य॒म् +++(अग्नये)+++ अग्रे॒ +++(गन्धर्वाः)+++ पर्य॑वहन्त्
सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुनः॒ पति॑भ्यो जा॒यां दा+++(ः)+++
अ॑ग्ने प्र॒जया॑ स॒ह ।+++(र५)+++

३९ पुनः पत्नीमग्निरदादायुषा ...{Loading}...

पुनः॒ पत्नी॑म् अ॒ग्निर् अ॑दा॒द्
आयु॑षा स॒ह वर्च॑सा ।
दी॒र्घा॒युर् अ॑स्या॒ यः पति॒स्
स ए॑तु श॒रद॑श् श॒तम् ॥+++(र५)+++

०३ विश्वा उत ...{Loading}...

विश्वा॑ उ॒त त्वया॑ व॒यं
धारा॑ उद॒न्या॑+++(=उदक-सम्बन्धिनीः)+++ इव ।
अति॑गाहेमहि॒ द्विषः॑ ।+++(५)+++

अश्मानमास्थापयति

०५ ०२ अथैनामुत्तरेणाग्निन् दक्षिणेन ...{Loading}...

अथैनाम् उत्तरेणाग्निं दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् आतिष्ठेति ॥

०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...

आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++

तृतीयो लाजहोमः

०५ १० होमश्चोत्तरया **उत्तरया** ...{Loading}...

होमश्चोत्तरया +++(=त्वमर्यमा भवसि)+++॥

१२ त्वमर्यमा भवसि ...{Loading}...
०२ त्वमर्यमा भवसि ...{Loading}...

त्वम् अ॑र्य॒मा भ॑वसि॒ यत् क॒नी+++(न्या)+++ना॒न्
नाम॑ स्व॒धा+++(=अन्न)+++व॒त् स्व॑र्यं+++(र्ग्यं)+++ बि॒भर्षि॑ ।
अ॒ञ्जन्ति॑+++(=सिञ्चन्ति)+++ वृ॒क्षꣳ सुधि॑त॒न्+++(=सुष्ठु निहितं)+++ न गोभि॒र्+++(=गोविकारैराज्यादिभिः)+++
यद्दम्प॑ती॒ स+++(मान)+++म॑नसा+++(सौ)+++ कृ॒णोषि॑ ।

०५ ११ पुनः परिक्रमणम् ...{Loading}...

पुनः परिक्रमणम् ॥

०५ १२ जयादि प्रतिपद्यते ...{Loading}...

जयादि प्रतिपद्यते ॥

प्रदक्षिणमन्त्राः

०५ ०६ उत्तराभिस्तिसृभिः ...{Loading}...

उत्तराभिस्तसृभिः +++(=तुभ्यमाग्रे पर्यवहन्नित्यादिभिः)+++ प्रदक्षिणमग्निं कृत्वा ऽऽश्मानमास्थापयति यथा पुरस्तात् ॥ +++(यथा पुरस्तात्)+++

०३ तुभ्यमग्रे पर्यवहन्त्सूर्याम् ...{Loading}...
३८ तुभ्यमग्रे पर्यवहन्त्सूर्यां ...{Loading}...

+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++

तुभ्य॒म् +++(अग्नये)+++ अग्रे॒ +++(गन्धर्वाः)+++ पर्य॑वहन्त्
सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुनः॒ पति॑भ्यो जा॒यां दा+++(ः)+++
अ॑ग्ने प्र॒जया॑ स॒ह ।+++(र५)+++

०४ पुनः पत्नीमग्निरदादायुषा ...{Loading}...
३९ पुनः पत्नीमग्निरदादायुषा ...{Loading}...

पुनः॒ पत्नी॑म् अ॒ग्निर् अ॑दा॒द्
आयु॑षा स॒ह वर्च॑सा ।
दी॒र्घा॒युर् अ॑स्या॒ यः पति॒स्
स ए॑तु श॒रद॑श् श॒तम् ॥+++(र५)+++

०५ विश्वा उत ...{Loading}...
०३ विश्वा उत ...{Loading}...

विश्वा॑ उ॒त त्वया॑ व॒यं
धारा॑ उद॒न्या॑+++(=उदक-सम्बन्धिनीः)+++ इव ।
अति॑गाहेमहि॒ द्विषः॑ ।+++(५)+++

अश्मानमास्थापयति

०५ ०२ अथैनामुत्तरेणाग्निन् दक्षिणेन ...{Loading}...

अथैनाम् उत्तरेणाग्निं दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् आतिष्ठेति ॥

०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...

आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++

वैवाहिकाग्नेर्नित्यधारणम् ।

०५ १४ समोप्यैतमग्निमनुहरन्ति एतम् ...{Loading}...

+++(उखायाम् = पात्र-विशेषे)+++ समोप्यैतम् अग्निम् अनु-हरन्ति +++(- न पुरस्तात्)+++ ॥

विश्वास-टिप्पनी

“औपासनस्य च गृह्यान्तरेण प्रयाणे विहितं समारोपणं स्यात्” इति सुदर्शनः। बौधायनो विदधाति समित्-समारोपणम्। गृहे ऽप्रयाणे ऽपि धारणाशक्तौ दृश्यते समारोपणम् आचारे।
“अनेन श्रौतवत् समारोपस्य प्रतिषेध” इति तु हरदत्तः।

योक्त्रविमोकः, वध्वाः स्वगृहं प्रति नयनम् ।

योक्त्त्रं विमुञ्चति

०५ १३ परिषेचनान्तङ् ...{Loading}...

+++(=प्र त्वा मुञ्चामीति)+++ योक्त्रं विमुच्य, तां ततः प्र वा वाहयेत् +++(=रथादिभिर्नयनं)+++, प्र वा हारयेत् +++(=मनुष्यवाह्येन शिबिकादिना नयनम्)+++ ॥

१६ प्र त्वा ...{Loading}...

प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द् +++(योक्त्र-विमोकेन)+++
येन॒ त्वा ऽब॑द्ध्नात् सवि॒ता सु॒केतः॑+++(=सुप्रज्ञानो)+++ ।
धा॒तुश् च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
+++(सुकृतस्य लोको हि धातुर् योनिर् दम्पत्योः कृते।)+++
स्यो॒नन्+++(=सुखं)+++ ते॑ स॒ह पत्या॑ करोमि ।+++(र४)+++

१७ इमं विष्यामि ...{Loading}...

इ॒मं विष्या॑मि॒+++(=विस्रंसयामि)+++ वरु॑णस्य॒ पाशं॒
यम् अब॑द्ध्नीत सवि॒ता सु॒शेवः॑+++(=सुसुखः)+++ ।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
+++(सुकृतस्य लोको हि धातुर् योनिर् दम्पत्योः कृते।)+++
ऽरि॑ष्टां+++(=अविनाशिनीम्)+++ त्वा स॒ह पत्या॑ करोमि ।

अनुगतस्यौपासनाग्नेस् समाधानमन्त्रः

०५ २० अनुगतेऽपि वोत्तरया ...{Loading}...

अनुगते ऽपि वोत्तरया +++(=अयाश्चाग्ने)+++ जुहुयान् नोपवसेत् +++(- प्रायश्चित्तं त्वत्राप्य् अस्त्य् एव)+++॥

१८ अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया ...{Loading}...

अ॒याश्+++(=एतुम् योग्यः, गमनशीलो वा)+++ चा॒ग्ने ऽस्य् अ॑नभिश॒स्तीश्च॑+++(=अनवद्यः)+++
स॒त्यम् इ॑त् त्वम् अ॒या अ॑सि ।
अय॑सा॒+++(=प्रतिगन्त्रा)+++ मन॑सा धृ॒तो॑
ऽयसा॑ ह॒व्यम् ऊ॑हिषे॒+++(=वहस्व)+++
ऽया नो॑ धेहि भेष॒जम् ।।+++(५)+++

युग्ययोः योजनप्रकारः

प्रयाणकाले रथस्योत्तम्भनी

०५ २१ उत्तरा रथस्योत्तम्भनी ...{Loading}...

उत्तरा +++(=सत्येनोत्तभितेत्येषा )+++ रथस्योत्तम्भनी ॥

०१ सत्येनोत्तभिता भूमिस्सूर्येणोत्तभिता ...{Loading}...
०१ सत्येनोत्तभिता भूमिः ...{Loading}...

स॒त्येनोत्त॑भिता॒ भूमि॒स्
सूर्ये॒णोत्त॑भिता॒ द्यौः ।
ऋ॒तेना॑ऽऽदि॒त्यास् तिष्ठ॑न्ति
दि॒वि सोमो॒ अधि॑ श्रि॒तः ।+++(५)+++

वाहाव् उत्तराभ्यां युनक्ति

०५ २२ वाहावुत्तराभ्यां युनक्ति ...{Loading}...

वाहावुत्तराभ्यां +++(=युञ्जन्ति ब्रध्नं)+++ युनक्ति दक्षिणमग्रे ॥

०२ युञ्जन्ति ब्रद्ध्नम् ...{Loading}...
०१ युञ्जन्ति ब्रध्नमरुषं ...{Loading}...

यु॒ञ्जन्ति॑ ब्र॒द्ध्नम्+++(=महान्तम्)+++ अ॑रु॒षञ्+++(=गन्तारं)+++
चर॑न्त॒म् परि॑ त॒स्थुषः॑ ।
+++(यावद्)+++ रोच॑न्ते रोच॒ना दि॒वि ।+++(र५)+++

०३ योगेयोगे ...{Loading}...
०७ योगेयोगे तवस्तरं ...{Loading}...

+++(रथादि)+++योगे॑योगे त॒वस्+++(=गति[वत्])+++त॑र॒व्ँ
वाजे॑वाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ सखा॑य॒+++(ः)+++ इन्द्र॑म् ऊ॒तये᳚ ।+++(५)+++

आरोहन्तीम् उत्तराभिर् अभिमन्त्रयते

०५ २३ आरोहतीमुत्तराभिरभिमन्त्रयते अथ ...{Loading}...

आरोहतीमुत्तराभिरभिमन्त्रयते +++(=“सुकिंशुकमि"त्येवमादिभिः)+++ ॥

सु॒कि॒ꣳ॒शु॒क+++(पुष्प)+++ꣳ, +++(निर्माणेन)+++ श॑ल्म॒लिं, वि॒श्वरू॑प॒ꣳ॒,
हिर॑ण्य-वर्णꣳ, सु॒वृतꣳ॑, सुच॒क्रम् +++(रथम्)+++। आरो॑ह वध्व् अ॒मृत॑स्य लो॒क२ꣳ +++(तत्सङ्केतत्वेन)+++
स्यो॒नं+++(=सुखं)+++ पत्ये॑ वह॒तुं+++(=स्त्रीधनं)+++ कृ॑णुष्व ।+++(४)+++

०५ उदुत्तरमारोहन्ती व्यस्यन्ती ...{Loading}...

उदु॑त्त॒रम् आ॒रोह॑न्ती
व्य॒स्यन्ती॑ पृतन्य॒तः+++(=योद्धुकामान्)+++ ।
मू॒र्द्धानं॒ पत्यु॒र् आ रो॑ह
प्र॒जया॑ च वि॒राड् भ॑व ।+++(५)+++

०६ सम्राज्ञी श्वशुरे ...{Loading}...
४६ सम्राज्ञी श्वशुरे ...{Loading}...

स॒म्राज्ञी॒ श्वशु॑रे भव
स॒म्राज्ञी॑ श्वश्रु॒वां भ॑व ।
नना॑न्दरि स॒म्राज्ञी॑ भव
स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ।+++(५)+++

०७ स्नुषाणां श्वशुराणाम् ...{Loading}...

स्नु॒षाणा॒ꣳ॒ श्वशु॑राणां
प्र॒जाया॑श्च॒ धन॑स्य च ।
पती॑नाञ्च देवॄ॒णाञ्च॑
सजा॒तानां॑ वि॒राड् भ॑व ।+++(५)+++

सूत्रे वर्त्मनोर् व्यवस्तृणाति

०५ २४ सूत्रे ...{Loading}...

+++(द्वे)+++ सूत्रे वर्त्मनोर् +++(=चक्रयोर्)+++ व्यवस्तृणात्त्य् +++(=तिर्यक्स्तृणाति)+++ उत्तरया +++(= नीललोहित इत्येतया)+++ नीलं दक्षिणस्यां लोहितमुत्तरस्याम् ॥

०८ नीललोहिते भवतः ...{Loading}...

नी॒ल॒लो॒हि॒ते +++(सूत्रे)+++ भ॑वतः
+++(एकतरेण?)+++ +++(कु)+++कृ॒त्या-स॒क्तिर् +++(दूरं)+++ व्य॑ज्यते ।
एध॑न्तेऽस्या ज्ञा॒तयः॒
+++(एकतरेण?)+++ पति॑र् ब॒न्धेषु॑ बद्ध्यते ।

०५ २५ ते उत्तराभिरभियाति ...{Loading}...

ते ते उत्तराभिर् +++(= ये वध्वश्चन्द्रमित्येताभिः)+++ अभियाति +++(= उपरि गच्छति)+++ ॥


+++(ते सूत्रे उत्तराभिरभियाति)+++

०९ ये वद्ध्वश्चन्द्रम् ...{Loading}...
३१ ये वध्वश्चन्द्रं ...{Loading}...

ये व॒द्ध्वश् च॒न्द्रं+++(=आह्लादकं)+++ व॑ह॒तुं+++(=स्त्रीधनं)+++
यक्ष्मा॒ यन्ति॒ जना॒ꣳ॒ अनु॑ ।
पुन॒स् तान् य॒ज्ञिया॑ दे॒वा
नय॑न्तु॒ यत॒ आग॑ताः ।+++(र४)+++

१० मा विदन्परिपन्थिनो ...{Loading}...
३२ मा विदन्परिपन्थिनो ...{Loading}...

मा वि॑दन् परिप॒न्थिनो॒
य आ॒सीद॑न्ति॒ दम्प॑ती ।
सु॒गेभि॑र् दु॒र्गम् +++(तौ)+++ अती॑ता॒म्
अप॑ द्रा॒+++(द्रव)+++न्त्व् अरा॑तयः ।

११ सुगम् पन्थानमारुक्षमरिष्ट२म् ...{Loading}...

सु॒गं पन्था॑न॒म् आरु॑क्ष॒+++(ह)+++म्
अरि॑ष्ट२ꣳ स्वस्ति॒-वाह॑नम् ।
यस्मि॑न् वी॒रो न रिष्य॑त्य्,
अ॒न्येषां॑ वि॒न्दते॒ वसु॑ ॥ (6)

विशेष-स्थानातिक्रमणम्

०५ २६ तीर्थस्थाणुचतुष्पथव्यतिक्रमे ...{Loading}...

तीर्थ-स्थाणु+++(=गवां कण्डूयनार्थ निखातः स्तम्भः)+++-चतुष्पथव्यतिक्रमे चोत्तरां +++(=ता मन्दसाना)+++ जपेत् ॥

तीर्थादिव्यतिक्रमे जपः
०१ तामन्दसाना मनुषो ...{Loading}...
१३ ता मन्दसाना ...{Loading}...

ता+++(=तौ)+++ म॑न्दसा॒ना+++(=स्तूयमानौ)+++ मनु॑षो दुरो॒ण+++(=गृहे)+++
आ ध॒त्तꣳ र॒यिं द॒श-वी॑रं वच॒स्यवे॑+++(=वचनवते)+++ ।
कृ॒तं+++(=कुरुतं)+++ ती॒र्थꣳ सु॑-प्रपा॒णꣳ शु॑भस्-पती +++(अश्विनौ)+++,
स्था॒णुं प॑थे॒ष्ठाम् अप॑ दुर्म॒तिꣳ ह॑तम्

+++(नावमुत्तरयानुमन्त्रयते)+++

०६ ०१ नावमुत्तरयाऽनुमन्त्रयते अथ ...{Loading}...

नावम् उत्तरयानुमन्त्रयते +++(=अयं नो मह्याः पारं स्वस्ति)+++ ॥

०२ अयन्नो मह्याः ...{Loading}...

अ॒यन् नो॑ म॒ह्याः+++(=महत्याः [नद्याः])+++ पा॒र२ꣳ
स्व॒स्ति ने॑ष॒द् वन॒स्पतिः॑ ।
सीरा॑+++(=नदि!)+++ नस् सु॒तरा॑ भव
दीर्घायु॒त्वाय॒ वर्च॑से ।

०६ ०२ न च ...{Loading}...

न च नाव्यांस् +++(=तरयितॄन्)+++ तरती वधूः पश्येत् ॥

०६ ०३ तीर्त्वोत्तराञ् जपेत् ...{Loading}...

तीर्त्वोत्तरां +++(=अस्य पारः)+++ जपेत् ॥

०३ अस्य पारे ...{Loading}...

+++(तीर्त्वा जपः)+++
अ॒स्य॒ +++(नद्यादेः)+++ पा॒रे +++(तीरे)+++ नि॑र्ऋ॒तस्य॑+++(=निस्तरितस्य)+++
जी॒वा ज्योति॑र् अशीमहि
म॒ह्या+++(=महत्यै)+++ इ॑न्द्रस् स्व॒स्तये॑ +++(ऽस्तु)+++।

श्मशानादिव्यतिक्रमे होमः

०६ ०४ श्मशानादिव्यतिक्रमे भाण्डे ...{Loading}...

श्मशानाधिव्यातिक्रमे भाण्डे रथे वा रिष्टे ऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा आहुतीर् +++(= “यदृतेचिद्” इत्याद्यास्सप्त)+++ हुत्वा जयादि प्रतिपद्यते, परिषेचनान्तं करोति ॥

०४ यदृतेचिदभिश्रिषः पुरा ...{Loading}...

यद् ऋ॒ते-चि॑द् अभि॒श्रि+++(श्लि)+++षः॑
पु॒रा ज॒र्तृ+++(तु)+++भ्य॑ आ॒तृदः॑+++(=दृढीकुर्वन्ति)+++ ।
सन्धा॑ता स॒न्धिं म॒घवा॑ पुरो॒वसु॒र्+++(=बहुधनः)+++,
निष्+++(=संस्)+++क॑र्ता॒ विहृ॑+++(ह्रु)+++तं॒+++(=विनष्टं)+++ पुनः॑ । +++(स्वाहा॑!)+++

०५ इडामग्न ...{Loading}...

इडा॑म्+++(=अन्नम्)+++ अग्ने पुरु॒दꣳसꣳ॑+++(=बहुदर्शनीयं)+++
स॒निङ् गोश् श॑श्वत्त॒मꣳ हव॑म् आनाय साध+++(य)+++ ।
स्यान् न॑स् सू॒+++(सु)+++नुस् तन॑यो+++(=पौत्रः)+++
वि॒जावा+++(विजनक)+++ ऽग्ने॒ सा ते॑ सुम॒तिर् भू᳚त्व् अ॒स्मे+++(=स्मासु)+++ ।

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

क्षीरिवृक्षाद्यतिक्रमे जपः

०६ ०५ क्षीरिणामन्येषां वा ...{Loading}...

+++(“सकृदेव, न पुनः पुनरित्यर्थः” इति हरदत्तः।)+++ क्षीरिणाम् अन्येषां वा लक्ष्मण्यानां +++(= प्रसिद्धानां सीमावृक्षणामित्यर्थः)+++ वृक्षाणां नदीनां धन्वनां +++(=दीर्घाण्यरण्यानि येषु ग्राम्याः पशवो न निवसन्ति)+++ च व्यतिक्रम उत्तरे +++(=“ये गन्धर्वाः” इति वृक्षाणां व्यतिक्रमे,“या ओषधयः” इति नदीनां धन्वनाम् ।)+++ यथालिङ्गं जपेत्॥

११ ये गन्धर्वा ...{Loading}...

ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श् च दे॒वीर्
ए॒षु वृ॒क्षेषु॑ वानस्प॒त्येष् आस॑ते ।
शि॒वास् ते अ॒स्यै व॒द्ध्वै॑ भवन्तु॒
मा हिꣳ॑सिषुर् वह॒तुम्+++(=स्त्रीधनम्)+++ ऊ॒ह्यमा॑नाम् ।

नद्याद्यतिक्रमे जपः
१२ या ओषधयो ...{Loading}...

या ओष॑धयो॒ या न॒द्यो॑
यानि॒ धन्वा॑नि॒+++(=निर्जलस्थानानि)+++ ये वना॑ ।
ते त्वा॑ वधु प्र॒जाव॑तीं॒
प्र त्वे+++(=त्वां)+++ मु॑ञ्च॒न्त्व् अꣳह॑सः ।

गृहप्रवेशः

०६ ०६ गृहानुत्तरया सङ्काशयति ...{Loading}...

+++(ज्ञातिधनसंयुक्तान् )+++ गृहान् उत्तरया +++(=“सङ्काशयामि” इत्यनया)+++ सङ्काशयति +++(=दर्शयति)+++॥

+++(गृहानुत्तरया संकाशयति, तत्र वहतुः पूर्वं प्रापयितव्यः।)+++

१३ सङ्काशयामि वहतुम् ...{Loading}...

संका॑शयामि+++(=प्रदर्शयामि)+++ वह॒तुं+++(=स्त्रीधनं)+++ ब्रह्म॑णा
गृ॒हैर् +++(सह)+++ अघो॑रेण॒ चक्षु॑षा॒ मैत्रे॑ण ।
+++(आभरणादिकम्)+++ प॒र्या-ण॑द्धं वि॒श्वरू॑पं॒ यद् अ॒स्याꣳ
स्यो॒नं पति॑भ्यस्+++(=पत्यादिभ्यः)+++ सवि॒ता कृ॑णोतु॒ तत् ।+++(र४)+++

०६ ०७ वाहावुत्तराभ्यां विमुञ्चति ...{Loading}...

