१५ अवान्तरदीक्षाविसर्जनम्

अत्र यजमानोऽवान्तरदीक्षां विसृजते । दीक्षितनियमलोपप्रायश्चित्तानि कृत्वा । अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूस्त्वय्यभूदियꣳ सा मयि या तव तनूर्मय्यभूदेषा सा त्वयि यथायथं नौ व्रतपते व्रतिनोर्व्रतानि आहवनीयमुपतिष्ठते । वितरां मेखलां विस्रंसते । वितरां मुष्टी कर्षते । स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्यां, स्वाहोरोरन्तरिक्षात्, स्वाहा यज्ञं वातादारभे मुष्टी विसृजते । स्वाहा वाचि वाते विसृजे वाचं विसृजते । निवर्तते व्रतम् । हविश्शेषान् सोमान् सुत्येऽहनि भक्षयति । आग्नीध्रः - उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति । दक्षिणमिध्ममुत्तरं बर्हिः । यजमानः :- ऊर्णामृदु । अध्वर्युः :- प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते । आपो देवीः इत्यादि । स्तरणकाले अपरेणोत्तरवेदिं बर्हिस्तृणाति । स्तरणमन्त्रोऽभ्यावर्तते । आज्यानां सादनादि पाशुकं कर्म प्रतिपद्यते । आ वपाया होमात् ।