३१ ‘अग्निर्नःपातु',

१ देवनक्षत्राणां याज्यानुवाक्याः ...{Loading}...

विश्वास-टिप्पनी
  • zodiac = ऋतस्य पन्था +इति बालगङ्गाधरः।
  • टीकाः - तैत्तिरीयब्राह्मणभाष्ये सायणीय अत्र
  • सर्वस्मिन् भागय् आदिमा ऋक् पुरोनुवाक्या होत्रा - ऽध्वर्युणा चोदितेन - वाच्या। अपरा याज्या ऽध्वर्युणा।
भास्करोक्त-विनियोगः

1’अग्निर्वा अकामयत’ इत्यत्राम्नातानां नक्षत्रेष्टीनां क्रमेण याज्यानुवाक्ये द्वेद्वे अग्निर्नः पात्वित्याद्याः ॥ प्रथमा अनुष्टुभः । अन्त्याः त्रिष्टुभः । वैश्वदेवं काण्डं समस्तोऽयं प्रश्नः ।

कृत्तिकाः - अग्निः
01 अग्निर्नᳶ पातु ...{Loading}...

अ॒ग्निर् नᳶ॑ पातु॒ कृत्ति॑काः। नक्ष॑त्रन् दे॒वम् +++(=द्योतमानम्)+++ इ॑न्द्रि॒यम्।
इ॒दम् आ॑साव्ँ विचक्ष॒णम्। ह॒विर् आ॒सञ् जु॑होत न।

01 अग्निर्नᳶ पातु ...{Loading}...
मूलम्

अ॒ग्निर्न॑ᳶ पातु॒ कृत्ति॑काः ।
नख्ष॑त्रन्दे॒वमि॑न्द्रि॒यम् ।
इ॒दमा॑साव्ँविचख्ष॒णम् ।
ह॒विरा॒सञ्जु॑होतन ।

भट्टभास्कर-टीका

तत्र कृत्तिकानाम् - अग्निः देवता नः अस्मान् पातु रक्षतु कृत्तिकाश्च नक्षत्त्रं पातु । देवं देवनशीलं इन्द्रियं इन्द्रियवत् इन्द्रेण वा दृष्टम् ॥ आसां कृत्तिकानां अग्रेश्च आसन् आस्ये । ‘पद्दन्’ इत्यादिना आसन्भावः । इदं विचक्षणं विविधप्रकाशसाधनं हविः जुहोतन जुहुत । तप्तनादिना तनबादेशः ॥

02 यस्य भान्ति ...{Loading}...

यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑।
यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा॑।
स कृत्ति॑काभिर् अ॒भि सव्ँ॒वसा॑नः।
अ॒ग्निर् नो॑ +++(=अस्मान्)+++ दे॒वस् सु॑वि॒ते +++(=सुप्राप्ते {कर्मफले})+++ द॑धातु

विश्वास-टिप्पनी

सुविते - अन्तोदात्तः - सूपमानात् क्तः

02 यस्य भान्ति ...{Loading}...
मूलम्

यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ ।
यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ ।
स कृत्ति॑काभिर॒भि स॒व्ँवसा॑नः ।
अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ।

भट्टभास्कर-टीका

2यस्य भान्तीति ॥ रश्मयः ज्वालाः केतवः धूमाः द्युतयो वा भान्तीत्येव । यस्य च स्वरूपाणि सर्वप्रकाराणि इमानि विश्वानि भुवनानि भूतजातानि,
सः अग्निः देवः कृत्तिकाभिः** आभिमुख्येन संवसानः सहवसन् ।
संवसतेर् व्यत्ययेनात्मनेपदम् । मुक्च पाक्षिकम् उक्तम् । अद्-उपदेशाल् लसार्वधातुकानुदात्तत्वे धातुस्वरः ।
यद्वा - कृत्तिकाभिः आत्मानं अभि संछादयन् ताभिः परिवृतत्वात् ।
अनुदात्तेत्त्वात् लसर्वधातुकानुदात्तत्वम् ।
नः अस्मान् सुविते सुष्ठु इते प्राप्ते फले दधातु स्थापयतु ।
‘सूपमानात् क्तः’ इत्यन्तोदात्तत्वम् । छान्दसो वकारोपजनः+++(??)+++, तन्वादित्वाद् वा, अनुपसर्ग-सूतेर्वा निष्ठायां छान्दसः इडागमः ॥

{अ॒ग्नये॒ स्वाहा॒, कृत्ति॑काभ्यः॒ स्वाहा॑।
अ॒म्बायै॒ स्वाहा॑।
दु॒लायै॒ स्वाहा॑।
नि॒त॒न्त्यै स्वाहा॑।
अ॒भ्रय॑न्तै॒ स्वाहा॑।
मे॒घय॑न्त्यै॒ स्वाहा॑।
व॒र्ष॒य॑न्त्यै॒ स्वाहा॑।
चु॒पु॒णिका॑यै॒ स्वाहा॑।}

०१ कृत्तिकाः ...{Loading}...
विश्वास-टिप्पनी

+++(Pleiades)+++

  • अत्र विषुवदिनम् इति तैत्तिरीयब्राह्मणाद् अनुमेयम् ~ २३०० BCE।
मानसतरङ्गिणीकृत्
  • in Greek tradition there was an older record of 7 with Aratus claiming that one of them had faded away. This is generally believed to be Ambā (Greek Pleione/ 28 Tauri). - (MT)
रोहिणी - प्रजापतिः
03 प्रजापते रोहिणी ...{Loading}...

प्र॒जाप॑ते+++(ः)+++ रोहि॒णी वे॑तु॒ +++(=भुङ्क्ताम्)+++ पत्नी॑। वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः।
सा नो॑ य॒ज्ञस्य॑ सुवि॒ते+++(=सुप्राप्ते {कर्मफले})+++ द॑धातु। यथा॒ जीवे॑म श॒रद॒स् सवी॑राः।

विश्वास-टिप्पनी

जीवे॑म - “तास्यनुदात्तेन्ङिददुपदेशाल् लसार्वधातुकम् अनुदात्तम् अन्विङोः” इत्य् अनुदात्तः प्रत्ययः

03 प्रजापते रोहिणी ...{Loading}...
मूलम्

प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी᳚ ।
वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ॥1॥
सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु ।
यथा॒ जीवे॑म श॒रद॒स्सवी॑राः ।

भट्टभास्कर-टीका

3रोहिण्याः - प्रजापतेरिति ॥ प्रजापतेः स्वभूता रोहिणी नक्षत्रं पत्नी पालयित्री यज्ञस्य विश्वरूपा विश्वरूपैः उत्पाद्यैः तद्वती बृहती परिबृढा चित्रभानुः चायनीयदीप्तिः सा इदं हविः वेतु भुङ्क्ताम् । नः अस्मान् यज्ञस्य सुविते सुगमे फले दधातु, यथा वयं जीवेम शरदः बहून् संवत्सरान् सवीराः पुत्रपौत्रसहिताः ॥

04 रोहिणी ...{Loading}...

