१५ प्रोषित-कृत्य-विषयः

प्रोषितयोर्मातापित्रोः पञ्चदशवर्ष पर्यन्तं वार्ताऽनाकर्णने, षोडशे सम्प्राप्ते आषाढादि पैतृकमासेषु चतुर्षु अन्यतमे मासे कृष्णाष्टमी, कृष्णैकादशी दर्शेषु अन्यतरस्यां तिथ्यां नारायण बलिं कृत्वा प्रतिकृति दाहेन संस्कृत्य दशरात्रमुदकदानाद्यानन्दहोमान्तं कृत्वा एकादशाहे, एकोद्दिष्टं, द्वादशाहे सापिण्ड्यं, तथा तत्तत्काले ऊनमासिकादीनि अनुष्ठाय यस्मिन्मासि, यस्यां तिथ्यां कर्म आरब्धं, सैवतस्य (तस्याः) तिथिरिति निश्चित्य आब्दिकप्रत्याब्दिकानि अनुतिष्ठेत् ॥

मातृपितृ व्यतिरिक्त बन्धु वर्गेषु प्रोषित विषये त्रयोदशे वर्षे पूर्वोक्त पैतृकमासेषु नारायण बलिं कृत्वा प्रतिकृतिदाहं कुर्यात् । अत्र तृतीये दिन एव उदकदान पिण्डबलि प्रभूत बलि समाप्ति: । आनन्द होमश्च । तुरीयेऽहनि एकोद्दिष्टं । पञ्चमेऽहनि सापिण्ड्यमिति निर्णयः । ततः यथाक्रमं मासिकाद्यनुष्ठानम् ॥

195

196

अपरप्रयोगः

15 ப்ரோஷித க்ருத்ய விஷயம்

தேசாந்தரம் சென்றிருந்த தாய், தகப்பன் இவர்களின் இருப்பிடம் அறிய முடியாதபடி ஆகிவிட்டால் பதினைந்து வருடங்களுக்குப் பிறகு 16வது வருடத்தில் ஆடி, புரட்டாசி, மார்கழி, மாசி மாதங்களில் கிருஷ்ண அஷ்டமி, கிருஷ்ண ஏகாதசி, அமாவாஸ்யை இவைகளில் ஏதாவது ஒரு திதியை அவர்களின் மரண திதியாகக் கொண்டு முதலில் நாராயண பலியைச் செய்து பிரதிகிருதி தாஹத்தினால் ஸம்ஸ்காரம் செய்து, தசராத்ரம், ஆசௌசம் அனுஷ்டித்து க்ரமப்படி பிரதம தினத்திலேயே பாஷாண ஸ்தாபனாதிகளைச் செய்து, 11வது தினம், ஏகாஹம், 12வது தினம் ஸபிண்டீகரணம் செய்ய வேண்டும். பிறகு மாதாந்த்ர ஊன மாஸிகாதிகள்; அடுத்த வருடம் அதே திதியில் ஆப்திகம்; க்ரமமாக ப்ரத்யாப்திகாதிகளை அனுஷ்டித்து வர வேண்டும்.

மாதா பிதாக்கள் தவிர, இதரர்களின் தேசாந்த்ர கமனத்தின் நிலையை அறியாத விஷயத்தில் 12 வருடங்கள் முடிந்ததும், 13வது வருடத்தில் மேலே குறிப்பிட்ட மாதங்களில் மேலே குறிப்பிட்ட திதிகளில் நாராயண பலி, பிரதிகிருதி ஸம்ஸ்காரம் இவைகளைச் செய்து மூன்றாவது தினத்தில் தசம தின க்ருத்யம், நான்காவது தினத்தில் ஏகாஹம், ஐந்தாவது தினத்தில் ஸபிண்டீகரணம் செய்ய வேண்டும். பிறகு க்ரமப்படி ஊன மாஸாதிகளைச் செய்து ஆப்திக ப்ரத்யாப்திகங்களைச் செய்ய வேண்டும்.

