०४ सौम्यव्रतम्

अथापराह्णे ग्रामाद्बहिः प्राणानायम्य, अमुक-गोत्रममुकशर्माणं माणवकं सौम्यव्रतेन कर्मणा संस्करिष्यामीति सङ्कल्प्य कृतप्राणायामं शिष्यं सौम्यव्रतं चरिष्यामीति वाचयित्वा, उपवीतादि धारयित्वा, स्नानपूर्वकं सोमं काण्डर्षिं तर्पयामि, साँहितीर्देवता उपनिषदस्तर्पयामि, याज्ञिकीः वारुणीः ब्रह्माणँस्वयम्भुवं सदसस्पतिं च तर्पयित्वा, अग्निप्रतिष्ठादि पात्रसादनान्ते चतस्र औदुम्बरीस्समिधः(म्) उदकुम्भं नव वस्त्रं च सादयित्वा, अग्निमुखान्ते शिष्येणान्वारब्धः, सोमाय काण्डर्षये स्वाहा, सोमाय काण्डर्षय इदम् ।

सोमो धेनुँ सोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु ।
सादन्यं विदथ्यँ सभेयम् । पितुश्श्रवणं यो ददाशदस्मै स्वाहा - सोमायेदम् ।
अषाढँयुत्सु पृतनासु पप्रिम् । सुवर्षामफ्स्वां व्रजनस्य गोपाम् । भरेषुजाँसुक्षितिँ सुश्रवसं जयन्तं त्वामनुमदेम सोम स्वाहा - सोमायेदम् ।
त्वँसोम क्रतुभिस्सुक्रतुर्भूः त्वं दक्षैस्सुदक्षो विश्ववेदाः ।
त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः स्वाहा - सोमायेदम् ।
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञं गयस्फानः प्रतरणस्सुवीरो वीरहा प्रचरा सोम दुर्यान्थ्स्वाहा - सोमायेदम् ।
त्वमिमा ओषधीस्सोम विश्वाः त्वमपो अजनयस्त्वङ्गाः त्वमाततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वितमो ववर्थ स्वाहा - सोमायेदम् ।

[[90]]

या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वफ्सु तेभिर्नो विश्वैस्सुमना अहेडन् राजन्थ्सोम प्रतिहव्या गृभाय स्वाहा - सोमायेदम् ।

साँहितीभ्यो याज्ञिकीभ्यो वारुणीभ्यो ब्रह्मणे स्वयम्भुवे सदसस्पतये च हुत्वा, ततश्शिष्योऽग्नेः पुरस्तात् धान्योपरि स्थापितं सोदकं सकूर्चं वस्त्रवेष्टितं कुम्भमुपस्पृश्य,

नमो वाचे या चोदिता याचानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मामामृषयो मन्त्रकृतो मन्त्रपतयः परादुर्माहमृषीन्मन्त्रकृतो मन्त्रपतीन् परादां वैश्वदेवीं वाचमुद्यासँ शिवामदस्तां जुष्टां देवेभ्यश्शर्म मे द्यौश्शर्म पृथिवी शर्म विश्वमिदं जगत् । शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती । भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टं मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासँ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु । ओं शान्तिः शान्तिः शान्तिः ।

इत्यनुवाकं जपित्वा, अग्नेः पश्चात्तिष्ठन्

पृथिवी समित् अन्तरिक्षँ समित् द्यौस्समित् प्राजापत्या मे समिदसि

इति चतुर्भिः आमूलाग्रम् आज्याभ्यक्ताश्चतस्रः औदुम्बरीः समिधोऽग्नावादधाति ।

पृथिवी समित् । तामग्निस्समिन्धे । साग्निँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा - पृथिव्या इदम् ।
अन्तरिक्षँसमित् । ताव्ँवायुस्समिन्धे । सा वायुँसमिन्धे । तामहँसमिन्धे । सा मा समिद्धा | आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँस्वाहा - अन्तरिक्षायेदम् ।

[[91]]

द्यौस्समित् । तामादित्यस्समिन्धे । सादित्यँ समिन्धे । तामहँ - समिन्धे । सा मा समिद्धा | आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा - दिव इदम् ।

प्राजापत्या मे समिदसि सपत्नक्षयणी । भ्रातृव्यहा मेऽसि स्वाहा - प्रजापतय इदम् ।
अग्ने व्रतपते काण्डर्षिभ्यः सौम्यव्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते काण्डर्षिभ्यः सौम्यव्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । आदित्यव्रतपते काण्डर्षिभ्यः सौम्यव्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते काण्डर्षिभ्यः सौम्यव्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् ।

इत्युपतिष्ठेत् ।

अथाचार्यः “युञ्जते मन” इत्यादीनां “देवा वै सत्रमासते"त्यादीनां चानुवाकानां प्रथमपदानि युञ्जते सवितेति पदद्वयं वा शिष्यं वाचयित्वा ।