रो॒हि॒णी दे॒व्य् उद॑गात् पु॒रस्ता॑त्।
विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना।
प्र॒जाप॑तिꣳ ह॒विषा॑ व॒र्धय॑न्ती
प्रि॒या दे॒वाना॒म् उप॑यातु य॒ज्ञम्

04 रोहिणी ...{Loading}...
मूलम्

रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता᳚त् ।
विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना ।
प्र॒जाप॑तिꣳ ह॒विषा॑ व॒र्धय॑न्ती ।
प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् ।

भट्टभास्कर-टीका

4रोहिणी देवी द्योतमाना पुरस्तात् प्राच्यां उदगात् उदेति । छान्दसो लुङ् । किं कुर्वती? विश्वानि रूपाणि रूपवतो भावान् प्रतिमोदमाना प्रत्येकं वा मोदयित्री प्रजापतिं आत्मानं च हविषा वर्धयन्ती प्रिया प्रीणयित्री अस्माकं यज्ञं उपयातु ॥

{प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा॑।
रोच॑मानायै॒ स्वाहा॑ प्र॒जाभ्यः॒ स्वाहा॑।}

०२ रोहिणी ...{Loading}...
विश्वास-टिप्पनी

+++(Aldebaran। )+++

  • रोहिद्वर्णा नाम्नैव। ब्रह्महृदयं = capella = β taurii खलु रोहिणीशकटे (Taurus-मुखम्) वर्तते।
  • “prajāpatī rohiņyām agnim asŕjata” इति तैत्तिरीयब्राह्मणे। प्रजापति-रोहिणी-सङ्गमतः कृत्तिकास्व् अग्निर् जात इति कृत्वा तान्त्रिकाग्निमुखे दैवतसङ्गमेनाग्निं जायमानम् भावयन्तीति कस्तूरिरङ्गः।
  • प्रजापतिः पुरा मृगशीर्षेण सम्बद्धः, पश्चाद् रोहिण्या, तयोस् सङ्गमतो ऽग्निः कृत्तिकासु जातः - एतद् विषुवस्थानचलन-द्योतकम् भाति।
  • प्रजापत्यनुसरणकथा पश्चादुच्यते।
  • विषुवदिनम् अत्रावर्तत ३००० BCE इति वर्षे।
मानसतरङ्गिणीकृत्
  • “Interesting both the kR^ittikAH (Pleiades) and Hyades which contains rohiNI are close by open clusters; 1 young, 1 older. "
  • मैत्रायणीयसम्प्रदाये - “In some reckonings it holds rohiNI as the nakShatra of soma & narrates how of all the daughters of prajApati soma preferred rohiNI and was afflicted with TB. Hence, the ritual in rohiNI is recommended for TB. It also mentions a certain brAhmaNa-nakShatra for soma at the end of the list in the ritual of the laying of the nakShatra bricks during the somayAga.”
मृगशीर्षम् - सोमः
05 सोमो राजा ...{Loading}...

सोमो॒ राजा॑ मृगशी॒र्षेण॒ आग॑न्न् +++(=आयातु)+++।
शि॒वन् नक्ष॑त्रम् प्रि॒यम् अ॑स्य॒ धाम॑।
आ॒प्याय॑मानो बहु॒धा जने॑षु।
रेतᳶ॑ प्र॒जाय्ँ यज॑माने दधातु

05 सोमो राजा ...{Loading}...
मूलम्

सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ ।
शि॒वन्नख्ष॑त्रम्प्रि॒यम॑स्य॒ धाम॑ ।
आ॒प्याय॑मानो बहु॒धा जने॑षु ।
रेत॑ᳶ प्र॒जाय्ँयज॑माने दधातु ॥2॥

भट्टभास्कर-टीका

5मृगशीर्षस्य - सोमो राजेति ॥ आगन् आगच्छतु । छान्दसो लुङ्, ‘मन्त्रे घस’ इति च्लेर्लुक् । ईषा अक्षादित्वात्पूर्वेण संहिताभावः । अस्य सोमस्य इदं शिवं कल्याणतरं नक्षत्त्रं प्रियं धाम स्थानं, तस्मात् तेन सह आगच्छत्विति ब्रूमः । जनेषु जनननिमित्तं जनेषु वा यजमानेषु हविषा बहुधा आप्यायमानः वर्धयन् रेतः बीजं उदकं वा प्रजां च पुत्रादि यजमाने दधातु ॥

06 यत्ते ...{Loading}...

यत् ते॒ नक्ष॑त्रं मृगशी॒र्षम् अस्ति॑
प्रि॒यꣳ रा॑जन् प्रि॒यत॑मम् प्रि॒याणा॑म्।
तस्मै॑ ते सोम ह॒विषा॑ विधेम
शन् न॑ एधि द्वि॒पदे॒ शञ् चतु॑ष्पदे॥

विश्वास-टिप्पनी

द्वि॒पदे॒ - “द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ”

06 यत्ते ...{Loading}...
मूलम्

यत्ते॒ न॑ख्षत्रम्मृगशी॒र्षमस्ति॑ ।
प्रि॒यꣳ रा॑जन्प्रि॒यत॑मम्प्रि॒याणा᳚म् ।
तस्मै॑ ते सोम ह॒विषा॑ विधेम ।
शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ।

भट्टभास्कर-टीका

6यत्त इति ॥ हे राजन्! सोम! ते नक्षत्त्रं मृगशीर्षं नामास्ति । प्रियं प्रीणयितृ प्रियाणामपि मध्ये प्रियतमं, तस्मै नक्षत्राय ते तुभ्यं च हविषा विधेम परिचरेम । नः अस्माकं द्विपदे चतुष्पदे च शं सुखहेतुः एधि भव । सामर्थ्यात्तेन सहेति गम्यते ॥

{सोमा॑य॒ स्वाहा॑ मृगशी॒र्षाय॒ स्वाहा॑।
इ॒न्व॒काभ्यः॒ स्वाहौष॑धीभ्यः॒ स्वाहा॑।
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा॑।}

०३ मृगशिरः ...{Loading}...
विश्वास-टिप्पनी

+++(Orion belt)+++

  • पुरा प्रजापतिना सम्बद्धम्। “प्रजापतेर् यत् सहजम् पुरस्तात्” इत्यनेन मृगशीर्षे ऽव्यङ्गस्योल्लेखो विशुवकाल इति केचित् - (~Apr 26 Julian 4500 BCE TW)।
    • आग्रहायणी‌ +इत्यपि नाम - पणिन्य्-अमरौ तथा। तैत्तिरीयसंहितायां (७.२ इत्यत्र) आग्रयणम् इत्यपि। पुरा ऽऽग्रयणेष्टयो तदैवाक्रियत - तत्रायनविशेषस्यारम्भात्।
    • वृषाकपिसूक्तम् अपि तद्विषये प्रवृत्तम्, यदा विषुवस्थानं वृषराशाव् अवर्तत।
    • तस्यैव सूर्येणसहोदिते यज्ञकालस्यारम्भो ऽवर्तत - तेन हि तस्य सोमाधिपत्यम्, यज्ञ इति नामान्तरम्।
  • सोमो हि ब्राह्मणानां राजा। तस्यैवानुकरणं मेखलया दण्डेन +अजिनेन यज्ञोपवीतेनापि - पारसीकेषु ब्राह्मणेषु च!
  • मृगशीर्षकथा ऽध आर्द्राभागे दृश्या।
  • वृषाकपिर् इति +ऋग्वेदसूक्त इन्द्रस्य प्रियः, इन्द्राणीमन्युना शुना दष्टः कर्णे, शिरसा खण्डितः, पश्चात्+क्षान्तः।
मानसतरङ्गिणीकृत्
  • “Some take this to be the 3 stars on the head of Orion (φ 1, φ 2, λ Orionis), which is how they are denoted in classical astronomy. "
  • “It features the great Nebula the brightest nebula visible to us, which blazes from the ionization caused by hot theta Orionis group of multiple stars. 4 of them can be easily seen with a small telescope. That would also show the M78 nebula. The region is rich in star birth.”
  • kaTha-s and maitrAyaNIya-s assign mRgashiras to maruts (also a good combination with ArdrA/ rudra. “On the other hand somArudrA is also an ancient combination.”)