वाहावुत्तराभ्यां +++(“आवामगन्” इति द्वाभ्याम्)+++ विमुञ्चति दक्षिणमग्रे।
+++(वाहौ विमुञ्चति)+++

१४ आ वामगन्त्सुमतिर्वाजिनी ...{Loading}...
१२ आ वामगन्त्सुमतिर्वाजिनीवसू ...{Loading}...

आ वा॑म् अगन्त् सुम॒तिर्, वा॑जिनी+++(=अश्वी)+++वसू॒
न्य् +++(हे)+++ अश्वि॑ना, हृ॒त्सु +++(गृहप्राप्ति)+++कामाꣳ॑ अयꣳसत+++(=नियती कृताः)+++ ।
अभू॑तङ् गो॒पा मि॑थु॒ना शु॑भस्पती
प्रि॒या अ॑र्य॒म्णो दुर्याꣳ॑+++(=गृहान्)+++ अशीमहि+++(=प्रविशेम)+++ ।

१५ अयन्नो देवस्सविता ...{Loading}...

+++(वाह!)+++ अ॒यन् नो॑ दे॒वस् स॑वि॒ता बृह॒स्पति॑र्
इन्द्रा॒ग्नी मि॒त्रावरु॑णा स्व॒स्तये॑ ।
त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सꣳररा॒णः+++(=सन्ददानः)+++
काम॒+++(य्)+++ आया॑तं॒ कामा॑य त्वा॒ विमु॑ञ्चतु ॥ (7)

०६ ०८ लोहितञ् चर्मानडुहम् ...{Loading}...

लोहितं चर्माऽऽनडुहं प्राचीनग्रीवम् उत्तर+++(=ऊर्ध्व)+++लोमम् मध्येऽगारस्योत्तरया +++(=“शर्मा वर्मे"त्येतया)+++ ऽऽस्तीर्य, गृहान् प्रपादयन्न् उत्तरां +++(=“गृहान् भद्रान्”)+++ वाचयति, दक्षिणेन पदा +++(गृहान् प्रपादयन्)+++।


+++(चर्मास्तरणम्)+++

०१ शर्म वर्मेदमाहरास्यै ...{Loading}...

शर्म॒ वर्मे॒दम् आह॑रा॒+
ऽस्यै नार्या॑ उप॒स्तिरे॑+++(=उपस्तरणे)+++ ।
सिनी॑वालि॒+++(=शुक्लप्रथमाकला)+++ प्रजा॑यताम्
इ॒यं भग॑स्य सुम॒ताव् अ॑सत् ।


+++(गृहान् प्रपादयन् वधूं वाचयति)+++

०२ गृहान्भद्रान्त्सुमनसः प्रपद्येऽवीरघ्नी ...{Loading}...

गृ॒हान् भ॒द्रान्त् सु॒मन॑सः॒ प्रप॒द्ये
ऽवी॑रघ्नी वी॒रव॑तस् सु॒वीरान्॑ ।
इरां॒+++(=अन्नं)+++ वह॑तो घृ॒तम् +++(प्र+)+++उ॒क्षमा॑णा॒स्
तेष्व् अ॒हꣳ सु॒मना॒स् सं वि॑शामि ।+++(र५)+++

०६ ०९ न च ...{Loading}...

न च देहलीमभि+++(धि)+++तिष्ठति।

औपासने त्रयोदश होममन्त्राः

०६ १० उत्तरपूर्वे ...{Loading}...

उत्तरपूर्वे देशे ऽगारस्याग्नेर् उपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा +++(=“आगन्गोष्ठ"मित्याद्याः, लिङ्गविरोधे सत्यपि वर एव जुहोति, विधेर्बलीयस्त्वात् )+++ आहुतीर् हुत्वा जयादि प्रतिपद्यते

०३ आगन्गोष्ठम् महिषी ...{Loading}...

आग॑न् गो॒ष्ठं महि॑षी॒ गोभि॒र् अश्वै॒र्
आयु॑ष्मत्पत्नी, प्र॒जया॑ स्व॒र्वित् +++(यतो “नापुत्रस्य लोकोस्ति”)+++।
ब॒ह्वीं प्र॒जाञ् ज॒नय॑न्ती सुरत्ने॒- -मम् अ॒ग्निꣳ श॒त-हि॑मास् +++(शतवर्षाणि)+++ सपर्यात्+++(=परिचरतु)+++ ।

+++(पुरा हिमवदृतुभिर् वर्षाणि गण्यन्ते स्मेति विस्मयः।)+++

०४ अयमग्निर्गृहपतिस्सुसंसत्पुष्टिवर्द्धनः ...{Loading}...

अ॒यम् अ॒ग्निर् गृ॒ह-प॑तिस्+++(!)+++
सुस॒ꣳ॒सत्+++(=शोभनसदनः)+++ पु॑ष्टि॒वर्द्ध॑नः ।
यथा॒ भग॑स्या॒+++(=भगाय)+++ऽऽभ्यां दद॑द्
र॒यिं पुष्टि॒म् अथो॑ प्र॒जाम् ।

०५ प्रजाया आभ्याम् ...{Loading}...

प्र॒जाया॑ आभ्यां प्रजापत॒
इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ।
यथैन॑यो॒र् न प्र॑मी॒याता॑+++(य्)+++
उ॒भयो॒र् जीव॑तोः प्र॒जा ।

०६ तेन भूतेन ...{Loading}...
मन्त्रः
०१ तेन भूतेन ...{Loading}...

तेन॑ भू॒तेन॑ ह॒विषा॒यमा प्या॑यतां॒ पुनः॑।
जा॒यां याम॑स्मा॒ आवा॑क्षु॒स्तां रसे॑ना॒भि व॑र्धताम् ॥

०७ अभिवर्द्धताम् पयसाऽभि ...{Loading}...

अ॒भिव॑र्द्धतां॒ पय॑सा॒
ऽभि रा॒ष्ट्रेण॑ वर्द्धताम् ।
र॒य्या स॒हस्र॑पोषसे॒-
मौ स्ता॒म् अन॑पेक्षितौ ।+++(र४)+++

०८ इहैव स्तम् ...{Loading}...

इ॒हैव स्तं॒ मा वियो॑ष्टं॒
विश्व॒म् आयु॒र् व्य॑श्नुतम् ।
म॒ह्या+++(य्)+++ इ॑न्द्रस् स्व॒स्तये॑ +++(ऽस्तु)+++ ।+++(र४)+++

०९ ध्रुवैधि पोष्या ...{Loading}...

ध्रु॒वैधि पो॑ष्या॒ मयि॒
मह्य॑न् त्वा ऽदा॒द् बृह॒स्पतिः॑ ।
मया॒ पत्या॑ प्र॒जाव॑ती॒
सं जी॑व श॒रद॑श्श॒तम् ।+++(र४)+++

१० त्वष्टा जायामजनयत् ...{Loading}...

त्वष्टा॑ जा॒याम् अ॑जनय॒त्
+++(“त्वष्टा रुपाणि पिंशतु” इति गर्भाधाने)+++
त्वष्टा॑ ऽस्यै॒+++(स्याः)+++ त्वां पति॑म् ।
त्वष्टा॑ स॒हस्र॒म् आयूꣳ॑षि
दी॒र्घम् आयुः॑ कृणोतु वाम् ।

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने अष्टमः खण्डः ॥

उपवेषनम्

परिषेचनान्तं कृत्वोत्तरया +++(=इह गावः प्रजायध्वम्)+++ चर्मण्युपविशत उत्तरो वरः +++(प्राङ्मुखौ)+++ ।

+++(उत्तरया चर्मण्युपविशतः। आमन्त्रितनिघातः छान्दसत्वान्नभवति ।)+++

०१ इह गावः ...{Loading}...

इ॒ह गावः॒ प्रजा॑यद्ध्वम्
इ॒हाश्वा॑ इ॒ह पूरु॑षाः ।
इ॒हो+++(ह+उ)+++ स॒हस्र॑-दक्षिणो
रा॒यस्पोषो॒ निषी॑दतु ।+++(र५)+++

०६ ११ अथास्याः पुँस्वोर्जीवपुत्रायाः ...{Loading}...

अथास्याः पुंस्वो +++(=या पुमांसमेव सूते न स्त्रियं सा )+++ जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य +++(=“सोमेनादित्या”)+++ तस्मै फलान्युत्तरेण +++(=प्रस्वस्थः प्रेयः)+++ यजुषा प्रदायोत्तरे +++(=“इह प्रियं प्रजयाः”)+++ जपित्वा वाचं यच्छत +++(=मौनमाचरतः)+++ आ नक्षत्रेभ्यः ॥


+++(अथ या पुमांसमेव सूतवती जीवपुत्रा च, तस्याः पुत्रं वध्वा अङ्के उपवेशयति।)+++

०२ सोमेनादित्या बलिनस्सोमेन ...{Loading}...

सोमे॑नादि॒त्या ब॒लिन॒स्
सोमे॑न पृथि॒वी दृ॒ढा ।
अथो॒ नक्ष॑त्राणाम् ए॒षाम्
उ॒पस्थे॒ सोम॒ आधि॑+++(हि)+++तः।

+++( एवमयं बालः तवोपस्थे उपविशतु)+++ +++(५)+++

+++(तस्मै फलानि प्रयच्छति)+++

०३ प्र स्वस्स्थः ...{Loading}...
मन्त्रः

+++(हे फलानि!)+++ प्र स्वस्+++(=सूताः)+++ स्थः॒,
प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट+++(=सोषीष्ट, √ सू)+++ ।


+++(उत्तरे जपति)+++

०४ इह प्रियम् ...{Loading}...
२७ इह प्रियं ...{Loading}...

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।
ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑द्ध्यताम्,
अ॒स्मिन् गृ॒हे गार्ह॑पत्याय +++(भावाय)+++ जागृहि +++(अतिथीनामग्नीनां च सेवया)+++।
ए॒ना पत्या॑ त॒न्वꣳ॑ सꣳ सृ॑ज॒स्वा-
ऽथा॒ जीव्री॑+++(=जीर्णा)+++ वि॒दथ॒म्+++(=यज्ञं)+++ आ व॑दासि +++(पौत्रादिभ्यः)+++।

०५ सुमङ्गलीरियं वधूरिमाम् ...{Loading}...
३३ सुमङ्गलीरियं वधूरिमां ...{Loading}...

सु॒म॒ङ्ग॒लीर् इ॒यं व॒धूर्
इ॒माꣳ स॑मेत॒ पश्य॑त ।
सौभा॑ग्यम् अ॒स्यै द॒त्वाया+++(=दत्वा)+++-
ऽथाऽऽस्तं॒ +++(स्वस्वगृहाणि)+++ वि परे॑तन+++(=गच्छत)+++ ।+++(र४)+++

तारादर्शनम्

०६ १२ उदितेषु नक्षत्रेषु ...{Loading}...

उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशम् उपनिष्क्रम्योत्तराभ्यां +++(=ध्रुवक्षितिर् ध्रुवयोनिः)+++ यथालिङ्गं +++(=तेनोत्तरस्याम् ऋचि सर्वेषां सप्तर्षीणां कृत्तिकादिनाम् अरून्धत्याश्च सहदर्शनम्)+++ ध्रुवम् अरुन्धतीं च दर्शयति॥

+++(ध्रुवं दर्शयति)+++

०६ ध्रुवक्षितिर्द्ध्रुवयोनिर्द्ध्रुवमसि द्ध्रुवतस्स्थितम् ...{Loading}...

ध्रु॒व-क्षि॑तिर् ध्रु॒व-यो॑निर्
ध्रु॒वम् अ॑सि ध्रु॒वत॑स् स्थि॒तम् ।
त्वन् नक्ष॑त्राणां मे॒थ्य्+++(=खलेवाली, खले धान्य-पेषण-स्थाने वाल्यन्ते वृषा इति)+++ असि॒
+++(अन्यत्र ध्रुवसम्बन्धे मेढीकृत इति शब्दः प्रयुज्यते पुराणेषु।)+++
स मा॑ पाहि पृतन्य॒तः+++(=योद्धुकामात्)+++ ।


+++(अरुन्धतीं दर्शयति। ६ कृत्तिकाः + अरुन्धती = ७ कृत्तिकाः सप्तऋषिपन्त्यः। अरुन्धती स्थिरा, शिष्टास् त्यक्ताः शङ्कया।)+++

०७ सप्तऋषयः प्रथमाम् ...{Loading}...

स॒प्त॒ऋ॒षयः॑ प्रथ॒मां कृत्ति॑कानाम् अरुन्ध॒तीम् यद् ध्रु॒वता॒ꣳ॒ ह नि॒न्युः। षट्कृत्ति॑कामुख्ययो॒गं वह॑न्ति +++(तस्याम्)+++।
+++(वधूर्)+++ इयम् अ॒स्माक॑म् एधत्व् अष्ट॒मी ।+++(र५)+++

होमविशेषाः

होमविशेषाः ...{Loading}...

उपाकरण समापनयोः काण्डर्षीणां स्विष्टकृत्-स्थानीयः होमः
११उ ०३ ...{Loading}...

+++(शिष्टाचारानुसारेण मध्याह्नात् परं)+++
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते
ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या,
ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा
उपहोमो +++(= सांहितीभ्यो, याज्ञिकीभ्यो, वारुणीभ्यो, ब्रह्मणे स्वयंभुवे इति सुदर्शनसूरिः। हरदत्तस्तु जयादय इति।)+++,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३

०८ सदसस्पतिमद्भुतम् प्रियमिन्द्रस्य ...{Loading}...
०६ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य ...{Loading}...

सद॑स॒स्पति॒म् अद्भु॑तं
प्रि॒यम् इन्द्र॑स्य॒ काम्य॑म् ।
स॒निं +++(=दानरूपम्)+++ मे॒धाम् अ॑यासिषम् ६

विश्वास-टिप्पनी

होम-स्थाने तर्पणम् बहुधा क्रियते।
होमाङ्गत्वेनाध्ययनम् इच्छन्ति केचित्।

स्वयं प्रज्वलिते ऽग्नौ समिदाधानम्
०८ ०५ सर्वत्र स्वयम् ...{Loading}...

सर्वत्र स्वयं +++(धमनादि पुरुषप्रयत्नमन्तरेण)+++ प्रज्वलितेऽग्नावुत्तराभ्यां +++(=उद्दीप्यस्व जातवेदः, मा नो हिंसीः)+++ समिधावादध्यात् ५

०९ उद्दीप्यस्व जातवेदोऽपघ्नन्निर्ऋतिम् ...{Loading}...

उद्दी॑प्यस्व जातवेदो
ऽप॒घ्नन् निर्ऋ॑तिं॒ मम॑ ।
प॒शूꣳश् च॒ मह्य॒म् आ व॑ह॒
जीव॑नञ् च॒ दिशो॑ दश ।+++(र५)+++

१० मा नो ...{Loading}...

मा नो॑ हिꣳसीज् जातवेदो॒
गाम् अश्वं॒ पुरु॑ष॒ञ् जग॑त् ।
+++(परहवींष्य्)+++ अबि॑भ्र॒द्+++(न्)+++ अग्न॒ आग॑हि+++(=आगच्छ)+++,
श्रि॒या मा॒ परि॑पातय ॥ (9)

स्थालीपाकः

०७ ०१ अथैनाम् आग्नेयेन ...{Loading}...

अथैनाम् आग्नेयेन स्थालीपाकेन +++(वर ऋत्विग् इव)+++ याजयति +++(अथेति वचनादेतस्यामव रात्र्यां स्थालीपाको भवति ।)+++॥

०७ ०२ पत्न्यवहन्ति ...{Loading}...

पत्न्य् अवहन्ति +++(व्रीहीन् यवान् वा नवान्। न तु श्रपणादिकमपि। पर्वसु पतिर् एवावहन्यात्।)+++ ॥

+++(शिष्टं स्थालीपाककर्मान्यत्रोक्तम्। अत्र तु विवाहाङ्गत्वात् शम्या परिधय इति केचित्, नेत्यन्ये।)+++

०७ १६ योऽस्यापचितस्तस्मा ऋषभम् ...{Loading}...

योऽस्यापचितस् तस्मा ऋषभं ददाति +++(वराय याजकेन न दक्षिणा वध्वा देयेति भावेन, तत्प्रतिनिधिः)+++॥

ब्रह्मचर्यम् होमः समावेशनं च

०८ ०७ एतदहर्विजानीयाद्यदहर्भार्यामावहते ...{Loading}...

एतदहर् विजानीयाद् यदहर् भार्याम् आवहते +++(विवाहाब्दिकम् अत्रोक्तम् इति हरदत्तः)+++ ७

०८ ०८ त्रिरात्रमुभयोरधश्शय्या ...{Loading}...

त्रिरात्रमुभयोरधश् शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च ८

०८ ०९ तयोश्शय्यामन्तरेण दण्डो ...{Loading}...

तयोश् शय्यामन्तेरण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति ॥

दण्डोत्थापनमन्त्रः

०८ १० तञ् चतुर्थ्याऽपररात्र ...{Loading}...

तं +++(दण्डं)+++ चतुर्थ्या ऽपररात्र +++(=रात्रेस्तृतीयो भागः)+++ उत्तराभ्याम् +++(=“उदीर्ष्वात” इत्येताभ्यां)+++ उत्थाप्य, प्रक्षाल्य, निधाय,

०१ उदीर्ष्वातो विश्वावसो ...{Loading}...
२२ उदीर्ष्वातो विश्वावसो ...{Loading}...

उ॒दी॒र्ष्वाऽतो॑ विश्वावसो॒ +++(गन्धर्व)+++
नम॑सेडामहे त्वा ।
अ॒न्याम् इ॑च्छ प्रफ॒र्व्यꣳ॑+++(=प्रथमवयसं)+++
सञ्जा॒यां पत्या॑ सृज ।

०२ उदीर्ष्वातः पतिवती ...{Loading}...
२१ उदीर्ष्वातः पतिवती ...{Loading}...

उदी॒र्ष्व+++(=उद्गच्छ)+++ +अतः॒ पति॑वती॒ ह्ये॒३॒॑षा
वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिर् ई॑ळे ।
अ॒न्याम् इ॑च्छ पितृ॒षदं॒ व्य॑क्तां॒
स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥२१

उ॒दी॒र्ष्वातः॒ पति॑वती॒ ह्य् ए॑षा
वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिर् ई॑ट्टे+++(=याचे)+++ ।
अ॒न्याम् इ॑च्छ पितृ॒षदं॒ व्य॑क्ता॒ꣳ॒
स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ।

शेष-होम-मन्त्राः

अग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाम् उत्तरा आहुतीर् +++(=सप्त प्रधानाहुतीर्जुहोति “अग्ने प्रायश्चित्ते"इत्येवमाद्याः)+++ हुत्वा जयादि प्रतिपद्यते।

०३-०६ अग्ने प्रायश्चित्ते ...{Loading}...

अग्ने॑ प्रायश्+++(=विनाश)+++-चित्ते॒+++(=सन्धातः)+++! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

वायो॑ प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

आदि॑त्य प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

प्रजा॑पते प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

०७ प्रसवश्चोपयामश्च काटश्चार्णवश्च ...{Loading}...

प्र॒स॒वश्+++(=अनुज्ञा)+++ चो॑पया॒मश्+++(=पृथिवी)+++ च॒
+++(इयं वा उपयामः इति श्रुतेः)+++
काट॑श्+++(=लिङ्गरूपरुद्रः)+++ चार्ण॒वश् च॑
धर्ण॒सिश्+++(=गृहं)+++ च॒ द्रवि॑णञ् च॒
भग॑श् चा॒न्तरि॑क्षञ् च॒
सिन्धु॑श् च समु॒द्रश् च॒
सर॑स्वाꣳश् च वि॒श्वव्य॑चाश् च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।

+++(वसन्तादीनां षण्णामृतूनां द्वौद्वौ मासौ-)+++

०८ मधुश्च माधवश्च ...{Loading}...

मधु॑श्च॒ माध॑वश्च
शु॒क्रश्च॒ शुचि॑श्च॒
नभ॑श्च नभ॒स्य॑श् च॒
+इ॒षश् चो॒र्जश्च॒
सह॑श् च सह॒स्य॑श् च॒
तप॑श् च तप॒स्य॑श् च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।

०९ चित्तञ्च चित्तिश्चाकूतञ्चाकूतिश्चाधीतञ्चाधीतिश्च ...{Loading}...

चि॒त्तञ् च॒ चित्ति॒श् चा+
ऽकू॑त॒ञ्+++(=अभिप्रेतम्)+++ चाकू॑ति॒श्+++(=अभिप्रायः)+++ च
+अधी॑त॒ञ् चाधी॑तिश्च॒
विज्ञा॑तञ्च वि॒ज्ञान॑ञ्च॒
नाम॑ च॒ क्रतु॑श्+++(=आकृतिः)+++ च॒
दर्श॑श्च पू॒र्णमा॑सश्च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।

वध्वाश् शिरस्य् आज्यशेषानयनम्
१० भूस्स्वाहा भुवस्स्वाहा ...{Loading}...

भूस् स्वाहा॒, भुव॒स् स्वाहा॒, सुव॒स् स्वाहोꣳ स्वाहा॑ ॥ (10)

+++(भूरादयः त्रयो लोकाः । ओमिति ब्रह्म ॥)+++

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्र व्याख्याने दशमः खण्डः

परस्परवीक्षणम्

परिषेचनान्तं कृत्वा, अपरेणाग्निं प्राचीम् उपवेश्य तस्याश् शिरस्याज्यशेषाद् व्याहृतिभिर् ओङ्कारचतुर्थाभिरानीयोत्तराभ्यां +++(=“अपश्यं त्वे"त्येताभ्यां)+++ यथालिङ्गं +++(=पूर्वया वधूः उत्तरया वरः)+++ मिथस्समीक्ष्य,

+++(वधूर् वरं समीक्षते)+++

०१ अपश्यन्त्वा मनसा ...{Loading}...

