२३ अग्निमन्थनम्

अग्नेर्जनित्रमसि अधिमन्थनशकलं निदधाति । वृषणौ स्थ: प्राञ्चौ दर्भौ । उर्वश्यसि अधरारणिमादत्ते । पुरूरवाः उत्तरारणिम् । देवो वाꣳ सविता मध्वानक्तु आज्यस्थाल्या उभे बिले अङ्क्त्वा । घृतेनाक्ते वृषणं दधाथाम् उभे अभिमन्त्र्य । आयुरसि समवधाय । अग्नये मथ्यमानायानुब्रू३हि इति संप्रेष्यति । प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनु प्र जायस्व प्रथमम् । त्रैष्टुभं छन्दोऽनु प्र जायस्व द्वितीयम् । जागतं छन्दोऽनु प्र जायस्व तृतीयम् । ततो यथा प्राशु मन्थति । जातायानुब्रू३हि जाते संप्रेष्यति । प्रह्रियमाणायानुऽब्रू३हि प्रहरन् संप्रेष्यति । भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः अग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा । अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधि राज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानां मिथुया कर्भागधेयꣳ स्वाहा । प्रविष्टायाग्नय इदम् । प्रहृत्य स्रुवेणाभि जुहोति ।