The Romans, like the H, seemed to remember of Orion as being the “leader of the constellations” i.e. the AgrayaNa position. Did some see the belt as the sword?:

Orion may be seen stretching his arms over a vast expanse of sky and rising to the stars with no less huge a stride. A single light marks each of his shining shoulders, and three aslant trace the downward line of his sword ; but three mark Orion’s head, which is embedded in high heaven with his countenance remote. It is Orion who leads the constellations as they speed over the full circuit of heaven. Astronomica by Marcus Manilius (translated by Goold)

  • “In Vaidika reckoning the core of Mṛga was Orion with the arrow of Rudra shot through it (See below). The arrow is identified with the three stars of the belt of Orion (ζ , ε , δ Orionis). " ता इण्वकाः। “Taittirīya Brāhmaṇa 1.5.1.1 states: somasyenvakā vitatāni ।” - (MT)
  • “It is also likely that the 3 stars in a line inspired the myth of the tripura-s with the 3 asura forts need to be a in a line to be pierced by the arrow of rudra.”
आर्द्रा - रुद्रः
07 आर्द्रया रुद्रᳶ ...{Loading}...

आ॒र्द्रया॑ रु॒द्रᳶ प्रथ॑मान +++(=प्रसिद्ध)+++ एति। श्रेष्ठो॑ दे॒वाना॒म् पति॑र् अघ्नि॒याना॑म् +++(=गवाम्)+++।
नक्ष॑त्रम् अस्य ह॒विषा॑ विधेम +++(=परिचरेम)+++। मा नᳶ॑ प्र॒जाꣳ री॑रिष॒न् मोत वी॒रान्।

07 आर्द्रया रुद्रᳶ ...{Loading}...
मूलम्

आ॒र्द्रया॑ रु॒द्रᳶ प्रथ॑मान एति ।
श्रेष्ठो॑ दे॒वाना॒म्पति॑रघ्नि॒याना᳚म् ।
नख्ष॑त्रमस्य ह॒विषा॑ विधेम ।
मा न॑ᳶ प्र॒जाꣳ री॑रिष॒न्मोत वी॒रान् ।

भट्टभास्कर-टीका

7आर्द्रायाः - आर्द्रयेति ॥ आर्द्रया नक्षत्रेण प्रथमानः विस्तीर्यमाणतेजा एति नः यज्ञं प्राप्नोति । अघ्नियानां गवां पतिः तस्यास्य नक्षत्रं आद्रां विधेम परिचरेम । नः प्रजां पुत्रपौत्रादिकं मा रीरिषत् मा हिंसीः । उत अपि च वीरान् पुत्रान् आश्रितोपाश्रितान् पुरुषान् ॥

08 हेती रुद्रस्य ...{Loading}...

हे॒ती रु॒द्रस्य॒ परि॑ णो वृणक्तु
आ॒र्द्रा नक्ष॑त्रञ् जुषताꣳ ह॒विर् नः॑।
प्र॒मु॒ञ्चमा॑नौ** दुरि॒तानि॒ विश्वा॑।
अपा॒घशꣳ॑सन् नुदता॒म् अरा॑तिम्।॥

08 हेती रुद्रस्य ...{Loading}...
मूलम्

हे॒ती रु॒द्रस्य॒ परि॑ णो वृणक्तु ।
आ॒र्द्रा नख्ष॑त्रञ्जुषताꣳ ह॒विर्नः॑ ॥3॥
प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा᳚ ।
अपा॒घशꣳ॑सन्नुदता॒मरा॑तिम् ।

भट्टभास्कर-टीका

8हेती रुद्रस्येति ॥ रुद्रायुधं नः परितो वृणक्तु वर्जयतु । नः हविर्जुषतां सेवताम् । अथ तौ रुद्र आर्द्रा च उभौ विश्वानि दुरितानि प्रमुञ्चमानौ । अघशंसं पापरुचिम् । यद्वा - मम पापशंसिनमरातिं अपनुदतां विशेषेण नाशयताम् ॥

{रु॒द्राय॒ स्वाहा॒ऽऽर्द्रायै॒ स्वहा॑। पिन्व॑मानायै॒ स्वाहा॒ प॒शुभ्यः॒ स्वाहा॑।}

०४ आर्द्रा ...{Loading}...
विश्वास-टिप्पनी

मानसतरङ्गिणीकृत्
  • alpha Orinionis = Betelgeuse इति केचित्। sirius इति मानसतरङ्गिणीकारः।
  • The hands of rudra were associated with the other forward stars like beta.
  • “ārdrayā rudraḥ prathamānam eti । This means that he original Ārdrā was likely seen as a bright star. Now, while both α Ori and α Canis Majoris are bright stars, α Ori is too close to Mṛgaśiras making α Can Ma more likely, and is also closer to the position of the later yogatāra (γ Geminorum) when projected on to the ecliptic.”
  • “In the brāhmaṇa on the nakṣatra ritual in TB 1.5.1.1 the name Ārdrā is replaced by Mṛgayu which is always understood as Sirius: rudrasya bāhū mṛgayavaḥ”.
  • Further, this is supported by the evidence of the Aitareya Brāhmaṇa on the famed āgnimāruta-śastra recitation: प्रजापतिबाणो हि orion belt इति। स बाणो रोहिणीम् अनुसरते प्रजापतये। पूर्णकथा ऽत्र
  • “Further, the name Ārdrā means moist indicating a link with the wet season. The Iranian equivalent of Sirius, Tishtrya is also associated with rain suggesting that Ārdrā inherits this ancestral association.”
  • “Another rich part of the sky with the open cluster M41 below Sirius. "
  • “A good challenge in this constellation is to see the companion star of Sirius . It was predicted by great mathematician Friedrich Bessel through the wobble of Sirius and seen only later by others. It is a small star about the size of the Earth but with the mass of the sun. IA good challenge in this constellation is to see the companion star of Sirius . It was predicted by great mathematician Friedrich Bessel through the wobble of Sirius and seen only later by others. It is a small star about the size of the Earth but with the mass of the sun.”
  • Sirius, the head of shabala praised at the morning shuna shairya offering of the pa~nchavimsha brAhmaNa.
पुनर्वसू - अदितिः
09 पुनर्नो ...{Loading}...