अप॑श्यन् त्वा॒ मन॑सा॒ चेकि॑तानं॒+++(=जानन्तं)+++
तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जाम् इ॒ह र॒यिꣳ ररा॑णः॒
प्रजा॑यस्व प्र॒जया॑ पुत्रकाम ।


+++(वरो वधूम् ईक्षते)+++

०२ अपश्यन्त्वा मनसा ...{Loading}...

अप॑श्यन् त्वा॒ मन॑सा॒ दीध्या॑ना॒ꣳ॒+++(=ध्यायन्तीं)+++
स्वायां॑ त॒नूꣳ+++(न्वां)+++ ऋ॒त्विये॒ +++(काले)+++ नाथ॑मानाम् ।
उप॒ माम् +++(सम्भोगकाले)+++ उ॒च्चा यु॑व॒तिर् बुभू॑याः॒+++(=अनुभूयाः)+++
प्रजा॑यस्व प्र॒जया॑ पुत्रकामे ।+++(४)+++

उत्तरया +++(=“समञ्जन्त्वि"त्येतया)+++ ऽज्यशेषेण हृदयदेशौ संमृज्य,


+++(उत्तरयाऽऽज्यशेषेण हृदयदेशौ समनक्ति)+++

०३ समञ्जन्तु विश्वे ...{Loading}...
४७ समञ्जन्तु विश्वे ...{Loading}...

सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः
समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता
समु॒ देष्ट्री॑+++(=दात्री [फलानाम्])+++ दधातु नौ ॥

सम॑ञ्जन्तु॒ विश्वे॑ दे॒वास्
समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता
समु॒ देष्ट्री॑+++(=सरस्वती)+++ दिदेष्टु नौ ।+++(र५)+++

अथ जपः

उत्तरास् तिस्रो +++(=“प्रजापते तन्व"मित्याद्याः)+++ जपित्वा,

०४ प्रजापते तन्वम् ...{Loading}...

प्रजा॑पते त॒न्वं॑ मे जुषस्व॒
त्वष्ट॑र् दे॒वेभि॑स् स॒हसा॒म+++(न= सममान)+++ इ॑न्द्र ।
विश्वै॑र् दे॒वै रा॒तिभि॑स् सꣳ ररा॒णः
पु॒ꣳ॒सां ब॑हू॒नां मा॒तर॑स् स्याम ।+++(र४)+++

०५ आ नः ...{Loading}...
४३ आ नः ...{Loading}...

+++(गृहप्रवेशे - )+++

आ नः॑ प्र॒जाञ् ज॑नयतु प्र॒जाप॑तिर्
आजर॒साय॒ +++(स्नेहाय)+++ सम॑नक्त्व् अर्य॒मा ।
अ-दु॑र्-मङ्गलीः पतिलो॒कम् आ वि॑श॒
शन् नो॑ भव द्वि॒पदे॒ शञ् चतु॑ष्पदे ।

०६ ताम् पूषञ्छिवतमा ...{Loading}...
३७ तां पूषञ्छिवतमामेरयस्व ...{Loading}...

तां पू॑षञ् छि॒वत॑मा॒म् एर॑यस्व॒
यस्यां॒ बीजं॑ मनु॒ष्या॑ वप॑न्ति ।
या न॑ ऊ॒रू उ॑श॒ती+++(=कामयमाना)+++ वि॒स्र+++(श्र)+++या॑तै॒+++(=विश्लिष्टौ कुर्यात्)+++
यस्या॑म् उ॒शन्तः॒+++(=कामयमानाः)+++ प्रह॑रेम॒ शेफ॑म् ॥+++(५)+++ (11)

शेषं +++(=“आरोहोरु"मित्यादि)+++ समावेशने जपेत् ॥

०१ आरोहोरुमुपबर्हस्व बाहुम् ...{Loading}...

+++(अन्तरात्मन्!)+++ आरो॑हो॒रुम् उप॑बर्हस्व बा॒हुं
परि॑ष्वजस्व जा॒याꣳ सु॑मन॒स्यमा॑नः +++(=प्रीयमाणः)+++ ।
तस्यां॑ पुष्यतं मिथु॒नौ सयो॑नी (=सङ्गतोपस्थौ)
ब॒ह्वीं प्र॒जां ज॒नय॑न्तौ॒ सरे॑तसा ।

०२ आर्द्रयाऽरण्या यत्रामन्थत्पुरुषम् ...{Loading}...

आ॒र्द्रया+++(आज्याक्तया)+++ऽर॑ण्या॒ +++(अग्निम्)+++ यत्रा+++(था)+++ऽम॑न्थ॒त्,
+++(तथा)+++ पुरु॑षं॒ +++(गर्भम्)+++ पुरु॑षेण +++(शेफेन)+++ श॒क्रः ।
तद् ए॒तौ मि॑थु॒नौ सयो॑नी+++(=सङ्गतोपस्थौ)+++
प्र॒जया॒ऽमृते॑ने॒ह ग॑च्छतम् ।

०८ ११ अन्यो वैनामभिमन्त्रयेत ...{Loading}...

अन्यो वैनाम् अभिमन्त्रयेत +++(अत्र सुदर्शनाचार्यः - इदं च “अहं गर्भमदधाम्” इत्यादि लिङ्गविरोधेऽपि श्रुतेर्बलीयस्त्वा)+++११

०३ अहङ् गर्भमदधामोषधीष्वहम् ...{Loading}...

अ॒हं गर्भ॒म् अद॑धा॒म् ओष॑धीष्व्
अ॒हं विश्वे॑षु॒ भुव॑नेष्व् अ॒न्तः ।
अ॒हं प्र॒जा अ॑जनयं पितॄृ॒णाम्
अ॒हं जनि॑भ्यो +++(=जन्याः = वध्वाः)+++ अप॒रीषु॑ +++(=पश्चात्कालस्नुषासु)+++ पु॒त्रान् ।+++(५)+++

०४ पुत्रिणेमा कुमारिणा ...{Loading}...

पु॒त्रिणे॒मा कु॑मा॒रिणा॒ विश्व॒म् आयु॒र् व्य॑श्नुतम् ।
उ॒भा हिर॑ण्य-पेशसा+++(=रूपौ)+++ वी॒ति+++(=हविर्)+++हो॑त्रा कृ॒तद्व॑सू (=कृतवसू)।

०५ दशस्यन्त्वाऽमृताय कंशमूधो ...{Loading}...

द॒श॒स्यन्त्वा॒ +++(=दशस्यन्तौ =दातारौ)+++ ऽमृता॑य॒ कꣳ (पादपूरणे) श+++(स)+++म् ऊधो॑
रोम॒शꣳ ह॑थो+++(=श्लिष्टं कुरुतम्)+++ दे॒वेषु॑ कृ॒णुतो॒ दुवः॑ (=परिचरणम्)।+++(४)+++

+++(भावयव्यस्य राज्ञो भार्याम् भावयव्यानीमिन्द्रः पत्युस्सखा परिहसन् उवाच उपभोगयोग्या त्वं न भवसि रोमाणि ते नोत्पन्नानीति । सा तमब्रवीत्- उपोप मे परामृश मा मे दभ्राणि मन्यथाः । सर्वाहमस्मि रोमशा गन्धारिणामिवाविका इति ॥)+++

विष्णुर् योनिम् ...{Loading}...

०१ विष्णुर्योनिङ्कल्पयतु त्वष्टा ...{Loading}...

०१ विष्णुर्योनिं कल्पयतु ...{Loading}...

विष्णु॒र् योनि॑ङ् कल्पयतु॒
त्वष्टा॑ रू॒पाणि॑ पिꣳशतु ।
आसि॑ञ्चतु प्र॒जाप॑तिर्
धा॒ता गर्भं॑ दधातु ते ।

०२ गर्भन्धेहि सिनीवालि ...{Loading}...

०२ गर्भं धेहि ...{Loading}...

गर्भ॑न् धेहि सिनीवालि॒
गर्भ॑न् धेहि सरस्वति ।
गर्भ॑न् ते अ॒श्विनौ॑ दे॒वव्
आ ध॑त्तां॒ पुष्क॑रस्रजा ।

०३ हिरण्ययी अरणी ...{Loading}...

०३ हिरण्ययी अरणी ...{Loading}...

हि॒र॒ण्ययी॑ अ॒रणी॒ यन्
नि॒र्मन्थ॑तो अ॒श्विना॑ ।
तन् ते॒ गर्भꣳ॑ हवामहे
दश॒मे मा॒सि सूत॑वे ।

०४ यथेयम् पृथिवी ...{Loading}...

यथे॒यं पृ॑थि॒वी म॒ही
तिष्ठ॑न्ती॒ गर्भ॑म् आद॒धे ।
ए॒वन् त्वं गर्भ॒म् आ ध॑त्स्व
दश॒मे मा॒सि सूत॑वे ।

०५ यथा पृथिव्यग्निगर्भा ...{Loading}...

यथा॑ पृथि॒व्य् अ॑ग्निग॑र्भा॒
द्यौर् यथेन्द्रे॑ण ग॒र्भिणी॑ ।
वा॒युर् यथा॑ दि॒शां गर्भ॑
ए॒वं गर्भं॑ दधामि ते ।

०६ विष्णो श्रेष्ठेन ...{Loading}...

विष्णो॒ श्रेष्ठे॑न रू॒पेणा॒+
ऽऽस्यान् नार्यां॑ गवी॒न्या॑म् +++(=कमनीयायाम्)+++ ।
पुमाꣳ॑सं॒ गर्भ॒म् आ धे॑हि
दश॒मे मा॒सि सूत॑वे ।

०७ नेजमेष परा ...{Loading}...

नेज॑मेष॒ परा॑ पत॒
सुपु॑त्रः॒ पुन॒र् आ प॑त ।
अ॒स्यै मे पु॒त्रका॑मायै॒
गर्भ॒म् आ धे॑हि॒ यः पुमा॑न् ।

०८ व्यस्य योनिम् ...{Loading}...

व्यस्य॒ योनिं॒ प्रति॒ रेतो॑ गृहाण॒
पुमा॑न् पु॒त्रो धी॑यतां॒ गर्भो॑ अ॒न्तः ।
तं मा॒ता द॑श॒मासो॑ बिभर्तु॒
स जा॑यतां वी॒रत॑म॒स् स्वाना॑म् ।

०९ आ ते ...{Loading}...

आ ते॒ गर्भो॒ योनि॑म् एतु॒
पुमा॒न् बाण॑ इवेषु॒धिम् ।
आ वी॒रो जा॑यतां
पु॒त्रस् ते॑ दश॒मास्यः॑ ॥

०१ करोमि ते ...{Loading}...

क॒रोमि॑ ते प्राजाप॒त्यम्
आ गर्भो॒ योनि॑म् एतु ते ।
अनू॑नः पू॒र्णो जा॑यता॒म्
अश्लो॒णो ऽपि॑शाचधीतः ।

०२ पुमांस्ते पुत्रो ...{Loading}...

पुमाꣳ॑स् ते पु॒त्रो ना॑रि॒ तं
पुमा॒न् अनु॑ जायताम् ।
तानि॑ भ॒द्राणि॒ बीजा॑न्य्
ऋष॒भा ज॑नयन्तु नौ ।

०३ यानि भद्राणि ...{Loading}...

यानि॑ भ॒द्राणि॒ बीजा॑न्य्
ऋष॒भा ज॑नय॒न्ति नः॑ ।
तैस् त्वं पु॒त्रान् वि॑न्दस्व॒
सा प्र॒सूर् धे॑नु॒का भ॑व ।

०४ काम प्रमृद्ध्यताम् ...{Loading}...

काम॒ प्रमृ॑द्ध्यतां॒ मह्य॒म्
अप॑राजितम् ए॒व मे॑ ।
यं कामं॑ का॒मये॑ देव॒
तं मे॑ वायो॒ सम॑र्द्धय ।

प्रासङ्गिक-जपाः

+++(अर्थप्राध्वस्य परिक्षवपरिकासनयोः जपः)+++

०५ अनुहवम् परिहवम् ...{Loading}...

अ॒नु॒ह॒वं+++(=पृष्ठत आह्वानं)+++ प॑रिह॒वं+++(=परित आह्वानं)+++
प॑रीवा॒दं प॑रिक्ष॒पम्+++(=परितः क्षवतुः → अक्षिशब्दः)+++ ।
दुस्स्व॑प्नं॒ दुरु॑दितं॒
तद् द्वि॒षद्भ्यो॑ दिशाम्य् अ॒हम् ।

०६ अनुहूतम् परिहूतम् ...{Loading}...

अनु॑हूतं॒ परि॑हूतꣳ
श॒कुने॒र् यद् अशा॑कु॒नम्+++(→दुर्निमित्तम्)+++ ।
मृ॒गस्य॑ +++(अपसव्यादि)+++सृ॒तम् अ॑क्ष्णया॒+++(→अक्षणेन)+++
तद् द्वि॒षद्भ्यो॑ दिशाम्य् अ॒हम् ।


+++(चित्रियस्य/ विशिष्टस्य वनस्पतेर् अभिमन्त्रणम्)+++

०७ आरात्ते अग्निरस्त्वारात्परशुरस्तु ...{Loading}...

आ॒रात्+++(=दूरतः)+++ ते॑ अ॒ग्निर् अ॑स्त्व्
आ॒रात् प॑र॒शुर् अ॑स्तु ते ।
नि॒+++(र्)+++वा॒ते त्वा॒ ऽभिव॑र्षतु।
स्व॒स्ति ते॑ऽस्तु वनस्पते।
स्व॒स्ति मे॑ऽस्तु वनस्पते ।


+++(शकृद्रीतेर् उपस्थानम्)+++

०८ नमश्शकृत्सदे रुद्राय ...{Loading}...

नम॑श् शकृ॒त्सदे॑ रु॒द्राय॒
नमो॑ रु॒द्राय॑ शकृ॒त्सदे॑ ।
+++(शकृत्!)+++ गो॒ष्ठम् अ॑सि॒ नम॑स्ते अस्तु॒, मा मा॑ हिꣳसीः।


+++(सिग्वातस्याभिमन्त्रणम्)+++

०९ सिगसि नसि ...{Loading}...

सिग्+++(=वस्र-सीमा)+++ अ॑सि॒, न+++(ना)+++सि॒ वज्रो॒, नम॑स् ते अस्तु॒, मा मा॑ हिꣳसीः ।


शकुनेरभिमन्त्रणम्

१० उद्गातेव शकुने ...{Loading}...

उ॒द्गा॒तेव॑ श॒कुने॒ साम॑ गायसि
ब्रह्मपु॒त्र+++(=ब्राह्मणाच्छंसी)+++ इ॑व॒ सव॑नेषु शꣳससि ।
स्व॒स्ति न॑श् श॒कुने॑ अस्तु॒
प्रति॑ नस् सु॒मना॑ भव ॥ (14)

दम्पत्योः हृदयविश्लेषे हृदयसंसर्गेप्सोर्होमः।

०१ प्रातरग्निम् प्रातरिन्द्रम् ...{Loading}...

०१ प्रातरग्निं प्रातरिन्द्रं ...{Loading}...

प्रा॒तर् अ॒ग्निं, प्रा॒तर् इन्द्रं॑ हवामहे
प्रा॒तर् मि॒त्रावरु॑णा, प्रा॒तर् अ॒श्विना॑ ।
प्रा॒तर् भगं॑, पू॒षणं॒, ब्रह्म॑ण॒स्पतिं॑
प्रा॒तः सोम॑म्, उ॒त रु॒द्रं हु॑वेम ॥१॥

०२ प्रातर्जितम् भगमुग्रम् ...{Loading}...

०२ प्रातर्जितं भगमुग्रं ...{Loading}...

प्रा॒त॒र्-जितं॒ +++(=जयशीलं)+++ भग॑म् उ॒ग्रं हु॑वेम
व॒यं पु॒त्रम् अदि॑ते॒र् यो वि॑ध॒र्ता।
आ॒ध्रश् +++(=दरिद्रश्)+++ चि॒द् यं मन्य॑मानस् तु॒रश्+++(=त्वरमाणो)+++-चि॒द्
राजा॑ चि॒द् यं भगं॑ भ॒क्षी+++(=भजामी)+++त्याह॑ ॥२॥

०३ भग प्रणेतर्भग ...{Loading}...

०३ भग प्रणेतर्भग ...{Loading}...

भग॒ प्रणे॑त॒र्, भग॒ सत्य॑राधो॒!
भगे॒मां धिय॒म् उद॑वा॒ +++(=रक्ष)+++ दद॑न् नः ।
भग॒ प्र णो॑ जनय॒ गोभि॒र् अश्वै॒र्
भग॒ प्र नृभि॑र् नृ॒वन्तः॑ स्याम ॥३॥

०४ उतेदानीम् भगवन्तस्स्यामोत ...{Loading}...

०४ उतेदानीं भगवन्तः ...{Loading}...

उ॒तेदानीं॒ भग॑वन्तः स्याम॒॒+
+उ॒त प्र॑पि॒त्व +++(=सायङ्काले)+++ उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघ-व॒न्त्! सूर्य॑स्य
व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥४॥

०५ भग एव ...{Loading}...

०५ भग एव ...{Loading}...

भग॑ ए॒व भग॑-वाँ अस्तु देवा॒स्
तेन॑ व॒यं भग॑वन्तः स्याम
तं त्वा॑ भग॒ सर्व॒ इज् जो॑हवीति॒ +++(←जोहवीमीति तैत्तिरीये)+++
स नो॑ भग पुर ए॒ता भ॑वे॒ह ॥५॥

०६ समध्वरायोषसो नमन्त ...{Loading}...

०६ समध्वरायोषसो नमन्त ...{Loading}...

सम् अ॑ध्व॒रायो॒षसो॑ नमन्त,
दधि॒क्रावे॑व॒ +++(=pegasus-अश्व इव खे)+++ शुच॑ये प॒दाय॑ +++(प्रोष्ठ-पदरूपेण खे, आधाने ऽश्वक्रमवद् भुवि)+++।
+++(खचक्रे विपरीतदिशि स्वनक्षत्रय् उत्तर-फाल्गुने वर्त्तित्वाद्)+++
अ॒र्वा॒ची॒नं व॑सु॒-विदं॒ +++(=धनलब्धारं)+++ भगं॑ नो॒
रथ॑म् इ॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥६॥
+++(३००० BCE इति काले फाल्गुनीषु प्रोष्ठपदासु च सौरायनवर्तनम् अदृश्यतेति प्रासङ्गिकं स्यात्।)+++

०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...

०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...

अश्वा॑वती॒र् गोम॑तीर् न उ॒षासो॑
वी॒रव॑ती॒स् सद॑म् उच्छन्तु +++(=प्रभातं कुर्वन्तु)+++ भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना +++(=आप्यायन्त्यः)+++
यू॒यं पा॑त स्व॒स्तिभि॒स् सदा॑ नः ॥७॥

पतिवशीकरणम् ...{Loading}...

+++(पाठाया उत्पाटन मन्त्रः)+++

०१ इमाङ् खनाम्योषधीम् ...{Loading}...

इ॒मां खना॒म्य् ओष॑धीं
वी॒रुधं॒+++(हां)+++ बल॑वत्तमाम् ।
यया॑ स॒पत्नीं॒ बाध॑ते॒
यया॑ संवि॒न्दते॒ पति॑म् ।

पाठाभिमन्त्रणम्

०२ उत्तानपर्णे सुभगे ...{Loading}...

उ॒त्ता॒नप॑र्णे॒ सुभ॑गे॒
सह॑माने॒ सह॑स्वति ।
स॒पत्नीं॑ मे॒ परा॑धम॒
पतिं॑ मे॒ केव॑लं कृधि ।

०३ उत्तराऽहमुत्तर उत्तरेदुत्तराभ्यः ...{Loading}...

उत्त॑रा॒ ऽहम् +++(हे)+++ उत्त॑र॒+++(य्)+++
उत्त॒रेद् उत्त॑राभ्यः ।
अथा॑ स॒पत्नी॒ या ममा-
ऽध॑रा॒ साऽध॑राभ्यः ।+++(र५)+++

०४ न ह्यस्यै ...{Loading}...

न ह्य॑स्यै॒ नाम॑ गृभ्णामि॒
+++(यतः)+++ नो अ॒स्मिन् र॑मते॒ जने॑ ।
परा॑म् ए॒व प॑रा॒वतꣳ॑+++(=दूरम्)+++
स॒पत्नीं॑ नाशयामसि ।

उत्तराङ्गम्

+++(उत्तरया तां पाठां द्विधा कृत्वा हस्तयोराबध्नाति)+++

०५ अहमस्मि सहमानाऽथ ...{Loading}...

अ॒हम॑स्मि॒ सह॑मा॒ना ऽथ॒
त्वम॑सि सास॒हिः+++(=सहमाना)+++ ।
उ॒भे सह॑स्वती भू॒त्वा
स॒पत्नीं॑ मे सहावहै ।


+++(उत्तरया शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयात् - यथैको हस्तो भर्तुरधो निहितो भवति अपरश्चोपरि)+++

०६ उप तेऽधाम् ...{Loading}...

+++(हे भर्तः।)+++ उप॑ ते ऽधा॒ꣳ॒ सह॑मानाम् +++(बाहुं)+++
अ॒भि त्वा॑ऽधा॒ꣳ॒ +++(अपराम् बाहुम्)+++ सही॑यसा +++(मनसा)+++ ।
माम् अनु॒ प्र ते॒ मनो॑ व॒त्सं
गौरि॑व धावतु, प॒था वारि॑+++(री)+++व धावतु ॥ (16)

सपत्नीबाधनार्थम् अहर् अहर् आदित्यम् उपतिष्ठते

०१ उदसौ सूर्यो ...{Loading}...

