३६ तृतीयदिनस्य कर्मारम्भः

उपोदये अग्नीन्ज्योतिष्मतः कुरुतेत्यादि । वाग्विसर्गे कृते पूर्ववत् पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति । अपीपरो मा रात्रिया अह्नो मा पाहि इति समिदाधानम् । भूर्भुवस्सुवः सूर्यो ज्योति र्ज्योतिस्सूर्यस्स्वाहा इति होमः । या ते अग्ने रजाशया तनूर्वर्षिष्ठा गह्वरेष्ठोऽग्रं वचो अपावधीन्त्वेषं वचो अपावधीꣳ स्वाहा इत्युपसद्धोमः । अग्ने रजाशयायै तन्वा इदम् २ ।