पुन॑र् नो दे॒व्य् अदि॑तिस् स्पृणोतु +++(=प्रीणयतु)+++।
पुन॑र्वसू नᳶ॒ पुन॒र् आ+इ॒ता॒य्ँ य॒ज्ञम्
पुन॑र् नो दे॒वा अ॒भिय॑न्तु॒ सर्वे॑।
पुनᳶ॑-पुनर् वो ह॒विषा॑ यजामः

09 पुनर्नो ...{Loading}...
मूलम्

पुन॑र्नो दे॒व्यदि॑तिस्स्पृणोतु ।
पुन॑र्वसू न॒ᳶ पुन॒रेता᳚य्ँय॒ज्ञम् ।
पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे᳚ ।
पुन॑ᳶपुनर्वो ह॒विषा॑ यजामः ।

भट्टभास्कर-टीका

9पुनर्वस्वोः - पुनर्न इति ॥ अदितिः देवी नः पुनःपुनः स्पृणोतु प्रीणयतु । स्पॄ प्रीतौ, पुनर्वसू च नक्षत्रं नः यज्ञं पुनःपुनः एतां आगच्छताम् । देवाः सर्वेअभियन्तु आभिमुख्येनागच्छन्तु । गतमन्यत् ॥

10 एवा न ...{Loading}...

ए॒वा न दे॒व्य् अदि॑तिर् अन॒र्वा +++(=अनर्वाचीना)+++। विश्व॑स्य भ॒र्त्री जग॑तᳶ प्रति॒ष्ठा।
पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती। प्रि॒यम् दे॒वाना॒म् अप्य् ए॑तु॒ पाथः॑ +++(=हविः)+++॥

10 एवा न ...{Loading}...
मूलम्

ए॒वा न दे॒व्यदि॑तिरन॒र्वा ।
विश्व॑स्य भ॒र्त्री जग॑तᳶ प्रति॒ष्ठा ।
पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती ।
प्रि॒यन्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥4॥

भट्टभास्कर-टीका

10एवा नेति ॥ नकारः समुच्चये । एव? सांप्रतिकः एवं च, अयनशीला वा अदितिः देवी पृथिवी देवमाता वा शैलकन्या वा । ‘अदितिः शैलकन्यायां पृथिव्यां देवमातरि’ इत्यभिधानम् । अत्र अदितिशब्दो रुद्राणीवचनः । पूर्वनक्षत्रं रौद्रं, तयोरुभयोस्साहचर्यात् । अनर्वा अपापा अप्रच्युतिर्वा । यद्वा - सप्तम्या आकारः । एवा अयने अनर्वा अवद्यरहिता विश्वस्य भर्त्री धारयित्री पुनर्वसू नक्षत्रं आत्मानं च हविषा वर्धयन्ती पाथः अन्नरूपं हविः अप्येतु प्राप्नोतु । ‘पाथसी सलिलोदनौ’ इत्यभिधानम् ॥

{अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्याम् स्वाहा।
भूत्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहा॑।}

०५ पुनर्वसू ...{Loading}...
विश्वास-टिप्पनी

+++(α , β Geminorum - Castor and Pollux)+++

मानसतरङ्गिणीकृत्
  • अदितेर् द्वे शिरसी।
    • तैत्तिरीयसंहितायाम् - 1.2.4 “अदितिर् अस्य् उभ्यतः शीर्ष्णी, सा नः सुप्राची सुप्रतीची सं भव ।”
    • Śatapatha Brāhmaṇa (3.2.4.16) - “aditir asy ubhayataḥ śīrṣṇīti. sa yadenayā samānaṃ sadviparyāsaṃ vadati, yadaparaṃ tatpūrvaṃ karoti, yatpūrvaṃ tadaparaṃ - tenobhayataḥ śīrṣṇī, tasmād āhāditir asy ubhayataḥśīrṣṇīti ||”
  • रामायणे - “kumbhakarṇa-śiro bhāti kuṇḍalālaṅkṛtaṃ mahat । āditye’bhyudite rātrau madhyastha iva candramāḥ ॥”
  • “These allusions indicate that the two-headed nature of the constellation of Gemini was transposed on to the presiding deity Aditi and the inversion associated with the two heads along with the eastward and westward paths might indicate an old memory of the start of the ecliptic at Aditi in prehistoric times (>7000 years BP).”
तिष्यम् / पुष्यम् - बृहस्पतिः
11 बृहस्पतिᳶ प्रथमञ्जायमानः ...{Loading}...

बृह॒स्पति॑ᳶ प्रथ॒मञ् जाय॑मानः। ति॒ष्य॑न् नक्ष॑त्रम् अ॒भि सम्ब॑भूव
श्रेष्ठो॑ दे॒वाना॒म् पृत॑नासु जि॒ष्णुः। दिशोऽनु॒ सर्वा॒ अभ॑यन् नो अस्तु

11 बृहस्पतिᳶ प्रथमञ्जायमानः ...{Loading}...
मूलम्

बृह॒स्पति॑ᳶ प्रथ॒मञ्जाय॑मानः ।
ति॒ष्य॑न्नख्ष॑त्रम॒भिसम्ब॑भूव ।
श्रेष्ठो॑ दे॒वाना॒म्पृत॑नासु जि॒ष्णुः ।
दिशोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु ।

भट्टभास्कर-टीका

11तिष्यस्य - बृहस्पतिरिति ॥ जायमानः तिष्यं नक्षत्त्रं प्रथमं प्रधानमभिलक्ष्य सम्बभूव । लक्षणहेत्वोः कर्मप्रवचनीयत्वात् द्वितीया । पृतनासु सङ्ग्रामेषु । दिशोऽनु सर्वासु दिक्षु अभयहेतुरस्तु । हेतौ कर्मप्रवचनम् ॥

12 तिष्यᳶ पुरस्तादुत ...{Loading}...

ति॒ष्य॑ᳶ पु॒रस्ता॑द् उ॒त म॑ध्य॒तो नः॑। बृह॒स्पति॑र् न॒ᳶ परि॑ पातु प॒श्चात्।
बाधे॑ता॒न् द्वेषो॒ अभ॑यङ् कृणुताम्। सु॒वीर्य॑स्य॒ पत॑यस् स्याम

12 तिष्यᳶ पुरस्तादुत ...{Loading}...
मूलम्

ति॒ष्य॑ᳶ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ ।
बृह॒स्पति॑र्न॒ᳶ परि॑ पातु प॒श्चात् ।
बाधे॑ता॒न्द्वेषो॒ अभ॑यङ्कृणुताम् ।
सु॒वीर्य॑स्य॒ पत॑यस्स्याम ।

भट्टभास्कर-टीका

12तिष्यो बृहस्पतिश्च न: पुरस्तात् आदौ शरीरे मध्यतो यौवने च पश्चादन्ते वार्धके च सर्वतः पालयतु । द्वेषः द्वेषम् । कर्मण्यसुन् । यद्वा - द्वेष्टॄन् । विजन्तात् शस् । बाधेतां नाशयताम् । नः अभयं च कृणुतां कुरुताम् । सुवीर्यस्य शोभनवीर्यस्य ॥

{बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा॑।
ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहा॑।}

०६ तिष्यः ...{Loading}...
विश्वास-टिप्पनी

γ, δ and θ Cancri इति केचित्। Praesepe open cluster (M44) इति केचित्।

मानसतरङ्गिणीकृत्
  • Ṛgveda - यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः । न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑ऽस्मे रा॑रन्त मरुतः सह॒स्रिण॑म् ॥
    • " The comparison of great riches, in thousands, is indicative of the great mass of stars in the open cluster supporting the identification of the old Tiṣya with M44.”
  • “The name tiShya seems homologous to the Iranian tiShtrya. Today the Iranian asterism is equated with Sirius but there is a suspicion that this might have been secondary.”
आश्रेषाः - सर्पाः
13 इदं सर्पेभ्यो ...{Loading}...

इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर् अ॑स्तु॒ जुष्ट॑म्। आ॒श्रे॒षा येषा॑म् अनु॒यन्ति॒ चेतः॑।
ये अ॒न्तरि॑क्षम् पृथि॒वीङ् क्षि॒यन्ति॑+++(=अधिवसन्ति)+++। ते न॑स् स॒र्पासो॒ हव॒म् आग॑मिष्ठाः

13 इदं सर्पेभ्यो ...{Loading}...
मूलम्

इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट᳚म् ।
आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ॥5॥
ये अ॒न्तरि॑ख्षम्पृथि॒वीङ्ख्षि॒यन्ति॑ ।
ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।

भट्टभास्कर-टीका

13अश्लेषाणाम् - इदं सर्पेभ्य इति ॥ जुष्टं प्रियं अस्तु । आश्रेषा नक्षत्रं येषां चेतः अनुयन्ति, क्षियन्ति अधिवसन्ति । ते सर्पासः हवं यज्ञं आगमिष्ठाः अतिशयेन आगन्तारो भवन्तु । आगन्तृशब्दात्तृन्नन्तात् ‘तुश्छन्दसि’ इतीष्ठन्प्रत्यये ‘तुरिष्ठेमेयस्सु’ इति टिलोपः ॥

14 ये रोचने ...{Loading}...

ये रो॑च॒ने +++(मण्डले)+++ सूर्य॒स्यापि॑ स॒र्पाः। ये दिव॑न् दे॒वीम् अनु॑ स॒ञ्चर॑न्ति
येषा॑म् आश्रे॒षा अ॑नु॒यन्ति॒ काम॑म्। तेभ्य॑स् स॒र्पेभ्यो॒ मधु॑मज् जुहोमि

14 ये रोचने ...{Loading}...
मूलम्

ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ।
ये दिव॑न्दे॒वीमनु॑ स॒ञ्चर॑न्ति ।
येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम᳚म्
तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ।

भट्टभास्कर-टीका

14ये रोचन इति ॥ ये सर्पाः सूर्यस्यापि रोचने मण्डले नियुक्ताः वसन्ति । ये च दिवं देवीं द्योतनवतीं अनुसंचरन्ति अनुव्याप्य संचरन्ति । येषां च कामं इच्छां आश्रेषा अनुयन्ति अनुसरन्ति । तेभ्यस्सर्पेभ्यः साश्रेषेभ्यः इदं मधुमत् मधुररसवत् हविः जुहोमि ॥

{स॒र्पेभ्यः॒ स्वाहा॑ऽऽश्रे॒षाभ्यः॒ स्वाहा॑।}
द॒न्द॒शूके॑भ्यः॒ स्वाहा॑॥

०७ आश्रेषा ...{Loading}...
विश्वास-टिप्पनी

  • δ, ε, η, ρ, σ, θ Hydrae
  • वेदाङ्गज्योतिषानुसारम् अस्य मध्य आसीद् अयनारम्भः ~ ११०० BCE इत्यस्मिन्।
मानसतरङ्गिणीकृत्
  • “It corresponds to the head of the Greek constellation of Hydra, suggesting that the link to a snake goes back to early Indo-European times. Āśleṣā is specifically associated with the head of the snake. Hence, the 6 stars should correspond to θ , ζ , ε , δ , σ , η Hydrae.”
मघाः - पितरः
15 उपहूताᳶ पितरो ...{Loading}...

उप॑हूताᳶ पि॒तरो॒ ये म॒घासु॑ । मनो॑जवसस् सु॒कृत॑स् सुकृ॒त्याः।
ते नो॒ नक्ष॑त्रे॒ हव॒म् आग॑मिष्ठाः। स्व॒धाभि॑र् य॒ज्ञम् प्रय॑तञ् जुषन्ताम्

15 उपहूताᳶ पितरो ...{Loading}...
मूलम्

उप॑हूताᳶ पि॒तरो॒ ये म॒घासु॑ ।
मनो॑जवसस्सु॒कृत॑स्सुकृ॒त्याः ।
ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मिष्ठाः ।
स्व॒धाभि॑र्य॒ज्ञम्प्रय॑तञ्जुषन्ताम् ॥6॥

भट्टभास्कर-टीका

15मघानां - उपहूता इति ॥ ये पितरः मघासु उपहूताः देवतात्वेन अनुज्ञाताः मनोजवसः मनसा तुल्यवेगाः सुकृतः सुष्ठुकर्तारः सुकृत्याः शोभनकर्तव्याः । ते नः हवं आगमिष्ठाः अतिशयेनागन्तारो भवन्तु । किमर्थम्? नक्षत्त्रे मघानक्षत्रनिमित्तं आत्मार्थं च । निमित्तात्सप्तमी । पितरः समघाः स्वधाभिः अन्नैः हविर्भिः प्रयतं शुद्धं संस्कृतं यज्ञं जुषन्तां सेवन्ताम् ॥

16 ये अग्निदग्धा ...{Loading}...

ये अ॑ग्निद॒ग्धा ये ऽन॑ग्निदग्धाः। ये॑ ऽमुल्ँ लो॒कम् पि॒तरᳵ॑ क्षि॒यन्ति॑
याꣳश् च॑ वि॒द्म याꣳ उ॑ च॒ न प्र॑वि॒द्म। म॒घासु॑ य॒ज्ञꣳ सुकृ॑तम् जुषन्ताम्

16 ये अग्निदग्धा ...{Loading}...
मूलम्

ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः ।
ये॑ऽमुल्ँ लो॒कम्पि॒तर॑ᳵ ख्षि॒यन्ति॑ ।
याꣳश्च॑ वि॒द्म याꣳ उ॑ च॒ न प्र॑वि॒द्म ।
म॒घासु॑ य॒ज्ञꣳ सुकृ॑तञ्जुषन्ताम् ।

भट्टभास्कर-टीका

16ये अग्निदग्धा इति ॥ अग्निनैव दाह इति सामर्थ्याद्गम्यते ये संस्कृतेनाग्निया दग्धाः पितरः ये चानग्निदग्धाः मिथ्याग्निदग्धाः ये च पितरः अमुं लोकं, इमं लोकमित्युपलक्षणम् । क्षियन्ति अधिवसन्ति । यांश्च वयं विद्म जानीमः, यानपि च न प्रविद्म प्रकर्षेण न जानीमः ते सर्वे पितरः मघासु मघानिमित्तं अस्माकं सुकृतं यज्ञं जुषन्तां सेवन्ताम् ॥

{पि॒तृभ्यः॒ स्वाहा॑ म॒घाभ्यः॑ स्वाहा॑ऽन॒घाभ्यः॒ स्वाहा॑
अग॒दाभ्यः॑ स्वाहा॑ ऽरुन्ध॒तीभ्यः॒ स्वाहा॑।}

०८ मघाः ...{Loading}...
विश्वास-टिप्पनी

  • Regulus इति केचित्। " 6 stars - entire sickle of Leo” इत्यन्ये।
मानसतरङ्गिणीकृत्
  • “Atharvaveda Nakṣatra sūkta states that the summer solstice happened in this asterism pointing to a period of ~4400 YBP”
पूर्व-फल्गुन्यः - अर्यमा
17 गवाम्पतिᳶ फल्गुनीनामसि ...{Loading}...