उद् अ॒सौ सूर्यो॑ अगा॒द्
उद् अ॒यं मा॑म॒को भगः॑ ।
अ॒हन् तद् विद्व॒ला+++(=विदुषी)+++ प॑ति॒म्
अभ्य॑साक्षि+++(=अभि+असहे)+++ विषास॒हिः+++(=विशषेण सहमाना)+++ ।

०२ अहङ् केतुरहम् ...{Loading}...

अ॒हं के॒तुर् अ॒हं मू॒र्धा
ऽहम् उ॒ग्रा वि॒वाच॑नी+++(की)+++ ।
ममेद् अनु॒ क्रतुं॒ पति॑स्
सेहा॒नाया॑+++(=सहमायना)+++ उ॒वा+++(पा)+++च॑रेत् ।

०३ मम पुत्राश्शत्रुहणोऽथो ...{Loading}...

मम॑ पु॒त्राश् श॑त्रु॒हणो
ऽथो॑ मे दुहि॒ता वि॒राट् ।
उ॒ताहम् अ॑स्मि॒ सञ्ज॑या॒
पत्यु॑र् मे॒ +++(श्लाघा)+++श्लोक॑ उत्त॒मः ।+++(५)+++

०४ येनेन्द्रो हविषा ...{Loading}...

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य्
अ॑भवद् दि॒व्य् उ॑त्त॒मः ।
अ॒हन् तद् अ॑क्रि+++(=अकृषि)+++
देवा असप॒त्ना किला॑ऽभवम् ।

०४ येनेन्द्रो हविषा ...{Loading}...

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ॥

०४ येनेन्द्रो हविषा ...{Loading}...

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥

०५ असपत्ना सपत्निघ्नी ...{Loading}...

अ॒स॒प॒त्ना स॑पत्नि॒घ्नी
जय॑न्त्य् अभि॒भूव॑री ।
आवि॑त्सि॒+++(=अलभे)+++ सर्वा॑सा॒ꣳ॒ +++(सपत्नीनां)+++ राधो॒
वर्चो॒ अस्थे॑यसाम्+++(=अस्थिराणाम्)+++ इव ।

०६ समजैषमिमा अहम् ...{Loading}...

सम॑जैषम् इ॒मा अ॒हꣳ
स॒पत्नी॑र् अभि॒भूव॑रीः ।
यथा॒ऽहम॑स्य वी॒रस्य॑
वि॒राजा॑मि॒ धन॑स्य च ॥ (17)

यक्ष्मवारणम् ...{Loading}...

+++(यक्ष्मगृहीतां वधूं अन्यां वा स्वस्त्रादिकां पुष्करसंवर्तमूलैः उत्तरैर्मन्त्रैः यथालिङ्गमङ्गानि संमृज्य प्रतीचीनं निरस्येत्)+++

०१ अक्षीभ्यान्ते नासिकाभ्याम् ...{Loading}...

०१ अक्षीभ्यां ते ...{Loading}...

अ॒क्षीभ्या॑न् ते॒ नासि॑काभ्यां॒
कर्णा॑भ्यां॒ चुबु॑का॒दधि॑ ।
यक्ष्मꣳ॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्
जि॒ह्वाया॒ विवृ॑हामि+++(=संमृज्य निरस्यामि)+++ ते ।

०२ ग्रीवाभ्यस्त उष्णिहाभ्यः ...{Loading}...

०२ ग्रीवाभ्यस्त उष्णिहाभ्यः ...{Loading}...

ग्री॒वाभ्य॑स्+++(→पर्वभेदेन बहुवचनम्)+++ त उ॒ष्णिहा॑भ्यः॒+++(=ग्रीवापृष्ठमूलभ्यः)+++
कीक॑साभ्यो+++(=अस्थिभ्यो)+++ ऽनू॒क्या॑त्+++(=पृष्ठंवशात्)+++ ।
यक्ष्मं॑ दोष॒ण्य॑म् अꣳसा॑भ्यां
बा॒हुभ्यां॒ विवृ॑हामि ते ।

०३ आन्त्रेभ्यस्ते गुदाभ्यो ...{Loading}...

०३ आन्त्रेभ्यस्ते गुदाभ्यो ...{Loading}...

आ॒न्त्रेभ्य॑स् ते॒ गुदा॑भ्यो
वनि॒ष्ठोर्+++(=वपाया)+++ हृद॑या॒द् अधि॑ ।
यक्ष्मं॒ मत॑स्नाभ्यां+++(=फुप्फुसाभ्याम्?)+++ य॒क्नः+++(=यकृतः)+++
प्ला॒शिभ्यो॒+++(=पर्शुभ्यः)+++ विवृ॑हामि ते ।

०४ ऊरुभ्यान्तेऽष्ठीवद्भ्याञ् जङ्घाभ्याम् ...{Loading}...

०४ ऊरुभ्यां ते ...{Loading}...

ऊ॒रुभ्या॑न् ते ऽष्ठी॒वद्भ्यां॒+++(=ऊरुजान्वोः सन्धिभ्याम्)+++
जङ्घा॑भ्यां॒ प्रप॑दाभ्याम् ।
यक्ष्म॒२ꣳ॒ श्रोणी॑भ्यां भा॒सदा॑द्+++(=गुह्यप्रदेशात्)+++
ध्व॒ꣳ॒ससो॒+++(=नाभेः/ गुदवलयात्)+++ विवृ॑हामि ते ।

०५ मेहनाद्वलङ्करणाल्लोमभ्यस्ते नखेभ्यः ...{Loading}...

मेह॑नाद्+++(=प्रजननात्)+++ वल॒+++(न)+++ङ्+++(=वशङ्)+++कर॑णा॒ल्
लोम॑भ्यस्ते न॒खेभ्यः॑ ।
यक्ष्म॒ꣳ॒ सर्व॑स्माद् आ॒त्मन॒स्
तम् इ॒मं विवृ॑हामि ते ।

०५ मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ...{Loading}...

मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

०६ अङ्गादङ्गाल्लोम्नोलोम्नो जातम् ...{Loading}...

अङ्गा॑द्-अङ्गा॒ल् लोम्नो॑-लोम्नो
जा॒तं पर्व॑णि-पर्वणि ।
यक्ष्म॒ꣳ॒ सर्व॑स्माद् आ॒त्मन॒स्
तम् इ॒मं विवृ॑हामि ते ।

०६ अङ्गादङ्गाल्लोम्नोलोम्नो जातं ...{Loading}...

अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

वधूवासोदानम् ...{Loading}...

परिचयः

यत् परि त्वा गिर्वणः इति परिधापितं वधूवासस् तदेतद्-विदे विवाहकर्मविदे दद्याद् । एवमेतद्वधूवाससः परिदानं चतुर्थ्यन्ते कर्तव्यं तथा च विवाहान्ते आश्वलायनः सूर्याविदे वधूवस्त्रं दद्यात् इति । अन्ये तु यक्ष्मगृहीतायाः वासः एतद् भैषज्यविदे देयमुपदिश्यते इत्याहुः । सूर्याशब्देनापि त एव मन्त्रा उच्यन्ते ॥

मन्त्राः

०७ परादेहि शाबल्यम् ...{Loading}...

परा॑देहि शाब॒ल्यं॑
ब्र॒ह्मभ्यो॒ विभ॑जा॒ वसु॑ ।
कृ॒त्यैषा प॒द्-वती॑ भू॒त्वा
जा॒याऽऽवि॑शते॒ पति॑म् ।

२९ परा देहि ...{Loading}...

परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।
कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ॥

०८ अश्लीला तनूर्भव ...{Loading}...

अ॒श्ली॒ला +++(पति-)+++त॒नूर् भ॑व॒
रुश॑ती+++(=हिंसती →हिंस्यमाना)+++ पा॒पया॑ ऽमु॒या +++(दानकृत्यया)+++।
पति॒र् यद् व॒द्ध्वै॑ वास॑सा॒
स्वम् अङ्ग॑म् अभि॒धित्स॑ति ।
+++(तस्मात् तन्नपरिधेयं मन्त्रविदापिसता ॥)+++

०९ क्रूरमेतत् कटुकमेतदपाष्ठवद्द्विषवन्नैतदत्तवे ...{Loading}...

क्रू॒रम् ए॒तत् +++(वासः)+++ कटु॑कम्+++(=रुजाकारि)+++ ए॒तद्
अ॑पा॒ष्ठ+++(=प्रतिकूल)+++व॑द् वि॒षव॒न् नैतद् अत्त॑वे ।
सू॒र्यां +++(विवाहदेवीं)+++ यः प्र॒त्यक्षं॑ वि॒द्यात्
स ए॒तत् प्रति॑गृह्णीयात् ।+++(५)+++

१० आशसनं विशसनमथो ...{Loading}...

आ॒शस॑नं+++(=क्षतकरणं)+++ वि॒शस॑न॒म्+++(=चर्मणां पृथक्करणं)+++
अथो॑ अधि वि॒चर्त॑नम्+++(=त्वचोन्यत्र मोचनं)+++ +++(एतद् वासः)+++।
+++(तथापि गृहीतुर् न हिंसा, यतः -)+++ सू॒र्यायाः॑ पश्य रू॒पाणि॒
तानि॑ +++(विद्वान्)+++ ब्र॒ह्मोत शꣳ॑सति ॥+++(५)+++ (18)

उपनयनम् ...{Loading}...

कालः

१० ०१ उपनयनं व्याख्यास्यामः ...{Loading}...

उपनयनं व्याख्यास्यामः १

१० ०३ गर्भैकादशेषु राजन्यम् ...{Loading}...

गर्भैकादशेषु राजन्यं
गर्भद्वादशेषु वैश्यम् ३

१० ०४ वसन्तो ग्रीष्मश् ...{Loading}...

वसन्तो ग्रीष्मश् शरद् इत्य् ऋतवो वर्णानुपूर्व्येण ४

+++(धर्मसूत्रोक्तनियमा अन्यत्र।)+++

प्राक्तन-कर्माणि

+++(अधो यथापेक्षं लिङ्गपरिवर्तनं स्यात्।)+++

दिग्वपनम् ...{Loading}...

शिरस उन्दनम्

१० ०५ ब्राह्मणान् भोजयित्वाशिषो ...{Loading}...

ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वा
+++(उपनयने - एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति।)+++
ऽनुवाकस्य प्रथमेन यजुषाऽपः +++(“उष्णेनवाय” वित्येतेन)+++ संसृज्योष्णाश् शीतास्व् आनीय +++(न शीता उष्णासु)+++

हरदत्तो ऽत्र

०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...

+++(उष्णा आपः शीतास्वानयति)+++ उ॒ष्णेन॑ वायवुद॒केनेह्य्, अदि॑तिः॒ केशान्॑ वपतु

उत्तरया +++(आप उन्दन्त्विऽत्येतया)+++ शिर उनत्ति ५

०२ आप उन्दन्तु ...{Loading}...

+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आप॑ उन्दन्तु जी॒वसे॑
दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ।

+++(तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते । इति स्नातकसंस्कारे हरदत्तः। नाचार्यः - अन्योऽपि ब्राह्मण इति सुदर्शनसूरिः।)+++

प्रवपनम्

१० ०६ त्रींस्त्रीन् ...{Loading}...

त्रींस्त्रीन् दर्भान् अन्तर्धायोत्तराभिश् चतसृभिः +++(“येनावपत्"इत्यादिभिः)+++ प्रतिमन्त्रं प्रतिदिशं प्रवपति ६

०३ येनावपत्सविता क्षुरेण ...{Loading}...

+++(प्राच्यान्दिशि)+++ येनाव॑पत् सवि॒ता क्षु॒रेण॒
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो! वपते॒दम् अ॒स्या-
ऽऽयु॑ष्मा॒ञ् जर॑दष्टि॒र् यथा ऽस॑द् अ॒यम्
अ॒सौ +++(←अत्रोहः)+++।

०४ येन पूषा ...{Loading}...

+++(दक्षिणतः)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०५ येन भूयश्चरात्ययञ्ज्योक्च ...{Loading}...

+++(पश्चात्)+++ येन॒ भूय॒श् चरा॑त्य् अ॒यञ्,
ज्योक् च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०६ येन पूषा ...{Loading}...

+++(उत्तरे)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेन॑ ते वपाम्य् असा॒व्+++(←अत्रोहः)+++
आयु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः॑

क्षुर-शोधन-मन्त्रणम्

१० ०७ वपन्तमुत्तरयानुमन्त्रयते ...{Loading}...

वपन्तम् उत्तरया +++(“यत् क्षुरेण” इत्य् एतया)+++ ऽनुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७

०७ यत्क्षुरेण मर्चयता ...{Loading}...

+++(नापितम् अनुमन्त्रयति-)+++ यत् क्षु॒रेण॑ म॒र्चय॑ता +++(=तीक्ष्णेन)+++
सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒, मास्यायुः॒ प्रमो॑षीः

केश-दर्भ-निक्षेपः

१० ०८ आनडुहे शकृत्पिण्डे ...{Loading}...

आनडुहे शकृत्पिण्डे यवान् निधाय तस्मिन् केशान् उपयम्योत्तरया +++(“उप्त्वाय केशा"नित्येतया)+++ उम्बर-मूले दर्भ-स्तम्बे वा निदधाति ८

०८ उप्त्वाय केशान् ...{Loading}...

उ॒प्त्वास्य॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒,
बृह॒स्पति॑स् सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ +++(=केशेभ्यः)+++ नि॒धानं॑ बहु॒धा ऽन्व॑विन्दन्न्
अन्त॒रा द्यावा॑पृथि॒वी अ॒पस् सुवः॑ ॥

यज्ञोपवीतधारणम्

स्नातं कुमारं शुचि-वाससं बद्ध-शिखं यज्ञोपवीतम् आसञ्जति - “यज्ञोपवीतं परमं पवित्रम्” इति । ततस् तं यज्ञोपवीतिनं देव-यजनम् उदानयति (बौ.गृ.२५) इति बौधायनः ।

यज्ञोपवीतं परमं पवित्रं ...{Loading}...

य॒ज्ञो॒प॒वी॒तं प॑र॒मं प॒वित्रं॑
प्र॒जाप॑ति॒र् यत् स॑ह॒जं पु॒रस्ता᳚त् ।
आ॒यु॒ष्य॑म् अ॒ग्र्यं॑ प्रति॑मुञ्च शु॒भ्रं
य॑ज्ञोपवी॒तं बल॑म् अस्तु॒ तेजः॑ ॥

छन्द-आदि (द्रष्टुं नोद्यम्)

यज्ञोपवीत-धारण-महा-मन्त्रस्य
ब्रह्म र्षिः,
त्रिष्टुप् च्छन्दः
त्रयी विद्या देवता ।
यज्ञोपवीतधारणे विनियोगः ।

समिद्-होमः अश्मन्य् आस्थापनं च

१० ०९ स्नातम् अग्नेर् ...{Loading}...

स्नातम् +++(शुचि-वाससं बद्ध-शिखं यज्ञोपवीतिनम्)+++ अग्नेर् उपसमाधानाद्य् आज्य-भागान्ते +++(शम्याः परिध्यर्थे, सकृत्पात्रप्रयोगः)+++
पालाशीं समिधम् उत्तरया +++(“आयुर्दा देव"इत्येतया ऽऽचार्योक्तया)+++ ऽऽधाप्य

०१ आयुर्दा देव ...{Loading}...

आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो
घृ॒त+++(√ क्षरणदीप्त्यो)+++-प्र॑तीको+++(=अवयवो)+++ घृ॒त-पृ॑ष्ठो अग्ने ।
घृ॒तं पिब॑न्न् अ॒मृत॒ञ् चारु॒ गव्यं॑
पि॒तेव॑ पु॒त्रञ् ज॒रसे॑ नये॒मम् ।

उत्तरेण अग्निं, दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् - आतिष्ठेति ९
+++(तत्रैव चावस्थापनं यावत् तिष्ठति। )+++

०२ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...
०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...

आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++

वास्त्रादिधापनम्

वासोऽभिमन्त्रणम्

१० १० वासः ...{Loading}...

वासः सद्यःकृत्तोतम् +++(=सद्यः कृत्तम् ऊतं च - विनूतनम्)+++ उत्तराभ्याम् +++(“रेवतीस्त्वे"त्येताभ्यां)+++ अभिमन्त्र्य

०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...

+++(नक्षत्रेषु)+++ रे॒वती॑स् त्वा॒ व्य॑क्ष्ण॒न्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृत्ति॑का॒श् चाकृ॑न्त२ꣳस् त्वा ।
धियो॑ ऽवय॒न्न्, अव॒ ग्न+++(=देवता)+++ आ॑वृञ्जन्त्+++(=अच्छिन्दन्)+++
स॒हस्र॒म् अन्ताꣳ॑+++(=दशासूत्राणि)+++ अ॒भितो॑ अयच्छन्न्

दे॒वीर् दे॒वाय॑ +++(वस्त्र)+++परि॒धी+++(धौ)+++ स॑वि॒त्रे ।
म॒हत् तद् आ॑साम् अभवन् महित्व॒नम्+++(=महत्वम्)+++ ।+++(र४)+++

वासः-परिधापनम्

उत्तराभिस्तिसृभिः +++(“या अकृन्त"न्नित्येताभिः)+++ परिधाप्य

+++(पूर्वमन्त्रस्योल्लेखो ऽत्र)+++

०५ या अकृन्तन्नवयन् ...{Loading}...

या अकृ॑न्त॒न्न् अव॑य॒न्॒ या अत॑न्वत॒
याश् च॑ दे॒वीर् +++(वस्त्रस्य)+++ अन्ता॑न् अ॒भितो॑ ऽददन्त+++(←दद् दाने)+++ ।
तास् त्वा॑ दे॒वीर् ज॒रसे॒ संव्य॑य॒न्त्व्
आयु॑ष्मान् इ॒दं परि॑धत्स्व॒ वासः॑ ।

०६ परिधत्त धत्त ...{Loading}...

परि॑धत्त धत्त॒ वास॑सैनꣳ
श॒तायु॑षं कृणुत दी॒र्घम् आयुः॑ ।
बृह॒स्पतिः॒ प्राय॑च्छ॒द् वास॑ ए॒तत्
सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।

०७ जराङ् गच्छासि ...{Loading}...

ज॒रां ग॑च्छासि॒, परि॑धत्स्व॒ वासो॒
भवा॑ कृष्टी॒नाम्+++(=मनुष्याणां)+++ अ॑भिशस्ति॒-पावा॑+++(ता)+++ ।
श॒तञ् च॑ जीव श॒रद॑स् सु॒वर्चा॑
रा॒यश् च॒ पोष॒म् उप॒ संव्य॑यस्व +++(वासो यथा रायस्पोषं भवति तथा)+++।

परिहितम् उत्तरयानुमन्त्रयते +++(“परीदं वास”)+++ १०

+++(परिहितवन्तं कुमारम् उत्तरयानुमन्त्रयते)+++

०८ परीदं वासो ...{Loading}...

परी॒दं वासो॒ अधि॑+++(+अ)+++धास् स्व॒स्तये
ऽभू॑र् आपी॒नाम्+++(=आप्तानां)+++ अ॑भिशस्ति॒-पावा॑+++(ता!)+++ ।
श॒तञ् च॑ जीव श॒रदः॑ पुरू॒चीर्+++(=बहुगतीः)+++
वसू॑नि चा॒र्यो वि॑भजासि॒ जीवन्न्॑

१० ११ मौञ्जीम् मेखलाम् ...{Loading}...

मौञ्जी

मौञ्जीं मेखलां त्रिवृतां+++(तं)+++ त्रिःप्रदक्षिणम् उत्तराभ्यां +++(“इयं दुरुक्ता"दित्येताभ्यां कुमारोक्ताभ्यां)+++ परिवीय

०९ इयन् दुरुक्तात्परिबाधमाना ...{Loading}...

इ॒यं दुरु॑क्तात् परि॒बाध॑माना॒
शर्म॒ वरू॑थं+++(=वरणीयं)+++ पुन॒ती न॒ आगा॑त्
प्रा॒णा॒पा॒नाभ्यां॒ बल॑म् आ॒भर॑न्ती
प्रि॒या दे॒वानाꣳ॑ सु॒भगा॒ मेख॑ले॒यम् ।

१० ऋतस्य गोप्त्री ...{Loading}...

ऋ॒तस्य॑ गो॒प्त्री, तप॑सः पर॒स्+++(=प्र)+++पी+++(=पात्री)+++
घ्न॒ती रक्ष॒स् सह॑माना॒ अरा॑तीः ।
सा न॑स् सम॒न्तम् अनु॒ परी॑हि भ॒द्रया॑
भ॒र्तार॑स्+++(=बिभ्राणाः)+++ ते मेखले॒ मा रि॑षाम ।

अजिनमन्त्रः

+अजिनम् उत्तरमुत्तरया +++(मित्रस्य चक्षुरित्येतया कुमारोक्तया)+++ ११

+++(धर्मसूत्रेषु - “क्षत्र-वृद्धिम् इच्छन् वस्त्राण्य्, एवोभय-वृद्धिम् इच्छन्न् उभयमिति हि ब्राह्मणम् ९” इत्यादि विकल्पा उक्ताः। तस्मिन् पक्षे ऽजिनप्रतिनिधित्वेन प्रायेण ग्राह्यं वस्त्रम्। )+++

११ मित्रस्य चक्षुर्धरुणम् ...{Loading}...

मि॒त्रस्य॒ चक्षु॒र्, धरु॑णं॒ बली॑य॒स्
तेजो॑ यश॒स्वि स्थवि॑र॒ꣳ॒ समि॑द्धम् ।
अ॒ना॒ह॒न॒स्यं+++(=अधूर्तयोग्यं)+++ वस॑नञ् जरि॒ष्णु
परी॒दं वा॒ज्य्+++(=अन्नवत्)+++ अजिन॑न् दधे॒ ऽहम् ॥ (२)

अवस्थापनादि

अवस्थापनम्

०१ १६ उत्तरेणाग्निन् ...{Loading}...