तत्प्रकारः - युञ्जते-वृष्णः-ब्रह्मन्-ब्रह्मन्-दश-अपश्यं-देवस्य-समुद्राय-इषे-घर्म-महीनाम्-अस्कान्-या-प्राणाय-पूष्णे-उत्-याः-अग्निः-भूः-भूः-याः-स्निक्-धुनिः-उग्रः-अहोरात्रे-खट्-विगाः-असृङ्मुखः-यत्-यत्-दीर्घमुखि-इत्थात्-यत्-प्रसार्य-अत्रिणा-आब्रह्मण-उत्-भूः-पृथिवी-शं-देवाः-सावित्रंपरिश्रिते-ब्रह्मन्-अग्निः-शिरः-देवस्य-विश्वाः-घर्म-प्रजापतिं-प्रजापतिः-सविता ॥

युञ्जते सवितेति वा पदद्वयं वाचयित्वा, जयाद्यग्न्युपस्थानान्तं कुर्यात् । ततः शिष्य उदकुम्भमुपस्पृश्य

शन्नो वातः पवतां मातरिश्वा शन्नस्तपतु सूर्यः । अहानि शम्भवन्तु नः शँरात्रिः प्रतिधीयताम् । शमुषा नो व्युच्छतु शमादित्य उदेतु नः ।

[[92]]

शिवानश्शन्तमा भव सुमृडीका सरस्वति । मा ते व्योम सन्दृशि । इडायैवास्त्वसि वास्तुमद्वास्तुमन्तो भूयास्म मा वास्तोश्छिथ्स्मह्यवास्तुस्सभूयाद्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठायाश्छित्स्मह्यप्रतिष्ठस्सभूयाद्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः । आवात वाहि भेषजं विवात वाहि यद्रपः । त्वँहि विश्वभेषजो देवानां दूत ईयसे । द्वाविमौ वातौ वात आसिन्धोरापरावतः । दक्षं मे अन्य आवातु परान्यो वातु यद्रपः । यददो वात ते गृहेऽमृतस्य निधिर्हितः । ततो नो देहि जीवसे ततो नो धेहि भेषजम् । ततो नो मह आवह वात आवातु भेषजम् । शम्भूर्मयोभूर्नो हृदे प्रण आयूँषि तारिषत् । इन्द्रस्य गृहोऽसि तं त्वा प्रपद्ये सगुस्साश्वः । सह यन्मे अस्ति तेन । भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये वायुं प्रपद्येऽनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्म प्रपद्य ओम्प्रपद्ये । अन्तरिक्षम्म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातः स्वस्त्या स्वस्तिमान्तया स्वस्त्या स्वस्तिमानसानि । प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टं मयि मेधां मयि प्रजां मय्यग्निः तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयिप्रजां मयि सूर्यो भ्राजो दधातु । द्युभिरक्तुभिः परिपातमस्मान् अरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः । कयानश्चित्र आभुवदूती सदावृधस्सखा । कया शचिष्ठया वृता । कस्त्वा सत्यो मदानां मँहिँष्ठो मथ्सदन्धसः । दृढाचिदारुजे वसु । अभीषुणस्सखीनाम् अविता जरितॄणाम् । शतं भवास्यूतिभिः । वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अपध्वान्तमूर्णुहि पूर्द्धि चक्षुर्मुभुग्ध्यस्मान्निधयेवबद्धान् ।

[[93]]

शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शय्ँयोरभिस्रवन्तु नः । ईशानावार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् । सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः । आपो हिष्ठा मयो भुवस्तान ऊर्जे दधातन । महेरणाय चक्षसे । यो वश्शिवतमो रसस्तस्यभाजयतेहनः । उशतीरिव मातरः । तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ।
पृथिवी शान्ता साग्निना शान्ता सा मे शान्ता शुचँशमयतु ।
अन्तरिक्षँ शान्तं तद्वायुना शान्तं तन्मे शान्तँशुचँशमयतु ।
द्यौश्शान्ता सादित्येन शान्ता सा मे शान्ता शुचँ शमयतु ।
पृथिवी शान्तिरन्तरिक्षँ शान्तिर्द्यौश्शान्तिर्दिशश्शान्तिरवान्तरदिशाश्शान्तिरग्निश्शान्तिर्वायुश्शान्तिरादित्यश्शान्तिश्चन्द्रमाश्शान्तिर्नक्षत्राणि शान्तिरापश्शान्तिरोषधयश्शान्तिर्वनस्पतयश्शान्तिर्गौश्शान्तिरजा शान्तिरश्वश्शान्तिःपुरुषश्शान्तिर्ब्रह्मशान्तिर्ब्राह्मणश्शान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः ।
तयाहँशान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिं करोमि शान्तिर्मे अस्तु शान्तिः ।
एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मोत्तिष्ठन्तमनूत्तिष्ठन्तु मामाँ श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मामाहासिषुः ।
उदायुषा स्वायुषोदोषधीनाँरसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अनु ।
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ।
पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतँ शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीता स्यामः शरदश्शतं ज्योक्च सूर्यं दृशे ।
य उदगान्महतोर्णवाद्विभ्राजमानस्सरिरस्य मध्यात्समावृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ।