गवा॒म् पतिः॒ फल्गु॑नीनाम् असि॒ त्वम्।
तद् अ॑र्यमन् वरुण-मित्र॒ चारु॑।
तन् त्वा॑ व॒यꣳ स॑नि॒तारꣳ॑ +++(=दातारं)+++ सनी॒नाम् +++(=दातव्यानाम्)+++ +++(←नाम् अन्यतरस्याम् इत्य् अन्तोदात्तत्वात् स्वरः)+++।
जी॒वा जीव॑न्त॒म् उप॒ सव्ँवि॑शेम

17 गवाम्पतिᳶ फल्गुनीनामसि ...{Loading}...
मूलम्

गवा॒म्पति॒ᳶ फल्गु॑नीनामसि॒ त्वम् ।
तद॑र्यमन्वरुण मित्र॒ चारु॑ ।
तन्त्वा॑ व॒यꣳ स॑नि॒तारꣳ॑ सनी॒नाम् ।
जी॒वा जीव॑न्त॒मुप॒सव्ँ वि॑शेम ।

भट्टभास्कर-टीका

17फल्गुन्योः - वां पतिरिति ॥ गवां गोमतीनां फल्गुनीनां फल्गुन्योश्च नक्षत्रस्य पतिः स्वामी त्वमसि । यद्वा - फल्पुन्योः देवताभूतः गवां उदकानां गवामेव वा पतिः पालयिता असि । ‘फल्गुनीप्रोष्ठपदानां च नक्षत्रे’ इति बडुवचनम् । यस्मादेवं तस्मात् हे अर्यमन्! वरुण! वारक! दुरितानां, हे मित्र! प्रमितेरपि त्रायक! तं तादृशं त्वां सनितारं संविभक्तारं सनीनां धनानां जीवन्तं नित्यजीविनं वयं जीवाः सम्यक् जीवन्तः चारु शोभनं उपसंविशेम उपसंप्राप्नुयाम ॥

18 येनेमा विश्वा ...{Loading}...

येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता। यस्य॑ दे॒वा अ॑नुसं॒यन्ति॒ चेतः॑।
अ॒र्य॒मा राजा॒ ऽजर॑स् तुवि॑ष्मान् +++(=वृद्धिमान्)+++। फल्गु॑नीनाम् ऋष॒भो रो॑रवीति

18 येनेमा विश्वा ...{Loading}...
मूलम्

येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता ।
यस्य॑ दे॒वा अ॑नुस॒य्ँयन्ति॒ चेतः॑ ॥7॥
अ॒र्य॒मा राजा॒ऽजर॒स्तुवि॑ष्मान् ।
फल्गु॑नीनामृष॒भो रो॑रवीति ।

भट्टभास्कर-टीका

18येनेमा इति ॥ इमानि विश्वानि भुवनानि येन संजिता सम्यक् जितानि सहैव वा जितानि । देवा अपि यस्य चेतः चित्तं अनुसंयन्ति संगच्छन्ति । सोऽर्यमा राजा दीप्तिमान् अजरः जरामरणरहितः तुविष्मान् वृद्धिमान् । फल्गुनीनां गोस्थानीयानां ऋषभः सेक्ता रोरवीति भृशं शब्दायते ख्यापयत्यात्मानमित्यर्थः ॥

{अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा॑।
प॒शुभ्यः॒ स्वाहा॑।}

०९ फाल्गुन्यः ...{Loading}...
विश्वास-टिप्पनी

+++(=δ, θ Leonis)+++

  • अत्र वै यदा चन्द्रमा ऽवर्तत ३००० BCE इति वर्षे, तदाभूद् वत्सरारम्भः।
    • विवरणानि सौर-चान्द्र-मान-पृष्ठे।
उत्तर-फल्गुन्यः - भगः
19 श्रेष्ठो देवानाम्भगवो ...{Loading}...

श्रेष्ठो॑ दे॒वाना॑म् भगवो भगासि। तत् त्वा॑ विदु॒ᳶ फल्गु॑नी॒स्, तस्य॑ वित्तात् +++(=विद्धि)+++।
अ॒स्मभ्य॑ङ् क्ष॒त्रम् अ॒जरꣳ॑ सु॒वीर्य॑म्। गोम॒द् अश्व॑व॒द् उप॒ सन् नु॑दे॒ह

19 श्रेष्ठो देवानाम्भगवो ...{Loading}...
मूलम्

श्रेष्ठो॑ दे॒वाना᳚म्भगवो भगासि ।
तत्त्वा॑ विदु॒ᳶ फल्गु॑नी॒स्तस्य॑ वित्तात् ।
अ॒स्मभ्य॑ङ्ख्ष॒त्रम॒जरꣳ॑ सु॒वीर्य᳚म् ।
गोम॒दश्व॑व॒दुप॒सन्नु॑दे॒ह ।

भट्टभास्कर-टीका

19उत्तरफल्गुन्योः - श्रेष्ठ इति ॥ देवानां मध्ये श्रेष्ठः प्रशस्यतमोसि हे भगवः! ऐश्वर्यादिमन्! ‘मतुवसो रुः’ इति रुत्वम् । हे भग! तत् तं, द्वितीया लुप्यते । तादृशं त्वां उत्तराः फल्गुन्यः विदुः जानन्ति । यद्वा - तत् तस्मात् त्वां फल्गुन्यः लभन्ते सेवन्ते । त्वमपि तस्य महिमानं वित्तात् जानीथाः । कर्मणि षष्ठी । ततः तादृशं आत्मनो माहात्म्यं विद्वान् तादृशीभिः फल्गुनीभिः सह त्वं अस्मभ्यं क्षत्त्रं बलं अजरं अनुपक्षयं सुवीर्यं शोभनवीरकर्मयुक्तं गोमत् बहुगु अश्ववत् प्रशस्तात् इह कर्मणि उपसंनुद अस्माकं समीपे प्रेरय । तिङन्तस्य उदात्तत्वाभावात् गत्योर्निघाताभावः ॥

20 भगो ह ...{Loading}...