उत्तरेणाग्निं दर्भान् संस्तीर्य तेष्व् एनम् उत्तरया +++(“आगन्त्रा समगन्मही"त्येतया)+++ ऽवस्थाप्य

+++(उत्तरेणाग्निं दर्भेषु अवस्थापनमन्त्रः)+++

०१ आगन्त्रा समगन्महि ...{Loading}...

आ॒ग॒न्त्रा +++(छात्रेण)+++ सम॑गन्महि॒
प्र सु॑ मृ॒त्युं यु॑योतन+++(←यौतिः पृथग्भावे)+++ ।
अरि॑ष्टा॒स् सञ्च॑रेमहि स्व॒स्ति,
+++(ब्रह्मचर्यं)+++ च॑रताद् इ॒ह स्व॒स्त्य् आ गृ॒हेभ्यः॑+++(→आगृहस्थाश्रमम्)+++ ।+++(५)+++

प्रोक्षणम्

१० १२ उत्तरेणाग्निन् दर्भान् ...{Loading}...

उदकाञ्जलिम् अस्मा अञ्जलाव् +++(प्रोक्षणार्थम्)+++ आनीयोत्तरया +++(“समुद्रादूर्मि"रित्येतया)+++ त्रिः प्रोक्ष्य +++(कुमार-कृत्यम् एतत्। आचार्यः प्रोक्षति तत इति विश्वासः। सकृत् मन्त्रेण, द्विस्तूष्णीम् ।)+++

+++(प्रोक्षणमन्त्रः)+++

०२ समुद्रादूर्मिर्मधुमां उदारदुपांशुना ...{Loading}...

स॒मु॒द्राद् ऊ॒र्मिर् मधु॑मा॒ꣳ॒ उदा॑रद् +++(=उदागमद् [एतैः प्रोक्षणबिन्दुभिः])+++
उपा॒ꣳ॒शुना॒+++(=उपांशैः →अंशुनिभैः)+++ सम् अ॑मृत॒त्वम् अ॑श्याम्
इ॒मे नु ते र॒श्मय॒स् सूर्य॑स्य॒
येभि॑स् सपि॒त्वं+++(=समानपानं)+++ पि॒तरो॑ न॒ आय॑न्

+++(यैः रश्मिभिस् सह वामदेवस्य पितरो सोमपानं कृतवन्तः , तत्कारणका बिन्दवो मयि पतिताः )+++

हस्तग्रहणम्

उत्तरैर् +++(अग्निष्टे हस्तमग्रमीदित्यादिभिः)+++ दक्षिणे हस्ते गृहीत्वा +++(- प्रतिमन्त्रं ग्रहणावृत्तिः)+++

०३-१२ अग्निष्टे हस्तमग्रभीत्सोमस्ते ...{Loading}...

अ॒ग्निष् टे॒ हस्त॑म् अग्रभी+++(ही)+++त्
सोम॑स् ते॒ हस्त॑म् अग्रभीत्
स॒वि॒ता ते॒ हस्त॑म् अग्रभीत्।
सर॑स्वती ते॒ हस्त॑म् अग्रभीत्।
पू॒षा ते॒ हस्त॑म् अग्रभीत्।
अ॒र्य॒मा ते॒ हस्त॑म् अग्रभीत्।
अꣳशु॑स् ते॒ हस्त॑म् अग्रभीत्।
भग॑स् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् त्वम् अ॑सि॒ धर्म॑णा॒,
ऽग्निर् आ॑चा॒र्यस् तव॑ ।+++(५)+++

+++(कीदृशश्च सः? मित्रं देवा अब्रुवन्त - सोमं राजानं हनामेति। सो ऽब्रवीन् - नाहं सर्वस्य वा अहं मित्रम् अस्मि ।)+++

परिदानम्

उत्तरैर् +++(“अग्नये त्वा परिददामी"त्यादिभिः)+++ देवताभ्यः परीदाय

+++(असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या ॥)+++

१३ -२३ अग्नये त्वा ...{Loading}...

+++(असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या, स्वरं विना ॥)+++

अ॒ग्नये॑ त्वा॒ परि॑ददाम्य्+++(→रक्षार्थे दानं परिदानम्)+++ असौ।
सोमा॑य त्वा॒ परि॑ददाम्य् असौ।
स॒वि॒त्रे त्वा॒ परि॑ददाम्य् असौ।
सर॑स्वत्यै त्वा॒ परि॑ददाम्य् असौ।
मृ॒त्यवे॑ त्वा॒ परि॑ददाम्य् असौ।
य॒माय॑ त्वा॒ परि॑ददाम्य् असौ।
ग॒दाय॑ त्वा॒ परि॑ददाम्य् असौ।
अन्त॑काय त्वा॒ परि॑ददाम्य् असौ।
अ॒द्भ्यस् त्वा॒ परि॑ददाम्य् असौ।
ओष॑धीभ्यस् त्वा॒ परि॑ददाम्य् असौ।
पृ॒थि॒व्यै त्वा॒ सवै॑श्वान॒रायै॒+++(←उदात्तद्वयम्??)+++ परि॑ददाम्य् असौ ।

उपनयनम्

उत्तरेण यजुषा +++(“देवस्य त्वा सवितुः” इत्येतेन स्वसमीपं)+++ +उपनीय

२४ देवस्य त्वा ...{Loading}...

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व+++(=अनुज्ञायाम्)+++ उप॑नये॒ ऽसौ +++(←नामनिर्देशः पूर्ववत् । केचित्तु - अन्तोदात्तस्य पाठात् आचार्यस्य नाम्नः प्रथमया निर्देशं मन्यन्ते ॥ )+++ ।

सुप्रजा इति +++(“सुपोषः पोषै"रित्येवमन्तम्)+++ दक्षिणे कर्णे जपति १२

+++(कर्णे जपः)+++

२५ सुप्रजाः प्रजया ...{Loading}...

सु॒प्र॒जाः प्र॒जया॑ भूयास्,
सु॒वीरो॑ वी॒रैस्,
सु॒वर्चा॒ वर्च॑सा,
सु॒पोषः॒ पोषैः॑ ।
+++(→सूपसर्ग-बहुव्रीहाव् उत्तरपदादिर् उदात्तः। )+++

आचार्य-कुमारयोः प्रश्न-प्रतिवचने ।

११ ०१ ब्रह्मचर्यमागामिति कुमार ...{Loading}...

“ब्रह्मचर्यम् आगाम्” इति +++(सवित्रा प्रसूत इत्येवमन्तो मन्त्रः)+++ कुमार आह १

+++(कुमारस्य मन्त्रः)+++

२६ ब्रह्मचर्यमागामुप मानयस्व ...{Loading}...

ब्र॒ह्म॒चर्य॒म् आगा॒म्, उप॒ माऽऽन॑यस्व, दे॒वेन॑ सवि॒त्रा प्रसू॑तः+++(=अनुज्ञातः)+++ ।

सम्भाषणम्

+++(को नामासि? विष्णुशर्मा नामास्मि। कस्य ब्रह्मचार्यसि विष्णुशर्मन्? प्राणस्य ब्रह्मचार्यस्मि। )+++

११ ०२ प्रष्टम् परस्य ...{Loading}...

प्रष्टं परस्य प्रतिवचनं कुमारस्य २

२७ को नामासि ...{Loading}...

+++(आचार्यः-)+++ को नामा॑सि?
+++(ब्रह्मचारी-)+++ अ॒सौ+++(←नामनिर्देशः प्रथमया)+++ नामा॑ऽस्मि।
+++(आचार्यः-)+++ कस्य॑ ब्रह्मचा॒र्य॑सि असौ+++(←नामनिर्देशस्संबुद्ध्या)+++?
+++(ब्रह्मचारी-)+++ “प्रा॒णस्य॑ ब्रह्मचा॒र्य् अ॑स्मि अ॒सौ”+++(←स्वनामनिर्देशः प्रथमया)+++।

११ ०३ शेषम् परो ...{Loading}...

शेषं +++(“एष ते देव सूर्ये”)+++ परो +++(आचार्यः)+++ जपति ३

२८ एष ते ...{Loading}...

+++(आचार्यः-)+++ ए॒ष ते॑ देव सूर्य ब्रह्मचा॒री।
तं गो॑पाय, स॒ मा मृ॑त।
ए॒ष ते॑ सूर्य पु॒त्रस्, स दी॑र्घा॒युस्, स॒ मा मृ॑त ।
याꣳ स्व॒स्तिम् अ॒ग्निर् वा॒युस् सूर्य॑श् च॒न्द्रमा॒ आपो ऽनु॑ स॒ञ्चर॑न्ति॒,
ताꣳ स्व॒स्तिम् अनु॒ सञ्च॑रासौ+++(←नामनिर्देशस्संबुद्ध्या)+++ ।

११ ०४ प्रत्यगाशिषञ् चैनम् ...{Loading}...

प्रत्यगाशिषं +++(आत्मगाम्याशीःफलं यस्मिन्मन्त्रे,अध्वनामित्यारभ्य आ उपनयनसमाप्तेर्ये प्रत्यगाशिषो मन्त्राः"योगे"इत्यादयः )+++ चैनं वाचयति ४

२९ अद्ध्वनामद्ध्वपते श्रेष्ठस्याद्ध्वनः ...{Loading}...

+++(ब्रह्मचारी सूर्यम् प्रति-)+++ अध्व॑नाम् अध्वपते॒ +++(सूर्य)+++ श्रेष्ठ॒स्याऽध्व॑नः॒ +++(ब्रह्मचर्यामार्गस्य)+++ पा॒रम् अ॑शीय ॥ (3)

प्रधानहोमः

११ ०५ उक्तमाज्यभागान्तम् ...{Loading}...

उक्तम् आज्यभागान्तम् +++(“आ॒यु॒र्दा दे॑व …” इति समिदाधाने)+++ ५

११ ०६ अत्रैनमुत्तरा आहुतीर्हावयित्वा ...{Loading}...

अत्रैनम् उत्तरा +++(“योगे योगे” इत्येकादर्शचः)+++ आहुतीर् हावयित्वा जयादि प्रतिपद्यते ६

+++(तत्र द्वितीयचतुर्थौ “इममग्न आयुषे” “अग्निष् ट आयुः प्रतराम्” इति लिङ्गविरोधात् “आयुर्दा देव जरसम्” इतिवत् स्वयमेव ब्रूयात्, नैनं वाचयति । प्रधान-होमेषु हावयित्वेति वचनाद् उपहोमेष्व् आचार्य एव कर्ता।)+++

+++(ते च सर्वे माणवकस्यैव । द्वितीयचतुर्थाव् आचार्यस्येत्येके ।)+++

०१ योगेयोगे तवस्तरम् ...{Loading}...
०७ योगेयोगे तवस्तरं ...{Loading}...

+++(रथादि)+++योगे॑योगे त॒वस्+++(=गति[वत्])+++त॑र॒व्ँ
वाजे॑वाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ सखा॑य॒+++(ः)+++ इन्द्र॑म् ऊ॒तये᳚ ।+++(५)+++

०२ इममग्न आयुषे ...{Loading}...

इ॒मम् अ॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि
ति॒ग्मम् ओजो॑ वरुण॒ सꣳशि॑शाधि
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒
विश्वे॑ देवा॒ जर॑दष्टि॒र् यथा ऽस॑त् +++(जनः)+++॥

(अग्नि-वरुण-सोमादिति-विश्वेभ्यः देवेभ्यः इदन्न मम ।)

०३ शतमिन्नु शरदो ...{Loading}...
०९ शतमिन्नु शरदो ...{Loading}...

श॒तम् इन् नु श॒रदो॒ अन्ति॑+++(कं)+++ देवा॒,
यत्रा॑ नश् च॒क्रा+++(क्रुः)+++ ज॒रस॑न् त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒
+++(तादृशे काले)+++ मा नो॑ म॒ध्या री॑रिष॒ताऽऽयु॒र् +++(आ स्वतो)+++गन्तोः॑+++(=गमनात्)+++ ।+++(४)+++

(दे॒वेभ्यः॒ इद॒न्न मम॑ । )

०४ अग्निष्ट आयुः ...{Loading}...

अ॒ग्निष् ट॒ आयुः॑ प्र+++(कृष्ट)+++त॒रां द॑धात्व्
अ॒ग्निष् टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु
इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒-धा +++(पुष्टिं)+++ कृ॑णोत्व्
आदि॒त्यैस् ते॒ वसु॑भि॒र् आ द॑धातु

(अग्नीन्द्र-मरुद्-आदित्य-वसुभ्य इदन्न मम ।)

०५ मेधाम् मह्यमङ्गिरसो ...{Loading}...

मे॒धां मह्य॒म् अङ्गि॑रसो
मे॒धाꣳ स॑प्तऋ॒षयो॑ ददुः
मे॒धां मह्यं॑ प्र॒जाप॑तिर्
मे॒धाम् अ॒ग्निर् द॑दातु मे ।

(अङ्गिरस्-सप्तर्षि-प्रजापति+अग्निभ्यः इदन्न मम । )

०६ अप्सरासु या ...{Loading}...

अ॒प्स॒रासु॒ या मे॒धा
ग॑न्ध॒र्वेषु॑ च॒ यद् यशः॑ ।
दैवी॒ या मा॑नु॒षी मे॒धा
सा मामा वि॑शतादि॒ह ।

(मेधायशोभ्याम् इदन्न मम ।)

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

०४ त्वं नो ...{Loading}...

त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।

०५ स त्वं ...{Loading}...

स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

१६ त्वमग्ने अयाऽस्यया ...{Loading}...

त्वम् अ॑ग्ने अ॒या+++(=एतव्यः/ प्रत्येता)+++ ऽस्य्
अ॒या सन् मन॑सा हि॒तः
अ॒या सन् ह॒व्यम् ऊ॑हिषे॒
ऽया नो॑ धेहि भेष॒जम् ॥ (4)

मन्त्रोपदेशः

+++(आचार्यः कूर्चम् आरोहति)+++

११ ०७ परिषेचनान्तङ् ...{Loading}...

परिषेचनान्तं कृत्वा
ऽपरेणाग्निम् उदग्-अग्रं कूर्चं निधाय
तस्मिन्न् उत्तरेण +++(“राष्ट्रभृदसि"इत्यनेन)+++ यजुषोपनेता +++(आचार्यः)+++ +उपविशति ७

१२ राष्ट्रभृदस्याचार्यासन्दी मा ...{Loading}...

+++(हे कूर्च!)+++ रा॒ष्ट्र॒भृद् अ॑स्य् आचार्याऽऽस॒न्दी, मा त्वद्+++(तः)+++ यो॑षम्+++(←यौतिः पृथग्भावे)+++ ।

११ ०८ पुरस्तात्प्रत्यङ्ङासीनः कुमारो ...{Loading}...

पुरस्तात् प्रत्यङ्ङ् आसीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादम् अन्वारभ्य +++(=उपसंगृह्य)+++ आह “सावित्रीं भो अनुब्रूहि” इति ८

११ ०९ तस्मा अन्वाह ...{Loading}...

तस्मा अन्वाह - “तत् सवितुर्” इति ९

१३ तत्सवितुर्वरेण्यमित्येषा ...{Loading}...
१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

११ १० पच्छोऽर्धर्चशस्ततस्सर्वाम् ...{Loading}...

पच्छो ऽर्धर्चशस् ततस् सर्वाम् १०

११ ११ व्याहृतीर्विहृताः ...{Loading}...

व्याहृतीर् विहृताः - पादादिष्व् अन्तेषु वा, तथार्धर्चयोर्, उत्तमां कृत्स्नायाम् ११

(आद्युच्चारणपक्षे)

पादशः

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्।
ओं भुव॒र् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं सुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

अर्धशः पूर्णश्श्च

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं भुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

ओं सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

पुनः पूर्णोच्यते कैश्चित्

ॐ भूर्-भुव॒स्-सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

ओष्ठोपस्पर्शनम्

११ १२ कुमार उत्तरेण ...{Loading}...

कुमार उत्तरेण +++(“वृधमसौ सोभ्ये"त्यनेन, असावित्यनेन प्राणोऽभिधीयते)+++ मन्त्रेणोत्तरमोष्ठम् उपस्पृशते १२

१४ अवृधमसौ सौम्य ...{Loading}...

+++(सावित्रीग्रहणात्)+++ अवृ॑धम् अ॒सौ+++(←प्राण-सम्बोधने)+++ सौ॑म्य प्रा॒ण, स्वं मे॑ गोपाय ।+++(५)+++

कर्णोपस्पर्शनम्

११ १३ कर्णावुत्तरेण ...{Loading}...

कर्णावुत्तरेण +++(“ब्रह्मण आणी स्थ"इत्यनेन)+++ १३

१५ ब्रह्मण आणी ...{Loading}...

+++(सावित्री)+++ब्रह्म॑ण+++(=मन्त्रस्य)+++ आ॒णी+++(=कीले)+++ स्थः॑ ॥+++(५)+++

दण्ड-ग्रहणम्

११ १४ दण्डमुत्तरेणाऽऽदत्ते ...{Loading}...

+++(पलाश-)+++दण्डमुत्तरेणाऽऽदत्ते +++(“सुश्रवस्सुश्रवस"मित्यनेन)+++१४

०१ सुश्रवस्सुश्रवसम् मा ...{Loading}...

सु॒श्रव॑स् +++(पलाश!)+++ सु॒श्रव॑सं मा कुरु।+++(५)+++
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवा॑ अस्य्, ए॒वम् अ॒हꣳ सु॒श्रव॑स् सु॒श्रवा॑ भूयासम्॥
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवो॑ दे॒वानां॑ निधिगो॒पो॑ ऽस्य्, ए॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो निधि-गो॒पो भू॑यासम् ।+++(५)+++

११ १५ पालाशो दण्डो ...{Loading}...

पालाशो दण्डो ब्राह्मणस्य
नैय्यग्रोधस् स्कन्धजो ऽवाङ्ग्रो+++(=अवाञग्रः)+++ राजन्यस्य
बादर औदुम्बरो वा वैश्यस्य १५

११ १६ वार्क्षो दण्ड ...{Loading}...

वार्क्षो दण्ड इत्य् अवर्ण-संयोगेनैक उपदिशन्ति १६+++(5)+++

+++(पलाश-दण्डम् आदत्ते। “देवा वै ब्रह्मन्न् अवदन्त, तत् पर्ण उपाशृणोत् - सुश्रवा वै नाम”।)+++

व्रतसङ्कल्पः कुमारेण

११ १७ स्मृतञ् च ...{Loading}...

“स्मृतं च म” इत्य् एतद्वाचयित्वा

०२-१० स्मृतञ्च मे ...{Loading}...

स्मृ॒तञ् च॒ मे, ऽस्मृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
नि॒न्दा च॒ मे ऽनि॑न्दा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्र॒द्धा च॒ मे ऽश्र॑द्धा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
वि॒द्या च॒ मे ऽवि॑द्या च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्रु॒तञ् च॒ मे ऽश्रु॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तꣳ,
स॒त्यञ् च॒ मे ऽनृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
तप॑श् च॒ मे ऽत॑पश्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
व्र॒तञ् च॒ मे ऽव्र॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,

यद् ब्रा॑ह्म॒णानां॒ ब्रह्म॑णि+++(=वेदविषये)+++ व्र॒तम्,
यद् अ॒ग्नेस् +++(→यातृत्वं)+++ सेन्द्र॑स्य॒ +++(→प्राधान्यम्)+++ सप्र॑जापतिकस्य॒ +++(→स्रष्टृत्वं)+++ सदे॑वस्य॒ +++(→दातृत्वादि)+++ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ +++(→प्रियवचनादि)+++ सम॑नुष्यराजस्य॒ +++(→प्रजारक्षणम्)+++ सपि॑तृकस्य॒ +++(→पुत्रोत्पत्ति)+++ सपि॑तृराजस्य॒ +++(यमस्य → सर्वसमत्वं)+++ सग॑न्धर्वाप्सर॒स्कस्य॑ +++(→परिचरणकौशलम्, उदात्तद्वयम्?? )+++,
यन् म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तन्,
तेना॒हꣳ सर्व॑व्रतो भूयासम् ।

वरदानम्

गुरवे वरं +++(अग्न्याधाने “गौर्वै वरः”(आप.श्रौ.४११४))+++ दत्त्वा

उत्थापनमन्त्रः

+उदायुषेत्य् उत्थाप्य

+++(कुमारो वदति -)+++

११ उदायुषा स्वायुषोदोषधीनाम् ...{Loading}...

उद् आयु॑षा स्वा॒युषा,
+उद् ओष॑धीना॒ꣳ॒ रसे॑न॒+,
+उत् प॒र्जन्य॑स्य॒ शुष्मे॑ण+++(=बलेन)++++
+उद् अ॑स्थाम्,
अ॒मृता॒ꣳ॒+++(=देवान्)+++ अनु॑ ।

आदित्योपस्थानम्

उत्तरैर् +++(“तच्चक्षुर्देव हितम्”)+++ आदित्यम् उपतिष्ठते १७

१२ तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् ...{Loading}...

+++(सूर्यस्)+++ तच् चक्षु॑र् दे॒व+++(नि)+++हि॑तं पु॒रस्ता॑च् छु॒क्र+++(द्ध)+++म् उ॒च्चर॑त् ।

पश्ये॑म श॒रद॑श् श॒तं
जीवे॑म श॒रद॑श् श॒तं
नन्दा॑म श॒रद॑श् श॒तं
मोदा॑म श॒रद॑श् श॒तं
भवा॑म श॒रद॑श् श॒तꣳ
शृ॒णवा॑म श॒रद॑श् श॒तं
प्रब्र॑वाम श॒रद॑श् श॒तम्
अजी॑ताः स्याम श॒रद॑श् श॒तं
ज्योक्+++(=दीर्घकालं)+++ च॒ सूर्य॑न् दृ॒शे ।

हस्त-ग्रहण-मन्त्रः

११ १८ यङ् कामयेत ...{Loading}...