[[94]]

ब्रह्मणश्चोतन्यसि ब्रह्मण आणीस्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा मही धारितमेनेन महदन्तरिक्षं दिवं दाधार पृथिवीँ सदेवाय्ँयदहं वेद तदहं धारयाणि मामद्वेदोऽधि विस्रसत् । मेधामनीषे माविशताँ समीची भूतस्य भव्यस्यावरुद्धै सर्वमायुरयाणि सर्वमायुरयाणि । आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रारुजासि भूयिष्ठभाजो अथते स्याम । ब्रह्म प्रावादिष्म तन्नो माहासीत् । ओं शान्तिश्शान्तिश्शान्तिः

इत्यनुवाकं जपित्वा, वाचं यच्छेत् ।।

अथाचार्यः शिष्यस्य मुखं शिरो नववस्त्रेण प्रदक्षिणं वेष्टयित्वा, अस्तमिते ग्रामं प्रापयेत् । तां रात्रिं शिष्यो वाग्यतस्तिष्ठेदासीत वा । श्वो भूते ग्रामाद्वहिः गत्वा, शिरोवेष्टनवस्त्रमपनीय, आचार्याय दत्वा, अग्निमुदकुम्भमादित्यमाकाशं गिरिं वत्सं सुवर्णं च यथासम्भवम् आचार्यदर्शितं दृष्ट्वा,

वयस्सुपर्णाउपसेदुरिन्द्रं प्रियमेधा ऋषयो नाथमानाः ।
अपध्वान्तमूर्णुहि पूर्द्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥

इत्यादित्यमुपतिष्ठेत । आचार्यः अभ्युदयं पुण्याहं च कुर्यात् ।

सौम्यव्रतोत्सर्जनम्

आचार्यः अमुक-गोत्रममुकशर्माणं माणवकं सौम्यव्रतोत्सर्जनेन कर्मणा संस्करिष्यामीति सङ्कल्प्य, माणवकं च सौम्यव्रतोत्सर्जनं चरिष्यामीति वाचयित्वा, वस्त्रादिधारणस्नानतर्पणादि पूर्ववत् कारयित्वा, अग्निप्रतिष्ठादि पात्रसादनान्ते, चतस्रः औदुम्बरीस्समिध उदकुम्भं च सादयित्वा, अग्निमुखान्ते शिष्येणान्वारब्धः,

सोमाय काण्डर्षये स्वाहेत्यादि, सोमो धेनुम्, अषाढं युथ्सु, त्वँसोमक्रतुभिः, याते धामानि हविषा, त्वमिमा ओषधीस्सोम, या ते धामानि दिवि या, साँहितीर्याज्ञिकीर्वारुणीः ब्रह्माणँस्वयम्भुवं सदसस्पतिं

पूर्ववत् प्रधानाहुतीश्च जुहुयात् । ततः शिष्यः पूर्ववत् कुम्भमुपस्पृश्य, “नमो वाच" इत्यनुवाकं जपित्वा,

[[95]]

अग्नेः पश्चात्तिष्ठन्,

द्यौस्समित् । तामादित्यस्समिन्धे । सादित्यँ समिन्धे । तामहँसमिन्धे । सामासमिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँस्वाहा - दिव इदम् । अन्तरिक्षँ समित् । तां वायुस्समिन्धे । सा वायुँसमिन्धे । तामहँसमिन्धे । सा मा समिद्धा | आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा अन्तरिक्षायेदम् । पृथिवी समित् । तामग्निस्समिन्धे । साग्निँसमिन्धे । तामहँसमिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँस्वाहा - पृथिव्या इदम् । प्राजापत्या मे समिदसि सपत्नक्षयणी । भ्रातृव्यहा मेऽसि स्वाहा - प्रजापतय इदम् । इति समिध आधाय,

आदित्यव्रतपते काण्डर्षिभ्यः । सौम्यव्रतमचारिषम् । तदशकन्तन्मे राधि । वायो व्रतपते काण्डर्षिभ्यः । सौम्यव्रतमचारिषम् । तदशकन्तन्मे राधि । अग्ने व्रतपते काण्डर्षिभ्यः । सौम्यव्रतमचारिषम् । तदशकन्तन्मे राधि । व्रतानां व्रतपते काण्डर्षिभ्यः । सौम्यव्रतमचारिषम् । तदशकन्तन्मे राधि ।

इत्यग्निमुपस्थाप्य, आचार्यः जयाद्यग्न्युपस्थानान्तं कुर्यात्, शिष्यः कुम्भमुपस्पृश्य “शन्नो वातः पवताम्”इत्यनुवाकं जपेत् । अथाचार्यः अभ्युदयं पुण्याहं च कुर्यात् ॥