भगो॑ ह दा॒ता भग॒ इत् प्र॑दा॒ता। भगो॑ दे॒वीᳶ फल्गु॑नी॒र् आवि॑वेश
भग॒स्येत् तम् प्र॑स॒वङ् ग॑मेम। यत्र॑ दे॒वैस् स॑ध॒मादं॑ +++(=सहहर्षं)+++ मदेम +++(=प्राप्नुयाम)+++।॥

20 भगो ह ...{Loading}...
मूलम्

भगो॑ ह दा॒ता भग॒ इत्प्र॑दा॒ता ।
भगो॑ दे॒वीᳶ फल्गु॑नी॒रावि॑वेश ।
भग॒स्येत्तम्प्र॑स॒वङ्ग॑मेम ।
यत्र॑ दे॒वैस्स॑ध॒माद॑म्मदेम ॥8॥

भट्टभास्कर-टीका

20भगो हेति ॥ भगो दाता भग एव प्रदाता प्रकर्षेण दाता भग एव देवीः देवनस्वभावाः फल्गुनीः उत्तराः आविवेश अनुप्रविश्य तिष्ठति । तस्मात् भगस्येत् । इदित्यव्ययम् । भगस्यैव तं प्रसवं अनुज्ञां गमेम गम्यास्म । ‘लिङ्याशिष्यङ्’ । कम्? यत्र प्रसवे सति देवैः सधमादं सहमादं मदेम माद्येम तं प्रसवं गमेमहि ॥

{भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा॑।
श्रेष्टाया॑य॒ स्वाहा॑।}

१० फाल्गुन्यः ...{Loading}...
विश्वास-टिप्पनी

Denebola - β, 93 Leonis

हस्तः - सविता
21 आयातु देवस्सवितोपयातु ...{Loading}...

आया॑तु दे॒वस् स॑वि॒तोप॑यातु
हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न।
वह॒न्॒ हस्तꣳ॑ सु॒भग॑व्ँ विद्म॒नाप॑सम् +++(=विदितकर्मणा युक्तम्)+++।
प्र॒यच्छ॑न्त॒म् पपु॑रि॒म् +++(=पूरयितारम्)+++ पुण्य॒म् अच्छ॑ +++(=अभिमुखं वर्तमानम्)+++।

21 आयातु देवस्सवितोपयातु ...{Loading}...
मूलम्

आया॑तु दे॒वस्स॑वि॒तोप॑यातु ।
हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न ।
वह॒न्॒ हस्तꣳ॑ सु॒भग॑व्ँविद्म॒नाप॑सम् ।
प्र॒यच्छ॑न्त॒म्पपु॑रि॒म्पुण्य॒मच्छ॑ ।

भट्टभास्कर-टीका

21हस्तस्य - आयात्विति ॥ देवस्सविता आयातु आगच्छतु अस्मान् प्रति उपयातु च उपगच्छतु चास्मत्पार्श्वम् । हिरण्ययेन हिरण्यविकारेण सुवृता सुवृत्तिकेन । त्रिचक्रादित्वादुत्तरपदान्तोदात्तत्वम् । ईदृशेन रथेनायातु । हस्तं नक्षत्रं सुभगं शोभनधनं विद्मनापसं विद्मनं विदितं विख्यातं अपसं कर्म यस्य तादृशम् । विदेर्लुटि धातोर्मुमागमः । प्रयच्छन्तं अभिमतानि ददतं पपुरिं पूरयितारं कामानाम् । ‘आदृगमहन’ इति किन् प्रत्ययः । पुण्यं पावनं लोकस्य ईदृशं हस्तं रथेन आत्मीयेन वहन् अच्छ अस्मदाभिमुख्येन आयातु ॥

22 हस्तᳶ ...{Loading}...

हस्तᳶ॒ प्रय॑च्छत्व् अ॒मृत॒व्ँ वसी॑यः।
दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत्।
दा॒तार॑म् अ॒द्य +++([यः])+++ स॑वि॒ता वि॑देय +++(=लभेय)+++।
यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम्॥

22 हस्तᳶ ...{Loading}...
मूलम्

हस्त॒ᳶ प्रय॑च्छत्व॒मृत॒व्ँवसी॑यः ।
दख्षि॑णेन॒ प्रति॑गृभ्णीम एनत् ।
दा॒तार॑म॒द्य स॑वि॒ता वि॑देय ।
यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ।

भट्टभास्कर-टीका

22हस्तः प्रयच्छत्विति ॥ हस्तः नक्षत्रं प्रयच्छतु ददातु अमृतं अमरणहेतुं धनं वसीयः प्रशस्ततरम् । एनत् धनं दक्षिणेन हस्तेन वयं पूजितं प्रति गृभ्णीमःएनत् इत्यन्वादेशो धनवाची । ‘हृग्रहोर्भः’ इति भत्वम् ।
अद्य अस्मिन्नहनि तमपि दातारं विदेय जानीयां लभेय वा । लिङ्याशिष्यङ् । तस्य दातृत्वमद्योपलप्सीय । यः सविता हस्ताय नक्षत्राय नः यज्ञं प्रसुवाति अनुजानाति । लेट्याडागमः ॥

{स॒वि॒त्रे स्वाहा॒ हस्ता॑य स्वाहा॑
ऽऽदद॒ते स्वाहा॑ पृण॒ते स्वाहा॑
प्र॒यच्छ॑ते॒ स्वाहा॑ प्रतिगृभ्ण॒ते स्वाहा॑।}

११ हस्तः ...{Loading}...
विश्वास-टिप्पनी

Corvus- α , β , γ , δ , ε Corvi.

चित्रा - त्वष्टा
23 त्वष्टा नख्षत्रमभ्येति ...{Loading}...

त्वष्टा॒ नक्ष॑त्रम् अ॒भ्ये॑ति चि॒त्राम् +++(=Spica)+++।
सु॒भꣳस॑सय्ँ +++(=सुजघनां)+++ युव॒तिꣳ रोच॑मानाम्
नि॒वे॒शय॑न्न् अ॒मृता॒न् मर्त्याꣳ॑श् च।
रू॒पाणि॑ पि॒ꣳ॒शन् +++(=निरूपयन्)+++ भुव॑नानि॒ विश्वा॑।

23 त्वष्टा नख्षत्रमभ्येति ...{Loading}...
मूलम्

त्वष्टा॒ नख्ष॑त्रम॒भ्ये॑ति चि॒त्राम् ।
सु॒भꣳस॑सय्ँ युव॒तिꣳ रोच॑मानाम् ॥9॥
नि॒वे॒शय॑न्न॒मृता॒न्मर्त्याꣳ॑श्च ।
रू॒पाणि॑ पि॒ꣳ॒शन्भुव॑नानि॒ विश्वा᳚ ।

भट्टभास्कर-टीका

23चित्रायाः - त्वष्टेति ॥ त्वष्टा चित्रा नक्षत्रं अभ्येति आभिमुख्येन गच्छति । तया एकीभवति । सुभंससं शोभनदीप्तिं ‘भस भर्त्सनदीप्त्योः’ असुनि अनुस्वारोपजनः छान्दसः । यद्वा - सुभसत् शोभनजघना । छान्दसो विकारः । पर्यायान्तरं वा भसदः । युवतिं मिश्रिणीं रोचमानां दीप्यमानां त्वष्ट्रे वा रोचमानाम् । किं कुर्वन्नभ्येति? अमृतान् देवान् मर्त्यान् मनुजान् । चकारस्सर्वसमुच्चये । निवेशयन् यथास्वरूपं स्थापयन् । किञ्च - रूपाणि रूपवन्ति रूपणीयानि वा विश्वानि भुवनानि भूतानि पिंशन् अवयववन्ति रूपयन् । पिश अवयवे, व्यत्ययेन श्नम् ॥

24 तन्नस्त्वष्टा तदु ...{Loading}...