यं कामयेत +++(मत्)+++ नायमाच्छिद्येतेति, तम् उत्तरया +++(“यस्मिन् भूतमि"त्येतया)+++ दक्षिणे हस्ते गृह्णीयात् १८

१३ यस्मिन्भूतञ्च भव्यञ्च ...{Loading}...

यस्मि॑न् भू॒तञ् च॒ भव्य॑ञ् च॒
सर्वे॑ लो॒कास् स॒माहि॑ताः ।
तेन॑ गृह्णामि त्वाम् अ॒हं,
मह्यं॑ गृह्णामि त्वाम् अ॒हं
प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्य् असौ+++(→नामनिर्देशः)+++ ॥

व्रतम्

११ १९ त्र्यहमेतमग्निन् धारयन्ति ...{Loading}...

+++(पित्रादयः)+++ त्र्यहम् एतम् अग्निं धारयन्ति १९

११ २० क्षारलवणवर्जनञ् च ...{Loading}...

+++(त्र्यहम्)+++ क्षार-लवण-वर्जनं च २०

समिदाधानम् ...{Loading}...

परिमार्जनम्

११ २१ 'परित्वे' ति ...{Loading}...

परि त्वेति परिमृज्य

०१ परि त्वाऽग्ने ...{Loading}...

परि॑ त्वाऽग्ने॒ परि॑मृजा॒म्य् आयु॑षा च॒ धने॑न च ।
सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ,
सु॒वीरो॑ वी॒रैस्, सु॒वर्चा॒ वर्च॑सा, सु॒पोषः॒ पोषै॑स्, सु॒गृहो॑ गृ॒हैस्, सु॒पतिः॒ पत्या॑+++(→आचार्येण)+++, सुमे॒धा मे॒धया॑, सु॒ब्रह्मा॑ +++(स)+++ब्र॑ह्मचा॒रिभिः॑ ।

समिदाधानम्

तस्मिन्न् उत्तरैर् मन्त्रैस् +++(“अग्नये समिध"मित्यादिभिः द्वादशभिः प्रतिमन्त्रं)+++ समिध आदध्यात् २१

०२ अग्नये समिधमाहार्षम् ...{Loading}...

अ॒ग्नये॑ स॒मिध॒म् आहा॑र्षं
बृह॒ते जा॒तवे॑दसे ।
यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒द्ध्यस॑, ए॒वं माम् आयु॑षा॒ वर्च॑सा स॒न्या+++(=लाभेन)+++ मे॒धया॑ प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒+++(=अन्नादनेन)+++ समे॑धय॒ स्वाहा॑ ।

०३ एधोऽस्येधिषीमहि स्वाहा ...{Loading}...

+++(हे समित्, अग्नेर्)+++ एधो॑+++(←इन्धी दीप्तौ)+++ ऽस्येधिषी॒महि॒ स्वाहा॑ ।

०४ समिदसि समेधिषीमहि ...{Loading}...
  • स॒मिद् अ॑सि समेधिषी॒महि॒ +++(अग्निं)+++ स्वाहा॑ ।
०५ तेजोसि तेजो ...{Loading}...
  • तेजो॑सि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा॑ ।+++(५)+++
०६ अपो अद्यान्वचारिषम् ...{Loading}...

अपो॑+++(=कर्म)+++ अ॒द्य +अन्व॑चारिष॒ꣳ॒
+++(श्रद्धा)+++रसे॑न॒ सम॑सृक्ष्महि+++(=संसृष्टो भवेयम्। समगन्महीति शाकले)+++ ।
पय॑स्वाꣳ+++(→हविष्मान्)+++ अग्न॒ आग॑म॒न्
तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा॑ ।

०७ सम् माऽग्ने ...{Loading}...

सं मा॑ऽग्ने॒ वर्च॑सा सृज
प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ ।

०८ विद्युन्मे अस्य ...{Loading}...

वि॒द्युन्+++(र्)+++ मे॑ अस्य दे॒वा
इन्द्रो॑ वि॒द्यात् स॒हर्षि॑भिः॒ स्वाहा॑ ।+++(५)+++

०९ अग्नये बृहते ...{Loading}...

अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॑ ।
+++(दिविनाको नामाग्निः इति ब्राह्मणम् ।)+++

१० द्यावापृथिवीभ्यां स्वाहा ...{Loading}...

द्यावा॑पृथि॒वीभ्या॒ꣳ॒ स्वाहा॑ ।

११ एषा ते ...{Loading}...

ए॒षा ते॑ अग्ने स॒मित्, तया॒ वर्द्ध॑स्व॒ चाप्या॑यस्व च॒, तया॒ऽहं वर्ध॑मानो भूयासम्, आ॒प्याय॑मानश्च॒ स्वाहा॑ ।

१२ यो माऽग्ने ...{Loading}...

यो मा॑ऽग्ने भा॒गिनꣳ॑ स॒न्तम्
अथा॑भा॒गञ् चिकी॑र्षति ।
अभा॒गम् अ॑ग्ने॒ तं कु॑रु॒
माम् अ॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा॑ ।+++(५)+++

१३ समिधमाधायाग्ने सर्वव्रतो ...{Loading}...

स॒मिध॑मा॒धाया॑ग्ने॒ सर्व॑व्रतो भूयास॒२ꣳ॒ स्वाहा॑ ।

११ २२ एवमन्यस्मिन्नपि ...{Loading}...

एवम् अन्यस्मिन्न् अपि +++(अग्नौ, तस्मिन्न् एव वा धार्यमाणे -)+++ सदा ऽरण्याद् +++(न ग्राम्यात् फलवतः)+++ एधान् आहृत्य +++(समिदाधानं कुर्यात्)+++२२ +++(नात्र पलाशनियमः!)+++

प्रतिज्ञाः, स्वीकृतिः

संशासनम्

११ २३ उत्तरया सँशास्ति ...{Loading}...

उत्तरया +++(“ब्रह्मचार्यसी"त्येतया)+++ सँशास्ति २३ +++(बाढमिति प्रतिवचनम् ।)+++

१४ ब्रह्मचार्यस्य्, अपोऽशान ...{Loading}...

ब्र॒ह्म॒चा॒र्य् अ॑सि।
(वटुः - बाढम्।)

अपो॑ऽशान +++(नानिवेदितम् अन्नम्)+++।
(वटुः - बाढम्।)

कर्म॑ कुरु।
(वटुः - बाढम्।)

मा सुषु॑प्थाः।
+++(अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति एवंविधो वा स्वापाभावः ।)+++
(वटुः - बाढम्।)

भि॒क्षा॒च॒र्य॑ञ् चर। (वटुः - बाढम्।)

आ॒चा॒र्या॒धी॒नो भ॑व ।
(वटुः - बाढम्।)

भिक्षा

+++(अत्र बोधायनः “अथास्मा अरिक्तं पात्रं प्रयच्छन्नाह मातरम् एवाग्रे भिक्षस्वेति” ।)+++

वासस आदानम्

११ २४ वासश्चतुर्थीमुत्तरयादत्तेऽन्यत्परिधाप्य ...{Loading}...

+++(त्र्यहं मन्त्रवत्-परिहितमेव)+++ वासश् चतुर्थीम्+++(चतुर्थाहोरात्रे अहन्येव)+++ उत्तरया +++(“यस्य ते प्रथमवास्य"मित्येतया)+++ ऽऽदत्ते +++(=स्वीकरोति)+++

१५ यस्य ते ...{Loading}...

यस्य॑ ते प्रथमवा॒स्यꣳ॑+++(=प्रथमाच्छादितं)+++ हरा॑म॒स्
तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः ।
तन् त्वा॒ भ्रात॑रस् सु॒वृधो॒ वर्ध॑मान॒म्
अनु॑ जायन्तां ब॒हव॒स् सुजा॑तम् ॥

ऽन्यत् परिधाप्य २४

+++(ततः केचित् प्रणवश्रद्धामेधाः पूजयित्वा दण्डत्यागम्, अन्यदण्डग्रहणञ् चेच्छन्ति।)+++

नियमान्तरपालने व्यवस्था

धर्मसूत्राणि दृश्यन्ताम्।

समावर्तनम् ...{Loading}...

समिदाधानम्

०१ इम२ं स्तोममर्हते ...{Loading}...

इ॒म२ꣳ स्तोम॒म् अर्ह॑ते+++(=स्तुत्यर्हाय)+++ जा॒तवे॑दसे॒
+++(यथा तक्षा!)+++ रथ॑मिव॒ संम॑हेमा मनी॒षया॑+++(=बुद्ध्या)+++ ।+++(४)+++
भ॒द्रा हि नः॒ प्रम॑तिर् अस्य +++(अग्नेः)+++ स॒ꣳ॒सद्य्
अग्ने॑ स॒ख्ये॑ मा रि॑षामा व॒यं तव॑ ।+++(५)+++

क्षौरकर्म

+++(क्षुराभिमन्त्रणम्)+++

०२ त्र्यायुषञ् जमदग्नेः ...{Loading}...

त्र्या॒यु॒षं+++(=कौमारयौवनस्थाविराणि)+++ ज॒मद॑ग्नेः
क॒श्यप॑स्य त्र्यायु॒षम् ।
यद्दे॒वानां॑ त्र्यायु॒षन्
तन्मे॑ अस्तु त्र्यायु॒षम् ।+++(५)+++

+++(क्षुरकर्मणा वयोगतिम् अभिलक्ष्य।)+++

+++(क्षुरं वप्त्रे प्रयच्छति)+++

०३ शिवो नामासि ...{Loading}...

शि॒वो नामा॑सि॒,
स्वधि॑तिस्+++(=परशुः, वज्रः)+++ ते पि॒ता।
+++(वज्रो वै स्वधितिः इति दर्शनात्)+++
नम॑स्ते अस्तु॒।
मा मा॑ हिꣳसीः ।

०४-११ उष्णेन वायवुदकेनेत्येषः ...{Loading}...

दिग्वपनम् ...{Loading}...
शिरस उन्दनम्
१० ०५ ब्राह्मणान् भोजयित्वाशिषो ...{Loading}...

ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वा
+++(उपनयने - एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति।)+++
ऽनुवाकस्य प्रथमेन यजुषाऽपः +++(“उष्णेनवाय” वित्येतेन)+++ संसृज्योष्णाश् शीतास्व् आनीय +++(न शीता उष्णासु)+++

हरदत्तो ऽत्र

०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...

+++(उष्णा आपः शीतास्वानयति)+++ उ॒ष्णेन॑ वायवुद॒केनेह्य्, अदि॑तिः॒ केशान्॑ वपतु

उत्तरया +++(आप उन्दन्त्विऽत्येतया)+++ शिर उनत्ति ५

०२ आप उन्दन्तु ...{Loading}...

+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आप॑ उन्दन्तु जी॒वसे॑
दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ।

+++(तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते । इति स्नातकसंस्कारे हरदत्तः। नाचार्यः - अन्योऽपि ब्राह्मण इति सुदर्शनसूरिः।)+++

प्रवपनम्
१० ०६ त्रींस्त्रीन् ...{Loading}...

त्रींस्त्रीन् दर्भान् अन्तर्धायोत्तराभिश् चतसृभिः +++(“येनावपत्"इत्यादिभिः)+++ प्रतिमन्त्रं प्रतिदिशं प्रवपति ६

०३ येनावपत्सविता क्षुरेण ...{Loading}...

+++(प्राच्यान्दिशि)+++ येनाव॑पत् सवि॒ता क्षु॒रेण॒
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो! वपते॒दम् अ॒स्या-
ऽऽयु॑ष्मा॒ञ् जर॑दष्टि॒र् यथा ऽस॑द् अ॒यम्
अ॒सौ +++(←अत्रोहः)+++।

०४ येन पूषा ...{Loading}...

+++(दक्षिणतः)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०५ येन भूयश्चरात्ययञ्ज्योक्च ...{Loading}...

+++(पश्चात्)+++ येन॒ भूय॒श् चरा॑त्य् अ॒यञ्,
ज्योक् च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०६ येन पूषा ...{Loading}...

+++(उत्तरे)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेन॑ ते वपाम्य् असा॒व्+++(←अत्रोहः)+++
आयु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः॑

क्षुर-शोधन-मन्त्रणम्
१० ०७ वपन्तमुत्तरयानुमन्त्रयते ...{Loading}...

वपन्तम् उत्तरया +++(“यत् क्षुरेण” इत्य् एतया)+++ ऽनुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७

०७ यत्क्षुरेण मर्चयता ...{Loading}...

+++(नापितम् अनुमन्त्रयति-)+++ यत् क्षु॒रेण॑ म॒र्चय॑ता +++(=तीक्ष्णेन)+++
सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒, मास्यायुः॒ प्रमो॑षीः

केश-दर्भ-निक्षेपः
१० ०८ आनडुहे शकृत्पिण्डे ...{Loading}...

आनडुहे शकृत्पिण्डे यवान् निधाय तस्मिन् केशान् उपयम्योत्तरया +++(“उप्त्वाय केशा"नित्येतया)+++ उम्बर-मूले दर्भ-स्तम्बे वा निदधाति ८

०८ उप्त्वाय केशान् ...{Loading}...

उ॒प्त्वास्य॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒,
बृह॒स्पति॑स् सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ +++(=केशेभ्यः)+++ नि॒धानं॑ बहु॒धा ऽन्व॑विन्दन्न्
अन्त॒रा द्यावा॑पृथि॒वी अ॒पस् सुवः॑ ॥

मेखलाया उपगूहनम्

१२ इदमहममुष्यामुष्यायणस्य पाप्मानमुपगूहाम्युत्तरोऽसौ ...{Loading}...

इ॒दम् अ॒हम् अ॒मुष्या॑ऽऽमुष्याय॒णस्य॑+++(←नामनिर्देशः)+++ पा॒प्मान॒म् उप॑गूहा॒म्य्,
उत्त॑रो॒ ऽसौ+++(←नामनिर्देशः)+++ द्वि॒षद्भ्यः॑ ।+++(५)+++

स्नानम्

१३ आपो हि ...{Loading}...

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

१४ यो वः ...{Loading}...

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

१५ तस्मा अरम् ...{Loading}...

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

१६-१८ हिरण्यवर्णाश्शुचयः पावका ...{Loading}...

०१ हिरण्यवर्णाः शुचयः ...{Loading}...

हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒काः
प्रच॑क्रमुर् ‌हि॒त्वा ऽव॒द्यम् आपः॑ ।
श॒तं प॒वित्रा॒ वित॑ता॒ ह्य् आ॑सु॒ +++(अप्सु)+++
ताभि॑ष् ट्वा दे॒वस् स॑वि॒ता पु॑नातु ।+++(र५)+++

हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्व् अ॒ग्निः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना +++(=सुखा)+++ भ॑वन्तु ।+++(५)+++

०२ यासां राजा ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना भ॑वन्तु ।+++(५)+++

दन्तधावनम्

१९ अन्नाद्याय व्यूहद्ध्वम् ...{Loading}...

+++(दन्ताः!)+++ अ॒न्नाद्या॑य॒ व्यू॑हध्वं+++(=पृथग्भवत)+++
दीर्घा॒युर् अ॒हम् अ॑न्ना॒दो भू॑यासम् ।
सोमो॒ राजा॒ऽयम् आग॑म॒त्,
स मे॒ मुखं॒ प्रवे॑क्ष्यति॒ भगे॑न स॒ह वर्च॑सा ।+++(र५)+++

वासः परिधत्ते

२० सोमस्य तनूरसि ...{Loading}...

सोम॑स्य त॒नूर् अ॑सि। +++(सौम्यँ वै वासः इति श्रुतेः।)+++
त॒नुवं॑ मे पाहि॒।
स्वामा॑ त॒नूर् आवि॑श +++(सोमस्य यथा)+++।+++(र५)+++

चन्दनलेपः

+++(देवताभ्यः चन्दनप्रदानम् - एताश्च अलङ्कारसमये पुरुषमुपसर्पन्ति)+++

२१-२३ नमो ग्रहाय ...{Loading}...

नमो॑ ग्र॒हाय॑ चाभिग्र॒हाय॑ च ।
नम॑श् शाकजञ्ज॒भाभ्या॑म् ।
नम॒स् ताभ्यो॑ दे॒वता॑भ्यो॒ या अ॑भिग्रा॒हिणीः॑ ।


+++(उत्तरया आत्मानमनुलिम्पति)+++

२४ अप्सरस्सु यो ...{Loading}...

अ॒प्स॒रस्सु॒ यो ग॒न्धो
ग॑न्ध॒र्वेषु॑ च॒ यद् यशः॑ ।
दैवो॒ यो मा॑नु॒षो ग॒न्धस्
स मा॑ ग॒न्धस् सु॑र॒भिर् जु॑षताम् ।


+++(सौवर्णे मणिं उदपात्रे परिप्लावयति)+++

२५ इयमोषधे त्रायमाणा ...{Loading}...

इ॒यम् +++(पृथिवी पार्थिवसुवर्णे वर्तमाना)+++ ओष॑धे॒+++(धीः)+++ त्राय॑माणा॒
सह॑माना॒ सह॑स्वती ।
सा मा॒ हिर॑ण्यवर्चसं
ब्रह्मवर्च॒सिनं॑ मा करोतु ।

__________________

+++(ग्रीवास्वाबध्नाति)+++

२६ अपाशोऽस्युरो मे ...{Loading}...

अपा॑शो॒ ऽस्य् - उरो॑ मे॒ मा सꣳशा॑रीः+++(=हिंसीः)+++ ।
शि॒वो मोप॑तिष्ठस्व - दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।
श॒तꣳ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै+++(=जीवनाय)+++ पुण्या॑य ।

dvitIya-vAsaH-paridhAnam

२७ -३२ रेवतीस्त्वा व्यक्ष्णन्नित्येताः ...{Loading}...

०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...

+++(नक्षत्रेषु)+++ रे॒वती॑स् त्वा॒ व्य॑क्ष्ण॒न्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृत्ति॑का॒श् चाकृ॑न्त२ꣳस् त्वा ।
धियो॑ ऽवय॒न्न्, अव॒ ग्न+++(=देवता)+++ आ॑वृञ्जन्त्+++(=अच्छिन्दन्)+++
स॒हस्र॒म् अन्ताꣳ॑+++(=दशासूत्राणि)+++ अ॒भितो॑ अयच्छन्न्

दे॒वीर् दे॒वाय॑ +++(वस्त्र)+++परि॒धी+++(धौ)+++ स॑वि॒त्रे ।
म॒हत् तद् आ॑साम् अभवन् महित्व॒नम्+++(=महत्वम्)+++ ।+++(र४)+++

दशायां प्रवर्तो प्रबध्य जुहोति

०१ आयुष्यं वर्चस्यम् ...{Loading}...

आ॒यु॒ष्यं॑ वर्च॒स्यꣳ॑ सु॒वीर्यꣳ॑
रा॒यस्पोष॒म् औद्भि॑द्यम्+++(→यशस्यम्)+++ ।
इ॒दꣳ हिर॑ण्यं॒ जैत्र्या॒या+++(=जयहेतवे)+++ऽवि॑शता॒न् माम् ।

०२ उच्चैर्वादि पृतनाजि ...{Loading}...

+++(हिरण्यवन्तो हि उच्चैर्वदन्ति→)+++ उ॒च्चै॒र् वा॒दि पृ॑तना॒जि+++(त्)+++
स॑त्रा+++(=सत्य)+++सा॒हं ध॑नञ्ज॒यम् ।
सर्वा॒स् समृ॑द्धी॒र्॒ ऋद्ध॑यो॒
हिर॑ण्ये॒ ऽस्मिन्त् स॒माहि॑ताः ।

०३ शुनमहं हिरण्यस्य ...{Loading}...

शु॒नम्+++(=सुखम्)+++ अ॒हꣳ हिर॑ण्यस्य
पि॒तुर् इ॑व॒ नामा॑ऽग्रभैषम्+++(=अग्रहीषं)+++ ।
तं मा॒ हिर॑ण्यवर्चसं
पू॒रुषु॑+++(=बहुषु)+++ प्रि॒यं कु॑रु ।

०४ प्रियम् मा ...{Loading}...

प्रि॒यं मा॑ दे॒वेषु॑ कुरु
प्रि॒यं मा॒ ब्रह्म॑णे कुरु ।
प्रि॒यं वि॒श्ये॑षु शू॒द्रेषु॑
प्रि॒यꣳ राज॑सु मा कुरु ।+++(५)+++

०५ या तिरश्ची ...{Loading}...

या ति॒रश्ची॑ नि॒षद्य॑से॒+++(=शेषे)+++
ऽहं वि॒धर॑णी॒+++(=विधारयित्री)+++ इति॑ ।
तां त्वा॑ घृ॒तस्य॒ धार॑या॒
यजे॑ स॒ꣳ॒राध॑नीम्+++(→भूमिम् / मध्यमावाक्)+++ अ॒हम् ।

०६- ७ संराधन्यै देव्यै ...{Loading}...

स॒ꣳ॒राध॑न्यै दे॒व्यै स्वाहा॑ ।
प्र॒साध॑न्यै दे॒व्यै स्वाहा॑ ।

०८ सम्राजञ्च विराजञ्चाभिश्रीर्या ...{Loading}...

स॒म्राज॑ञ् च वि॒राज॑ञ् चा-
ऽभि॒श्रीर् या च॑ नो गृ॒हे ।
ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒
तया॑ मा॒ सꣳसृ॑जामसि+++(→संसृजामि)+++ ।

स्रग्बन्धनम्

०९ शुभिके शिर ...{Loading}...

