०१ रेखा-कर्षः

अथोदकशान्तिः

गर्भाधानादिषु पूर्वेद्युः
“उदकशान्ति-जप-कर्म करिष्य” इति सङ्कल्प्य
गोमयेन चतुर्-अश्रम् उपलिप्य

प्राचीः

तत्र ‘ब्रह्मजज्ञानम्’ इति मध्ये,
‘नाके सुपर्णम्’ इति दक्षिणतः,
‘आप्यायस्वे’त्य् उत्तरतः
प्राचीस् तिस्रो रेखाः

०३ ब्रह्म जज्ञानम् ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

०६ नाके सुपर्णमुप ...{Loading}...

नाके॑ सुप॒र्णम् +++(→सूर्यं)+++ उप॒ यत् पत॑न्तं
हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
हिर॑ण्य-पक्षं॒ +++(शतभिषक्-स्थ-)+++वरु॑णस्य दू॒तं
य॒मस्य॒ योनौ॑ +++(→भरण्यां)+++ शकु॒नं भु॑र॒ण्युम्+++(←भृ)+++ ॥

०४ आ प्यायस्व ...{Loading}...

आ प्या॑यस्व॒ समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य सङ्ग॒थे+++(=संगमने)+++ ॥

उदीचीः

‘यो रुद्रो अग्नौ’ इति मध्ये,
‘इदं विष्णु’रिति पश्चात्,
‘इन्द्रं विश्वा अवीवृधन्’ इति पुरस्ताद्
उदीचीः तिस्रो रेखा विलिख्य

38 यो रुद्रो ...{Loading}...

यो रु॒द्रो अ॒ग्नौ , यो अ॒फ्सु ,
य ओष॑धीषु॒, यो रु॒द्रो
विश्वा॒ भुव॑ना वि॒वेश॒
तस्मै॑ रु॒द्राय॒ नमो॑ अ॒स्तु

१७ इदं विष्णुर्वि ...{Loading}...

इ॒दव्ँ विष्णु॒र् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि च॑क्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रे॒धा नि द॑धे प॒दम् ।
+++(तैर् आधारैर् जगत्)+++ सम् ऊ॑ढम् अस्य पाꣳसु॒रे +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥

०१ इन्द्रं विश्वा ...{Loading}...

इन्द्रं॒ विश्वा॑ अवीवृधन्त्
समु॒द्र+++(वत्)+++-व्य॑चसं॒ गिरः॑ ।
र॒थीत॑मं र॒थीनां॒,
वाजा॑नां॒ सत्-प॑तिं॒ पति॑म् ॥