197

अपरप्रयोगः

आहूय कर्मादौ पूर्वदिवसे मृतस्यैतद्द्विजन्मनः । प्रायश्चित्तं तदा कृत्वा धर्मशास्त्रोक्तमार्गतः । विप्रान्गणशश्चतुर्विशतिमादरात् । तदर्धं वा तदर्धं वा संपाद्यश्रुति पारगान् । अभ्यर्च्यगन्धवस्त्राद्यै रामं वास्वर्णमेवा || करिष्येऽहं मृतस्यास्य बलिं नारायणात्मकम् । लौकिकाग्निं प्रतिष्ठाप्य परिस्तीर्य विघानतः । स्रुवेणाज्यं समादाय व्याहृतीरुच्चरन्हृदि । पृथक्पृथक्च्छतं हुत्वा सङ्ख्यामेकां समुद्वहन् । व्याहृतीनां त्रयं हुत्वा पृथगनौ विधानतः । सङ्ख्यामेकां त्र्यं कृत्वा ह्यष्टोत्तर शतं क्रमात् । हुत्वैवं विधिवद्विप्रो होम शेषं समापयेत् । ब्राह्मणान्समलङ्कृत्य पूर्वोोक्ते न विधानतः । चतुर्विंशति नामानि केशवादीनि वैक्रमात् । चतुर्विंशति विप्राणां प्रत्येकं विनियोजयेत् । द्वादश ब्राह्मण पक्षे नाम द्वयं ।

अपरप्रयोगः

षड् ब्राह्मण पक्षेनामचतुष्टयं चतुर्ब्राह्मण पक्षे नाम षट्कं । ब्राह्मण त्रय पक्षे नामाष्टकं ।

इति यथासम्भवं यथा सङ्ख्यं विनियोजयेत् । तण्डुलांश्चैव मुद्गाश्चमाषान्शाकं घृतं दधि । ताम्बूलं दक्षिणाञ्चैव विप्रेभ्यः परिकल्पयेत्। नान्नेन तोषयेद्विप्रान् अधिकारो नदृश्यते । यथा सपिण्डनं भूयाद्दुर्मृतस्य द्विजन्मनः । न तावदन्नं कर्तव्यं विप्रैरध्यात्म वेदिभिः । तदा विप्रैर्न भोक्तव्यं यदि भुङ्क्ते स पातकी। जातकर्मणि विप्रस्य दुर्मृतस्य द्विजन्मनः। नारायण बलौ चैव नान्न श्राद्दं समाचरेत् ।। हिरण्येनैव धान्यैर्वाकुर्याच्छ्राद्धं विधानतः । अन्नेन कारयेद्यस्तु सचण्डाल समोभवेत् ॥

दुर्मृतानां द्विजन्मनां परलोकहितार्थं कर्मादौ आमेन हिरण्येन वा, “नारायण बलिं करिष्यामि’ इति सङक्ल्प्य कर्म कुर्यात् ।।

198

199

अपरप्रयोगः

तत्प्रयोगः सङ्ग्रहेण विलिख्यते । सर्वमुपवीत्येव । अनुज्ञां प्रार्थ्य सङ्कल्पयेत् । कृच्छ्रञ्चचरेत् । यथा सम्भवं ब्राह्मणान्वृणुयात्।

अस्मिन्नारायण बलि श्राद्धे केशवाय नमः, इति केशव, नारायण, माधव, गोविन्द, विष्णु, मधुसूदनेभ्यो नमः । त्रिविक्रिमवामन श्रीधर हृषीकेश पद्मनाभ दामोदरेभ्यो नमः । वासुदेव, सङ्कर्षण, प्रद्युम्र, अनिरुद्ध, पुरुषोत्तम, अधोक्षजेभ्यो नमः । नारसिंह, अच्यत, जनार्दन, उपेन्द्र, हरि, श्रीकृष्णेभ्यो नमः इत्येवं क्रमेण वृत्वा आसानादीन्समर्प्य एकस्मिन् चतुर • मण्डले पादप्रक्षालनं कुर्यात् । स्वयञ्च पादौ प्रक्षाल्य द्विराचामेत् । विप्रां श्वाचामयेत् । क्रमशः गन्धाद्युपचारान्समर्पयेत् । अग्निप्रतिष्ठादि चतुष्पात्र प्रयोगः । (अग्निसन्धान प्रयोगवत् दर्वी संस्कारान्तं कुर्यात् ॥) परिषेचनं । भूः स्वाहा १०८, भुवस्स्वाहा॑ १०८, सुवस्स्वाहा॑ १०८, ओं भूर्भुवस्सुव॒स्स्वाहा॑ १०८ । अनाज्ञात त्रयं व्याहृति चतुष्टयं । पूर्णाहुतिः ( श्री विष्णवे स्वाहा॑ ) परिषेचनं उपस्थानं । तण्डुलादीन् केशव प्रीतिं (केशवादि प्रीतिं कामयमानः तुभ्यमहं सम्प्रददे । एकदत्ते अनेन यत्किञ्चिद्धिरण्य सहित आमरूपेन नारायण बलि कर्मणा नारायण: प्रीयताम् इति तुलसी मिश्रित साक्षतं जलं प्रागग्रेषु दर्भेषु निनयेत्॥ एवं प्रकारेणैव कन्याबालयोः द्वादशाहे कर्तव्य नारायण बलिंश्च ।।

अपरप्रयोगः परिसमाप्तः