शुभि॑के॒ +++(स्रक्)+++ शिर॒ आरो॑ह
शो॒भय॑न्ती॒ मुखं॒ मम॑ ।
मुखꣳ॑ हि॒ मम॑ शोभय॒
भूयाꣳ॑सञ्च॒ भगं॑ कुरु ।

१० यामाहरज्जमदग्निश्श्रद्धायै कामायान्यै ...{Loading}...

याम् +++(स्रजं)+++ आह॑रज् ज॒मद॑ग्निश्
श्र॒द्धायै॑ कामाया॒न्यै+++(=काममानायै)+++ ।
इ॒मान् ताम् अपि॑ नह्ये॒
ऽहं भगे॑न स॒हवर्च॑सा ।

आञ्जनमन्त्रः

११ यदाञ्जनन् त्रैककुदम् ...{Loading}...

+++(हे अक्षिणी-)+++ यदाञ्ज॑नं त्रैककु॒दं+++(=त्रिककुत्पर्वतभवं)+++
जा॒तꣳ हि॒मव॑त उ॒परि॑ ।
तेन॑ वामाञ्जे॒ तेज॑से॒
वर्च॑से॒ भगा॑य च ॥ (8)

०१- ४ मयि पर्वतपूरुषम् ...{Loading}...

मयि॑ पर्वतपूरु॒षम् ।
मयि॑ पर्वतवर्च॒सम् ।
मयि॑ पर्वतभेष॒जम् ।
मयि॑ पर्वतायु॒षम् ।

आदर्शावेक्षणमन्त्रः

०५ यन्मे वर्चः ...{Loading}...

यन् मे॒ वर्चः॑ प॒राग॑तम् +++(आदर्शतलस्थितं)+++
आ॒त्मान॑म् उप॒तिष्ठ॑ति ।
इ॒दन् तत् पुन॒र् आद॑दे
दीर्घायु॒त्वाय॒ वर्च॑से ।

उपानद्ग्रहणमन्त्रः

०६ प्रतिष्ठे स्थो ...{Loading}...

प्र॒ति॒ष्ठे स्थो॑ दे॒वता॑ना॒म्।
मा मा॒ +++(नवपादरक्ष-व्रणोत्पादनेन)+++ सन्ता॑प्तम् ।+++(४)+++

छत्रधारणमन्त्रः

०७ प्रजापतेश्शरणमसि ब्रह्मणश्छदिर्विश्वजनस्य ...{Loading}...

प्र॒जाप॑ते॒श् शर॑णम् असि।
ब्रह्म॑णश् छ॒दिर् वि॑श्व-ज॒नस्य॑ छा॒याऽसि॑।
स॒र्वतो॑ मा पाहि ।

दण्डादानमन्त्रः

०८ देवस्य त्वा ...{Loading}...

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑+++(=अनुज्ञायां)+++
ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒म्
आ द॑दे।
द्विष॒तो व॒धायेन्द्र॑स्य॒ वज्रो॑ऽसि॒।+++(५)+++
वार्त्र॑घ्न॒श् +++(त्वं)+++ शर्म॑ मे भव।
यत् पा॒पन् तन् निवा॑रय ।

दिशाम् उपस्थानम्

०९ देवीः षडुर्वीरुरु ...{Loading}...

मन्त्रः

देवीः॑ षड्+++(←४+ऊर्ध्वाधरे)+++ उर्वीर्, उ॒रु ण॑ᳵ कृणोत।
विश्वे॑ देवास इ॒ह वी॑रयध्वम्+++(वीरयन्तु)+++ ।

नक्षत्रणां चन्द्रमसश् चोपस्थानम्

१० मा हास्महि ...{Loading}...

मा हा॑स्महि प्र॒जया॒, मा त॒नूभिः॑।
मा र॑धाम+++(←रधिः वशीकरणकर्म)+++ द्विष॒ते सो॑म राजन्न् ।

मधुपर्कः ...{Loading}...

आसनम्

११-१३ राष्ट्रभृदस्याचार्यासन्दी मा ...{Loading}...

राष्ट्र॒भृद् अ॑सि सम्राड्+++(=अभिषिक्त-क्षत्रिय)+++-आस॒न्दी। मा त्वद् यो॑षम्।
राष्ट्र॒भृद् अ॑स्य् अधिपत्न्य्-आस॒न्दी। मा त्वद् यो॑षम्।

पाद्याभिमन्त्रणम्

१४ आपः पादावनेजनीर्द्विषन्तम् ...{Loading}...

आपः॑ पादाव॒नेज॑नीर्
द्वि॒षन्तं॑ नाशयन्तु मे ।
अ॒स्मिन् कुले॑ ब्रह्मवर्च॒स्य् अ॑सानि+++(=भूयासम्)+++ ।


+++(आत्मनः प्रत्यभिमर्शः - ब्राह्मणेन पादे स्पृष्टे एतेषामुपगमशङ्कया प्रार्थ्यते ॥)+++

१५ मयि महो ...{Loading}...

मयि॒ महो॒+++(=पूजा)+++, मयि॒ यशो॒, मयी॑न्द्रि॒यं वी॒र्य॑म् ।

अर्घ्यम्

+++(अर्घ्याभिमन्त्रणम्)+++

१६ आमाऽगन् यशसा ...{Loading}...

+++(उदक!)+++ आ मा॑ ऽग॒न्॒ यश॑सा॒ वर्च॑सा॒
सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च ।
तं मा॑ प्रि॒यं प्र॒जानां॑
कु॒र्व् अधि॑पतिं पशू॒नाम् ।


+++(अञ्जलावानीयमानेर्घ्ये)+++

१७ विराजो दोहोऽसि ...{Loading}...

वि॒राजो॒ +++(ऽन्नस्य)+++ दोहो॑ऽसि।
वि॒राजो॒ दोह॑म् अशीय॒।
मम॒ पद्या॑य॒ +++(पुत्रादये)+++ विरा॑ज+++(=दीप्यस्व)+++ ।


+++(शेषं पुरस्तान्निनीयमानम् उत्तरयाऽनुमन्त्रयते)+++

१८ समुद्रं वः ...{Loading}...

स॒मु॒द्रं वः॒ प्रहि॑णोमि॒
स्वां योनि॒म् अपि॑ गच्छत ।
अच्छि॑द्रः प्र॒जया॑ भूयासं॒
मा परा॑ सेचि॒ मत् पयः॑ ॥ (9)

मधुपर्कमभिमन्त्रयते

०१ त्रय्यै विद्यायै ...{Loading}...

+++(गोमधुपर्कार्हो वेदाध्यायीति-)+++ त्र॒य्यै वि॒द्यायै॒ यशो॑ऽसि।
यश॑सो॒ यशो॑सि।
ब्रह्म॑णो॒ दीप्ति॑रसि ।
तं मा॑ प्रि॒यं प्र॒जानां॑ कु॒र्व्, अधि॑पतिं पशू॒नाम् ।

०२ आमागन्नित्येषा ...{Loading}...

१६ आमाऽगन् यशसा ...{Loading}...

+++(उदक!)+++ आ मा॑ ऽग॒न्॒ यश॑सा॒ वर्च॑सा॒
सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च ।
तं मा॑ प्रि॒यं प्र॒जानां॑
कु॒र्व् अधि॑पतिं पशू॒नाम् ।

आचमनम् अशने

+++(पूर्वम्)+++

०३ अमृतोपस्तरणमसि ...{Loading}...

अ॒मृ॒तो॒प॒स्तर॑णम् असि +++(यथा हविरादाने)+++।

+++(उपरिष्टादप आचामति)+++

०४ अमृतापिधानमसि ...{Loading}...

अ॒मृ॒ता॒ऽपि॒धा॒नम॑सि ।

मधुपर्कं प्राश्नाति

०५ यन्मधुनो मधव्यम् ...{Loading}...

यन् मधु॑नो मध॒व्यं॑ पर॒मम् अ॒न्नाद्यं॑ वी॒र्य॑म्,
तेना॒हं मधु॑नो मध॒व्ये॑न पर॒मेणा॒न्नाद्ये॑न वी॒र्ये॑ण
पर॒मो॑ऽन्ना॒दो म॑ध॒व्यो॑ ऽसानि ।

गोकर्म

+++(गां निवेदितामभिमन्त्रयते)+++

०६ गौरस्यपहतपाप्माऽप पाप्मानञ्जहि ...{Loading}...

गौर्॒ अस्य् अप॑हतपा॒प्मा।
अप॑ पा॒प्मान॑ञ् जहि॒ मम॑ चा॒मुष्य॑ च ।

आलम्भनपक्षे वपाहोममन्त्रः

०७ अग्निः प्राश्नातु ...{Loading}...

अ॒ग्निः प्राश्ना॑तु प्रथ॒मस्-
स हि वेद॒ यथा॑ ह॒विः ।
अरि॑ष्टम् अ॒स्माकं॑ कृ॒ण्वन्
ब्रा॑ह्म॒णो ब्रा॑ह्म॒णेभ्यः॑ ।+++(र५)+++

उत्सर्गपक्षे जपः

०८ यज्ञो वर्द्धताम् ...{Loading}...

य॒ज्ञो व॑र्द्धताम्।
य॒ज्ञस्य॒ वृद्धि॒म् अनु॑ व॒र्द्ध+++(स्व)+++।
अप॑चितिर॒स्य्, अप॑चितं मा कु॒रु। अप॑चितो॒हं म॑नु॒ष्ये॑षु भूयासम् ।

०९-११ गौर्धेनुभव्या माता ...{Loading}...

गौर् धे॑नुभ॒व्या+++(=धेनुर्भविष्यन्ती)+++, मा॒ता रु॒द्राणां॑, दुहि॒ता वसू॑ना॒ꣳ॒, स्वसा॑ऽऽदि॒त्याना॑म्, +++(आज्यादिद्वारेण)+++ अ॒मृत॑स्य॒ नाभिः॑ ।
प्र णु॒ वोच॑ञ् चिकि॒तुषे॒+++(=जानते)+++ जना॑य॒ - मा गाम् अना॑गा॒म्+++(=अनागसं)+++ अदि॑तिं वधिष्ट ।
पिब॑तूद॒कं, तृणा॑न्य् अत्तु ।
ओम् उत्सृ॒जत ।

परिवेषणाज्ञाः

१२ भूतम् ...{Loading}...

भू॒तम् ।
सु॒भू॒तम् ।

१३ -१५ सा विराट् ...{Loading}...

सा वि॒राट् ।
तन् मा क्षा॑यि ।
तस्य॒ तेऽशी॑य ।
तन्म॒ ऊर्जं॑धाः ।
ओं कल्प॒यत +++(परिचारकाः)+++ ॥ (10)

सीमन्तोन्नयनम् ...{Loading}...

सीमन्तोन्नयनम्

होमः

०२ ०२ शम्याः परिध्यर्थे ...{Loading}...

शम्याः+++(=युगकीलाः)+++ परिध्यर्थे विवाह+उपनयन-समावर्तन-सीमन्त-चौल-गोदान-प्रायश्चित्तेषु २ +++(अथ परिधीन् परिदधाति। तत आघारसमिधौ।)+++

१४ ०१ सीमन्तोन्नयनम् प्रथमे ...{Loading}...

सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि ॥ आपस्तम्बगृह्यसूत्र १४.१ ॥

१४ ०२ ब्राह्मणान् भोजयित्वाऽऽशिषो ...{Loading}...

ब्राह्मणान् भोजयित्वा ऽशिषो वाचयित्वा,
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते
ऽन्वारब्धायाम् +++(चौले - अन्वारब्धे)+++
उत्तरा आहुतीर् हुत्वा +++(= " धाता ददातु नो रयिम्” इति चतस्रो, “यस्त्वा हृदा कीरिणे"ति चतस्रः)+++
जयादि प्रतिपद्यते ॥
परिषेचनान्तं कृत्वा

०१ धाता ददातु ...{Loading}...

धा॒ता द॑दातु नो र॒यिम्
ईशा॑नो॒ जग॑त॒स्+++(!)+++पतिः॑ ।
स नः॑ पू॒र्णेन॑ वावनत् ।

०२ धाता प्रजाया ...{Loading}...

धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे +++(=ईष्टे)+++
धा॒तेदं विश्व॒म् भुव॑नं जजान ।
धा॒ता पु॒त्रं यज॑मानाय॒ दाता॑
तस्मा॑ उ ह॒व्यं घृ॒तव॑द् विधेम ।

०३ धाता ददातु ...{Loading}...

धा॒ता द॑दातु नो र॒यिम्
प्राचीं॑ जी॒वातु॒म् अक्षि॑ताम् ।
व॒यं दे॒वस्य॑ धीमहि
सुम॒तिꣳ स॒त्य-रा॑धसः+++(=धनस्य)+++ ।

०४ धाता ददातु ...{Loading}...

धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि
प्र॒जाका॑माय मी॒ढुषे॑ +++(=सेक्त्रे)+++ दुरो॒णे +++(=दारेषु)+++ ।
तस्मै॑ दे॒वा अ॒मृताः॒ सं व्य॑यन्तां॒ +++(=ददतु)+++
विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः॑ ।

०५ यस्त्वा हृदा ...{Loading}...
१० यस्त्वा हृदा ...{Loading}...

यस् त्वा॑ हृ॒दा की॒रिणा॒ +++(=स्तोत्रिणा)+++ मन्य॑मा॒नो
ऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि
जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि
प्र॒जाभि॑र् अग्ने अमृत॒त्वम् अ॑श्याम्

०६ यस्मै त्वम् ...{Loading}...
११ यस्मै त्वं ...{Loading}...

यस्मै॒ त्वꣳ सु॒कृते॑ जातवेद॒ उ
लो॒कम् अ॑ग्ने कृ॒णवः॑ +++(=कुर्याः)+++ स्यो॒नम् +++(सुखमयम्)+++।
अ॒श्विन॒ꣳ॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒
गोम॑न्तꣳ र॒यिं न॑शते +++(=प्राप्नोति)+++ स्व॒स्ति ॥

०७ त्वे सु ...{Loading}...
१४ त्वे सु ...{Loading}...

त्वे सु पु॑त्त्र शव॒सो
ऽवृ॑त्र॒न् +++(=अवर्तन्त)+++ काम॑-कातयः +++(=कामकामनाः)+++ ।
न त्वाम् इ॒न्द्राति॑ रिच्यते ।।

०८ उक्थउक्थे सोम ...{Loading}...
०२ उक्थौक्थे सोम ...{Loading}...

उ॒क्थउ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद
नी॒थेनी॑थे +++(समाप्ते समाप्ते)+++ म॒घवा॑नꣳ सु॒तासः॑ ।
यद् ईꣳ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः
स॑मा॒न-द॑क्षा॒ +++(=समानबलाः)+++ अव॑से॒ हव॑न्ते ।

सीमन्तोन्नयनम्

१४ ०३ परिषेचनान्तङ् कृत्वा ...{Loading}...

परिषेचनान्तं कृत्वा ऽपरेणाग्निं प्राचीम् उपवेश्य त्रेण्या शलल्या त्रिभिर् दर्भ-पुञ्जीलैश् शलालु-ग्लप्सेनेत्य् +++(→उदुम्बर-फल-सङ्घातेन)+++ ऊर्ध्वं सीमन्तम् उन्नयति व्याहृतीभिर् उत्तराभ्यां च ।

वीणागानम्

१४ ०४ 'गायतम्' इति ...{Loading}...

गायतम् इति वीणा-गाथिनौ संशास्ति ॥

+++("सालवीः" इत्येषा)+++

न सर्वेषां ब्राह्मणानाम् अपि तु साल्वानाम्+++(=साल्व-देश-निवासिनाम्)+++ ॥

+++(यमुनातीरवासिनाम्)+++

१४ ०५ उत्तरयोः पूर्वा ...{Loading}...

उत्तरयोः पूर्वा साल्वानां ब्राह्मणानामितरा ।

१२ यौगन्धरिरेव नो ...{Loading}...

यौग॑न्धरिर् ए॒व नो॒ राजेति॒ साल्वी॑र् अवादिषुः ।
विवृ॑त्तचक्रा॒ आसी॑ना॒स् तीरे॑ण यमुने॒ तव॑ ।

+++(सर्वासां ब्राह्मणीनां प्रजानाम्)+++

१४ ०६ नदीनिर्देशश्च यस्याम् ...{Loading}...

+++(अन्येषाम् - “सोम एव नो राजा” इत्येषा।)+++ नदी-निर्देशश्च यस्यां वसन्ति ॥

१३ सोम एव ...{Loading}...

सोम॑ ए॒व नो॒ राजेत्य्
आ॑हुर्ब्राह्म॒णीः प्र॒जाः ।
विवृ॑त्त-चक्रा॒ आसी॑ना॒स्
तीरे॑णासौ॒+++(→उपजीव्यनदीनाम)+++ तव॑ ।

१४ ०७ यवान् विरूढानाबध्य ...{Loading}...

+++(पूर्वमेवैतदर्थम् उप्तान्)+++ यवान् विरूढान् +++(शिरसि वध्वाः)+++ आबध्य,
+++(वधूर्)+++ वाचं यच्छत्य् आनक्षत्रेभ्यः ॥

१४ ०८ उदितेषु नक्षत्रेषु ...{Loading}...

उदितेषु नक्षत्रेषु प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य
वत्सम् अन्वारभ्य
व्याहृतीश् च जपित्वा
वाचं विसृजेत् ॥

+++(इह केचिद् अध्येतारो “यच्छतो” “विसृजत” इति द्विवचने पठन्ति ।)+++
व्याहृतयस् समस्ताः याजमान-समाम्नायात् प्रत्येतव्याः ॥

पुंसुवनम् ...{Loading}...

पुंसवनम्

१४ ०९ पुँसवनं व्यक्ते ...{Loading}...

पुँसवनं व्यक्ते गर्भे तिष्येण ।

१४ पुंसुवनमसि ...{Loading}...

पु॒ꣳ॒ सु॒वन॑म् असि ।

१४ १० न्यग्रोधस्य या ...{Loading}...

न्यग्रोधस्य या प्राच्युदीचीं वा शाखा ततस्सवृषणां शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि ॥

+++(दक्षिणे नासिकाछिद्रे न्यग्रोधशृङ्गारसमपि नयति)+++

क्षिप्र-पुंसवनम्

+++(यजुषाऽभिमर्शनम्)+++

१४ १४ अनाप्रीतेन ...{Loading}...

अनाप्रीतेन शरावेणानुस्रोतसम् उदकम् आहृत्य, पत्तस् +++(=पादयोः)+++ तूर्यन्तीं +++(=ओषधिविशेषं)+++ निधाय, मूर्धञ् +शोष्यन्तीम् उत्तरेण यजुषा+++(आभिष्ट्वाहं दशभिरभिमृशामि)+++ ऽऽभिमृश्य+, एताभिर् अद्भिरुत्तराभिर्+++(यथैव सोमः पवते)+++ अवोक्षेत् ॥

१५ आभिष्ट्वाहन् दशभिरभिमृशामि ...{Loading}...

+++(अङ्गुलीभिर्)+++ आ॒भिष् ट्वा॒ ऽहं द॒शभि॑र् अ॒भिमृ॑शामि॒ - दश॒मास्या॑य॒ सूत॑वे ।+++(र४)+++

१६ यथैव सोमः ...{Loading}...
मन्त्रः
  • यथै॒व सोमः॒ पव॑ते॒ यथा॑ समु॒द्र एज॑ति ।
    ए॒वन्ते गर्भ॒ एज॑तु स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु ।
    आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ वी॒र्ये॑ऽन्नाद्ये॑ ।

यथै॒व सोमः॒ पव॑ते॒, यथा॑ समु॒द्र एज॑ति+++(=कम्पते)+++,
ए॒वन्ते गर्भ॒ एज॑तु।
स॒ह ज॒रायु॑णा+++(=गर्भवेष्टनेन)+++ नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु - आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ ।

१७ दश मासाञ्छशयानो ...{Loading}...

दश॒ मासा॒ञ् छश॑यानो
धा॒त्रा हि तथा॑ कृ॒तम् ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।

१८ आयमनीर्यमयत गर्भमापो ...{Loading}...

आ॒यम॑नीर् यमयत॒ गर्भ॒म्
आपो॑ देवी॒स् सर॑स्वतीः ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।

परिषेचनान्ते ततो वक्ष्यमाणं कर्म ॥

अवोक्षणमन्त्रः

१४ ११ अनवस्नातया कुमार्या ...{Loading}...

अनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्यापेरणाग्निं प्राचीमुत्तानां निपात्योत्तरेण यजुषाऽङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रेऽपि नयति ।

१४ १२ पुमाँसञ् जनयति ...{Loading}...

पुमाँसं जनयति ।

जरायुपतने ऽवोक्षणम्

१४ १५ यदि जरायु ...{Loading}...

यदि जरायु न पतेदेवंविहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत् ।

१९ तिलदेऽवपद्यस्व न ...{Loading}...

तिल॒दे +++(जरायो!)+++ ऽव॑पद्यस्व॒+++(=अवपत)+++, न मा॒ꣳ॒सम् अ॑सि॒, नोदल॑+++(र)+++म् ।+++(र४)+++

२० स्थवित्र्यवपद्यस्व न ...{Loading}...

स्थ॒वि॒त्र्य् अव॑पद्यस्व॒, न मा॒ꣳ॒सेषु॒, न स्नाव॑सु॒+++(=tendon)+++ न ब॒द्धम॑सि म॒ज्जसु॑ ।
निरै॑तु॒ पृश्नि॒+++(=स्वल्परूपं)+++ शेव॑+++(=सुख)+++लꣳ शु॒ने ज॒राय्व् अ॒त्तवे॑ ॥ (11)

जातकर्म ...{Loading}...

अभिमर्शनम्

१५ ०१ जातं वात्सप्रेणाभिमृश्योत्तरेण ...{Loading}...

जातं +++(=जातमात्रम्, “प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते”)+++ वात्सप्रेण +++(=दिवसस्परीत्येषः)+++ +अभिमृश्य,

२१ दिवस् परि ...{Loading}...
०१ दिवस्परि प्रथमं ...{Loading}...

दि॒वस् परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर्
अ॒स्मद् द्वि॒तीय॒म् परि॑ जा॒तवे॑दाः ।
तृ॒तीय॑म् अ॒प्सु नृ॒-मणा॒ अज॑स्र॒म्
इन्धा॑न एनं जरते+++(=स्तौति)+++ स्वा॒धीः+++(=सुप्रज्ञाता)+++ ।

२२ विद्मा ते ...{Loading}...
०२ विद्मा ते ...{Loading}...

+++(प्रतिज्ञा+ऋक्। अग्रिमायाम् उत्तरम्।)+++
वि॒द्मा ते॑ अग्ने त्रे॒धा +++{रूपाणि अग्नि-विद्युत्-सूर्यास्}+++ त्र॒याणि॑
वि॒द्मा ते॒ सद्म॒ +++{नानाकुण्डेषु}+++ विभृ॑तम् पुरु॒त्रा +++(=बहुधा)+++।
वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्
वि॒द्मा तम् उत्सं॒ +++(=fount)+++ यत॑ आज॒गन्थ॑ ।

२३ समुद्रे त्वा ...{Loading}...
०३ समुद्रे त्वा ...{Loading}...

+++(प्राक्तनाया विस्तारः!)+++ स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व् अ॑न्तर्
नृ॒चक्षा॑ +++(=नृद्रष्टा)+++ ईधे +++(=दीपयते)+++ दि॒वो अ॑ग्न॒ ऊधन्न्॑ +++(=उधस्स्थानीये मेघे)+++ ।
तृ॒तीये॑ त्वा रज॑सि +++(=लोके)+++ तस्थि॒वाँस॑म्
ऋ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन्न् +++(=बुद्धवन्तः)+++ ।

२४ अक्रन्ददग्निस्स्तनयन्निव द्यौः ...{Loading}...
०४ अक्रन्ददग्निः स्तनयन्निव ...{Loading}...

अक्र॑न्दद् अ॒ग्निः स्त॒नय॑न्निव॒ द्यौः
क्षामा॒ +++(=पृथिवीं)+++ रेरि॑हद् +++(=आस्वादयन्)+++ वी॒रुधः॑ +++(={वृक्ष}गुल्मान्)+++ सम॒ञ्जन्न् ।
स॒द्यो ज॑ज्ञा॒नो +++{दावानलः}+++ वि हीम् इ॒द्धो
अख्य॒दा रोद॑सी भा॒नुना॑ भात्य् अ॒न्तः ।

२५ उशिक्पावको अरतिस्सुमेधा ...{Loading}...
०७ उशिक्पावको अरतिः ...{Loading}...

उ॒शिक् +++(=कामयिता)+++ पा॑व॒को अ॑र॒तिः +++(=गन्ता)+++ सु॑मे॒धा
मर्ते॑ष्व् अ॒ग्निर् अ॒मृतो॒ निधा॑यि ।
इय॑र्ति +++(=गमयति)+++ धू॒मम् अ॑रु॒षम् +++(=महत्)+++ भरि॑भ्र॒द्
उच् छु॒क्रेण॑ शो॒चिषा॒ द्याम् इन॑क्षत् +++(=दीपयत्)+++।

२६ विश्वस्य केतुर्भुवनस्य ...{Loading}...
०६ विश्वस्य केतुर्भुवनस्य ...{Loading}...

विश्व॑स्य के॒तुर् भुव॑नस्य॒ गर्भ॒
आ रोद॑सी अपृणा॒ज् +++(=अपूरयत्)+++ जाय॑मानः ।
वी॒डुं +++(=दृढं)+++ चि॒द् अद्रि॑म् अभिनत् परा॒यञ् +++(=परागच्छन्)+++
जना॒ यद् अ॒ग्निम् अय॑जन्त॒ पञ्च॑ ।

२७ श्रीणामुदारो धरुणो ...{Loading}...
०५ श्रीणामुदारो धरुणो ...{Loading}...

श्री॒णाम् उ॑दा॒रो ध॒रुणो॑ रयी॒णाम्
म॑नी॒षाणा॒म् प्रार्प॑णः॒ सोम॑गोपाः ।
वसोः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ +++(=दीप्यमानः)+++
वि भा॒त्य् अग्र॑ उ॒षसा॑म् इधा॒नः ।

२८ यस्ते अद्य ...{Loading}...
०९ यस्ते अद्य ...{Loading}...

यस् ते॑ अ॒द्य कृ॒णव॑द् भद्रशोचे
ऽपू॒पं दे॑व घृ॒तव॑न्तम् अग्ने।
प्र तं न॑य प्रत॒रां +++(=नितरां)+++ वस्यो॒ +++(=वसीयः)+++
अच्छा॒भि द्यु॒म्नं +++(=धनं)+++ दे॒वभ॑क्तं यविष्ठ ।

२९ तम्भज सौश्रवसेष्वग्न ...{Loading}...
१० आ तं ...{Loading}...

आ तम् भ॑ज सौश्रव॒सेष्व् +++(स्वन्नेषु [यागेषु])+++ अ॑ग्न
उ॒क्थउ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्य्
उज् जा॒तेन॑ +++{पुत्रादिना}+++ भि॒नद॒द् +++(=उद्भिद्य प्रकाशताम्)+++ उज्जनि॑त्वैः +++(=जनिष्यमाणैः)+++।

३० त्वामग्ने यजमाना ...{Loading}...
११ त्वामग्ने यजमाना ...{Loading}...

त्वाम् अ॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्
विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि +++(=वरणीयानि)+++ ।
त्वया॑ स॒ह द्रवि॑णम् इ॒च्छमा॑ना
व्र॒जं गोम॑न्तम् उ॒शिजो॒ +++(=मेधाविनो)+++ वि व॑व्रुः ।

३१ दृशानो रुक्म ...{Loading}...
०८ दृशानो रुक्म ...{Loading}...

दृ॒शा॒नो रु॒क्म +++(=रोचमानः)+++ उ॒र्व्या +++(=महत्या)+++ व्य॑द्यौद्,
दु॒र्मर्ष॒म् आयुः॑ श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर् अ॒मृतो॑ अभव॒द् वयो॑भि॒र्
यद् ए॑नं॒ द्यौर् अज॑नयत् सु॒रेताः॑ ॥

उपस्थ आधानम्

उत्तरेण यजुषोपस्थ आधाय +++(=“अस्मिन्नह"मित्यनेन)+++,

३२ अस्मिन्नहं सहस्रम् ...{Loading}...

अ॒स्मिन्न॒हँस॒हस्रं॑ पुष्या॒म्येध॑मान॒स् स्वे वशे॑ ।

अभिमन्त्रणम्

उत्तराभ्याम् +++(“अङ्गादङ्गाद्” इति)+++ अभिमन्त्रणं ,

३३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...

अङ्गा॑दङ्गा॒त्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे ।
आ॒त्मा वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।

मूर्धन्यवघ्राणम्

+++(“अश्मा भवे"ति)+++ मूर्धन्यवघ्राणं,

०१ अश्मा भव ...{Loading}...

अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।

दक्षिणकर्णे-जपः

+++(“मेधां त” इति)+++ दक्षिणे कर्णे जापः १

०२ मेधान्ते देवस्सविता ...{Loading}...

मे॒धान् ते॑ दे॒वस् स॑वि॒ता
मे॒धान् दे॒वी सर॑स्वती ।
मे॒धान् ते॑ अ॒श्विनौ॑ दे॒वाव्
आध॑त्तां॒ पुष्क॑रस्रजा ।

१५ ०२ नक्षत्रनाम च ...{Loading}...

+++(“अभिजिघ्राम्यसौ”)+++ नक्षत्रनाम च निर्दिशति २

१५ ०३ तद्रहस्यम् भवति ...{Loading}...

तद्रहस्यं भवति +++(सूक्र्तवाकाभिवादनादिष्वपि!)+++३

मधु-घृत-प्राशनम्

१५ ०४ मधु घृतमिति ...{Loading}...

मधु घृतम् इति संसृज्य
तस्मिन् दर्भेण हिरण्यं निष्टर्क्य +++(= शिखाबन्धनवत्सरन्ध्रेण ग्रन्थिना)+++,
बध्वा
ऽवदाय
+उत्तरैर् मन्त्रैः +++(“त्वयि मेधाम्” इति)+++ कुमारं प्राशयित्वा,

०३-०५ त्वयि मेधाम् ...{Loading}...

त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वय्य् अ॒ग्निस् तेजो॑ दधातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयि॒ सूर्यो॒ भ्राजो॑ दधातु ।

स्नापनम्
प्रतिज्ञा

उत्तराभिः पञ्चभिस् +++(=“ऽक्षेत्रियै त्वे"त्यादिभिः)+++ स्नापयित्वा,

०६ क्षेत्रियै त्वा ...{Loading}...

क्षे॒त्रि॒यै +++(=अचिकित्स्यव्याधेः)+++ त्वा॒ निर्ऋ॑त्यै त्वा..
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि
शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।

शान्तिवचनम्
०७ शन्ते अग्निस्सहाद्भिरस्तु ...{Loading}...

शन् ते॑ अ॒ग्निस् स॒हाद्भिर् अ॑स्तु॒
शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः ।
शम् अ॒न्तरि॑क्षꣳ स॒ह वाते॑न ते॒
शन् ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु।

०८ या दैवीश्चतस्रः ...{Loading}...

या दैवी॒श् चत॑स्रः प्र॒दिशो॒ वात॑-पत्नीर्,
अ॒भि सूर्यो॑ विच॒ष्टे +++(=विपश्यति)+++ ।
तासा॑न् त्वा ऽऽज॒रस॒ आ द॑धामि॒।
प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिं परा॒चैः +++(=प्राङ्मुखः)+++ ।

अवर्तिनिवारणम्
०९ अमोचि यक्ष्माद्दुरितादवर्त्यै ...{Loading}...

अमो॑चि॒ यक्ष्मा॑द् दुरि॒ताद् अव॑र्त्यै +++(=आपत्तः)+++।
द्रु॒हः पाशा॒न् निर्ऋ॑त्यै॒ च+उद॑मोचि ।
अहा॒ +++(=अहासीत्)+++ अव॑र्ति॒म् +++(=दारिद्र्यम्)+++, अवि॑दत् स्यो॒नम् +++(=सुस्वम्)+++।
अप्य॑भूद् भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ।

सूर्यग्रहणमोक्षनिदर्शनम्
१० सूर्यमृतन्तमसो ग्राह्या ...{Loading}...

/devaH/lokAntaram/images/solar_eclipse_receeding.jpg

सूर्य॑म् ऋ॒तन् +++(=प्राप्तम्)+++ तम॑सो॒ ग्राह्या॒
यद् दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न् व्ये॑नसः +++(=व्यसृजन् एनसः)+++ ।

+++(प्रतिज्ञापूर्तिः- )+++
ए॒वम् अ॒हम् इ॒मं क्षे॑त्रि॒याज् +++(=आनुवंशिकाद् [रोगात्])+++ जा॑मिशँ॒साद् +++(=बन्धूक्ताद्)+++
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।

दधि-घृत-प्राशनम्

दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्कारचतुर्थाभिः +++(“भूः स्वाहेत्यादिभिः प्रतिमन्त्रम्”)+++ कुमारं प्राशयित्वा, अद्भिश् शेषं संसृज्य गोष्ठे निनयेत् ४

११ भूस्स्वाहा भुवस्स्वाहा ...{Loading}...

भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहा। ॐ स्वाहा॑ ॥

मातुर् उपस्थ आधानम्

१५ ०५ उत्तरया मातुरुपस्थ ...{Loading}...

उत्तरया +++(=“मा ते कुमारम्”)+++ मातुरुपस्थ आधाय,

०१ मा ते ...{Loading}...

मा ते॑ कुमा॒रँ रक्षो॑वधी॒न्
मा धे॒नुर॑त्यासा॒रिणी॑ ।
प्रि॒या धन॑स्य भूया॒
एध॑माना॒ स्वे गृ॒हे ।

दक्षिणे स्तने प्रतिधाप्य

उत्तरया +++(=“अयं कुमारः”)+++ दक्षिणं स्तनं प्रतिधाप्य,

०२ अयङ् कुमारो ...{Loading}...

अ॒यं कु॑मा॒रो ज॒रां ध॑यतु दी॒र्घमायुः॑ ।
यस्मै॒ त्व२ँ स्तन॒! प्रप्या॒य +++(=प्रक्षर)+++
+आयु॒र्वर्चो॒ यशो॒ बल॑म् ।

पृथिव्या अभिमर्शः

उत्तराभ्यां +++(=“यद्भूमेर्हृदयम्”)+++ पृथिवीमभिमृश्य,

०३ यद्भूमेर्हृदयन्दिवि चन्द्रमसि ...{Loading}...
  • यद्भूमे॒र्हृद॑यन्दि॒वि च॒न्द्रम॑सि श्रि॒तम् । तदु॑र्वि पश्यं॒ +++(=पश्येयम्)+++ माऽहं पौत्र॒मघꣳ॑ रुदम् ।
०४ यत्ते सुसीमे ...{Loading}...
  • यत्ते॑ सुसी॒मे हृद॑यं॒ वेदा॒हं तत् प्र॒जाप॑तौ +++(=चन्द्रमसि [छायारूपेण])+++ । वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघꣳ॑ रुदम् ।
संविष्टस्याभिमर्शनम्

उत्तरेण यजुषा +++(=“नामयति न रुदति”)+++ संविष्टम् ॥

०५ नामयति न ...{Loading}...

न +आम॑यति॒, न रु॑दति॒, यत्र॑ व॒यं व॑दामसि॒, यत्र॑ चा॒भिमृ॑शामसि ।

##‌ सूतकम्

उदकुम्भनिधानम्

१५ ०६ उत्तरेण यजुषा ...{Loading}...

उत्तरेण यजुषा शिरस्य् उदकुम्भं निधाय,

०६ आपस्सुप्तेषु जाग्रत ...{Loading}...

आप॑स्सु॒प्तेषु॑ जाग्रत॒ रक्षाꣳ॑सि॒ निरि॒तो नु॑दद्ध्वम् ।

सूतकहोमः

सर्षपान् फलीकरणमिश्रानञ्जलिनोत्तरैस् त्रिस्त्रि प्रतिस्वाहाकारं हुत्वा

हरदत्तो ऽत्र

  • +++(सर्षपान् फलीकरणमिश्रान् जुहोति।)+++
०७ अयङ् कलिम् ...{Loading}...

अ॒यं क॒लिं प॒तय॑न्त२ꣳ+++(=प्रतिगच्छन्तम्)+++ श्वा॒नम् इ॒वोद्-वृ॑द्धम् ।
अ॒जां वाशि॑ताम् इव मरुतः॒ पर्या॑द्ध्व॒२ꣳ॒+++(=पर्यास्यध्वम्)+++ स्वाहा॑ ।

०८ शण्डेरथश्शण्डिकेर उलूखलः ...{Loading}...

शण्डे॒रथ॒श्+++(शण्डो रथे यस्य)+++ शण्डि॑केर+++(शण्डिकम् बलम् ईरयति)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।

०९ अयश्शण्डो मर्क ...{Loading}...

अय॒श् शण्डो॒ मर्क॑
उप॒वीर॑+++(यमवेक्ष्यान्ये वीरा न्यूनाः)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।

१० केशिनीश्श्वलोमिनीः खजापोऽजोप ...{Loading}...

के॒शिनी॒श् श्वलो॒मिनीः॒ खजा॑पो॒+++(=खञ्जा =पङ्ग्वयो भूत्वाप्नुवन्ति)+++
ऽजोप॑काशिनीः+++(=अजनिभाः)+++ ।
अपे॑त॒ नश्य॑ताद् इ॒तस् स्वाहा॑ ।

११ मिश्रवाससः कौबेरका ...{Loading}...

मि॒श्रवा॑ससः कौबेर॒का
र॑क्षोरा॒जेन॒ प्रेषि॑ताः ।
ग्राम॒ꣳ॒ सजा॑नयो गच्छन्ती॒-
च्छन्तो॑ ऽपरि॒दाकृ॒तान्थ्+++(अनुपनीतान् - “अग्नये त्वा परिददामीति” तत्र मन्त्रः)+++ स्वाहा॑ ।

१२ एतान्घ्नतैतान्गृह्णीतेत्ययम् ...{Loading}...

ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒ते-
त्य् अ॒यं ब्रह्म॑णस्पु॒त्रः ।
तान् अ॒ग्निः पर्य॑सर॒त्
तान् इन्द्र॒स् तान् बृह॒स्पतिः॑ ।
तान् अ॒हं वे॑द ब्राह्म॒णः
प्र॑मृश॒तः कू॑टद॒न्तान्,
वि॑के॒शान् लं॑बनस्त॒नान्थ् स्वाहा॑ ॥ (13)

०१ नक्तञ्चारिण उरस्पेशाञ्छूलहस्तान्कपालपान् ...{Loading}...

न॒क्त॒ञ्चा॒रिण॑ उरस्पे॒शाञ्+++(=उरस्युज्ज्वलान्)+++
छू॑ल-ह॒स्तान् क॑पाल॒पान् ।
पूर्व॑ एषां पि॒ता +++(“ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒त”)++++इत्य्
उ॒च्चैश् श्रा॑व्य क॒र्णकः॑ ।
मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒
ग्रामे॑ विधु॒रम् इ॒च्छन्ती॒ स्वाहा॑ ।

०२ निशीथचारिणी स्वसा ...{Loading}...

नि॒शी॒थ॒चा॒रिणी॒ स्वसा॑
स॒न्धिना॒ प्रेक्ष॑ते॒ कुल॑म् ।
या स्वप॑न्तं बो॒धय॑ति॒
यस्यै॒ विजा॑तायां॒ मनः॑ ।
तासां॒ त्वं कृ॑ष्ण॒वर्त्म॑ने
क्लो॒मान॒ꣳ॒+++(=श्वासकोशः)+++ हृद॑यं॒ यकृ॑त्+++(=liver)+++ ।
अग्ने॒ अक्षी॑णि नि॒र्दह॒ स्वाहा॑ ।

+++(पिता)+++ संशास्ति- “प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपते"ति ६

१५ ०७ एवमहरहरानिर्दशतायाः ...{Loading}...

एवमहरहरानिर्दशतायाः +++(=“निर्दशा"निर्गता दशभ्योऽहोरात्रेभ्यो या रात्रिस्सा)+++७

प्रवासाद् एत्य

प्रवासादेत्य जातकर्म

१५ १२ प्रवासादेत्य ...{Loading}...

प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं +++(=अङ्गादङ्गात्)+++

०३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...

अङ्गा॑दङ्गा॒त् संभ॑वसि॒ हृद॑या॒दधि॑ जायसे । वे॒दो वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।

मूर्धन्यवघ्राणं +++(=अश्मा भव)+++ दक्षिणे कर्ण

मूर्धन्यवघ्राणम् -

०४ अश्मा भवेत्येषा ...{Loading}...
०१ अश्मा भव ...{Loading}...

अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।

कर्णे जपः

उत्तरान्मन्त्रान् +++(=अग्निरायुष्मान् स वनस्पतिभिः)+++ जपेत् १२

०५-०९ अग्निरायुष्मान्त्स वनस्पतिभिरायुष्मान्तेन ...{Loading}...

अ॒ग्निर् आयु॑ष्मा॒न्त्, स वन॒स्पति॑भि॒र् आयु॑ष्मा॒न्, तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि ।
सोम॒ आयु॑ष्मा॒न्त्, स ओष॑धीभि॒र् आयु॑ष्मा॒न्, तेन॒ …।
य॒ज्ञ आयु॑ष्मा॒न्त्, स दक्षि॑णाभि॒र् आयु॑ष्मा॒न्, तेन॒ …।
ब्रह्मायु॑ष्मत्, तद् ब्रा॑ह्म॒णैर् आयु॑ष्म॒त्, तेन॒ …।
दे॒वा आयु॑ष्मन्त॒स्, ते॑ऽमृते॒नायु॑ष्मन्त॒स्, तेन॒ …।
[पि॒तर॒ आयु॑ष्मन्त॒स् ते स्व॒धयायु॑ष्मन्त॒स्, तेन॒ …।]

कुमार्या अभिमन्त्रणम्

१५ १३ कुमारीमुत्तरेण ...{Loading}...

कुमारीमुत्तरेण यजुषा +++(“सर्व॑स्मादा॒त्मन॒स्संभू॑ताऽसि॒ सा जी॑व श॒रद॑श्श॒तम् । “)+++ ऽभिमन्त्रयते १३

१० सर्वस्मादात्मनस्सम्भूताऽसि सा ...{Loading}...

सर्व॑स्माद् आ॒त्मन॒स् संभू॑ताऽसि॒, सा जी॑व श॒रद॑श् श॒तम् ।

अन्न-प्राशनम् ...{Loading}...

१६ ०१ जन्मनोऽधि षष्ठे ...{Loading}...

जन्मनोऽधि षष्ठे मासि ब्राह्मणान् भोजयित्वाऽऽशिषो वाचयित्वा दधि मधु घृतमोदनमिति सँसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् ।

११ -१४ भूरपान् त्वौषधीनाम् ...{Loading}...

भूर् अ॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि।
शि॒वास्त॒ आप॒ ओष॑धयस् सन्त्व्,
अनमी॒वास्त॒ आप॒ ओष॑धयस् सन्त्व् असौ+++(→नामनिर्देशः)+++ ।

भुवो॒ऽपाꣳ …।
सुव॑र॒पां …।
भूर्भुव॒स्सुव॑र॒पां …।

तैत्तिरेण माँसेनेत्य् एके २

१६ ०२ तैत्तिरेण माँसेनेत्येके ...{Loading}...

तैत्तिरेण माँसेनेत्येके।