तन् न॒स् त्वष्टा॒ तद् उ॑ चि॒त्रा विच॑ष्टाम् +++(=वीक्षताम्)+++।
तन् नक्ष॑त्रम् भूरि॒दा अ॑स्तु॒ मह्य॑म्।
तन्नᳶ॑ प्र॒जाव्ँ वी॒रव॑तीꣳ सनोतु +++(=ददातु)+++।
गोभि॑र् नो॒ अश्वै॒स् सम॑नक्तु य॒ज्ञम्॥

24 तन्नस्त्वष्टा तदु ...{Loading}...
मूलम्

तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् ।
तन्नख्ष॑त्रम्भूरि॒दा अ॑स्तु॒ मह्य᳚म् ।
तन्न॑ᳶ प्र॒जाव्ँ वी॒रव॑तीꣳ सनोतु ।
गोभि॑र्नो॒ अश्वै॒स्सम॑नक्तु य॒ज्ञम् ।

भट्टभास्कर-टीका

24तन्न इति ॥ त्वष्टा चित्रा च नः अभिमतं विचष्टां व्यक्तं वदतु, उत्पादयत्विति यावत् । किं च - तत् चित्राख्यं नक्षत्रं मह्यं भूरिदा बहुनो धनस्य दातृ अस्तु । लिङ्गव्यत्ययः, चित्राभिप्रायं वा स्त्रीत्वम् । तत् देवता नक्षत्रं च तद्द्वयं नः वीरवतीं विक्रान्तपुरुषवतीं प्रजां सन्ततिं सनोतु ददातु । षणु दाने । गोभिरश्वैश्च नः यज्ञं समनकु समृद्धं करोतु ॥

{त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा॑।
चैत्रा॑य॒ स्वाहा॑ प्र॒जायै॒ स्वाहा॑।}

१२ चित्रा ...{Loading}...
विश्वास-टिप्पनी

मानसतरङ्गिणीकृत्
  • “The star itself is one the nakṣatra-s mentioned in the RV (according to us contra white indological opinion).”
  • “In the TB 1.5.1.3 Citrā is described as an additional star of the god Indra.”
  • “Whereas the taittirIya brAhmaNa & other traditions recognize tvaShTR^i as the god of the asterism, the other taittirIya saMhitA, assigns 3 nakShatra-s to indra at intervals of 7 centered in Antares; chitra is the first of them. This might relate to the timing of ancient aindra rituals along the early satra.”
  • “this constellation offers a window, with a relatively small telescope 6-10in, of both the vastness & higher order structure of the universe. 1st we can start with M 104 or the Sombrero galaxy at the border with Corvus. It is probably the brightest galaxy in our local group& has a gigantic black hole at its center. I have routinely seen it with my 50x70 binocs on good nights. Moving from the Local group we go to the upper part of Virgo. The galaxies M 100,M 49,M 58,M 59,M 60,M 61,M 84,M 85,M 86,M 87,M 88,M 89,M 90,M 91,M 98,M 99 can be seen as part of this cluster with a small telescope. This cluster with our own local group and many others forms the Virgo supercluster. A lot of what we know of the universe is from this cluster.”
निष्ट्या, स्वातिः - वायुः
25 वायुर्नख्षत्त्रमभ्येति ...{Loading}...

वा॒युर् नक्ष॑त्रम् अ॒भ्ये॑ति॒ निष्ट्या॑म्+++(=Arctrus)+++।
ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः
स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा॑ +++(←मातरि आकाशे श्वयति वर्द्धते)+++।
अप॒ द्वेषाꣳ॑सि नुदता॒म् अरा॑तीः।

25 वायुर्नख्षत्त्रमभ्येति ...{Loading}...
मूलम्

वा॒युर्नख्ष॑त्त्रम॒भ्ये॑ति॒ निष्ट्या᳚म् ।
ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः ।
स॒मी॒रय॒न्भुव॑ना मात॒रिश्वा᳚ ।
अप॒ द्वेषाꣳ॑सि नुदता॒मरा॑तीः ॥10॥

भट्टभास्कर-टीका

25स्वातेः - वायुरिति ॥ निष्ट्या स्वातीनक्षत्रं वायुः अभ्येति अभिगच्छति । तिग्मगृङ्गः तीक्ष्णातेजाः वृषभः वर्षिता रोरुवाणः शब्दायमानः । यङ्लुगन्ताद्व्यत्ययेनात्मनेपदम् । भुवनानि भूतजातानि समीरयन् समन्तात् प्रेरयन् मातरिश्वा विश्वं मातीति विश्वमातर्याकाशे श्रयति वर्धते नः द्वेषांसि द्वेष्याणि अरातीः अदातॄंश्च । लिङ्गव्यत्ययः । अपनुदतां नाशयतु ॥

26 तन्नो वायुस्तदु ...{Loading}...

तन् नो॑ वा॒युस् तद् उ॒ निष्ट्या॑ शृणोतु
तन् नक्ष॑त्रम् भूरि॒दा अ॑स्तु॒ मह्य॑म्।
तन् नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम॑म्।
यथा॒ तरे॑म दुरि॒तानि॒ विश्वा॑॥

26 तन्नो वायुस्तदु ...{Loading}...
मूलम्

तन्नो॑ वा॒युस्तदु॒ निष्ट्या॑ शृणोतु ।
तन्नख्ष॑त्रम्भूरि॒दा अ॑स्तु॒ मह्य᳚म् ।
तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम᳚म् ।
यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ ।

भट्टभास्कर-टीका

26तन्न इति । । तत् नः अस्मदभिमतं वायुः शृणोतु यथाप्रार्थनं ददात्विति यावत् । निष्ट्या स्वाती च तच्छृणोतु । तत् नक्षत्रं भूरिदा अस्तु मह्यं तं अस्माकं कामं इष्टं देवा अनुजानन्तु । कः पुनस्स इत्याह - यथा वयं दुरितानि विश्वानि तरेम, तथाऽनुजानन्तु ॥

{वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा॑।
का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा॑।}

१३ स्वातिः ...{Loading}...
विश्वास-टिप्पनी

विशाखे - इन्द्राग्नी
27 दूरमस्मच्छत्रवो यन्तु ...{Loading}...

दू॒रम् अ॒स्मच्-छत्र॑वो यन्तु भी॒ताः।
तद् इ॑न्द्रा॒ग्नी कृ॑णुता॒म् तद् विशा॑खे।
तन् नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम्।
प॒श्चात् पु॒रस्ता॒द् अभ॑यन् नो अस्तु

27 दूरमस्मच्छत्रवो यन्तु ...{Loading}...
मूलम्

दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः ।
तदि॑न्द्रा॒ग्नी कृ॑णुता॒न्तद्विशा॑खे ।
तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् ।
प॒श्चात्पु॒रस्ता॒दभ॑यन्नो अस्तु ।

भट्टभास्कर-टीका

27विशाखयोः - दूरमिति । । अस्मत् अस्मत्तः भीताश्शत्रवो दूरं यन्तु पलायन्ताम् । तदभिमतं इन्द्राग्नी कृणुतां कुरुतां, विशाखे च नक्षत्रं तत्कृणुतामित्येव, तत्तत्साधनमस्माकं यज्ञं देवाः अनुमदन्तु अनुमोदनां फलनिष्पत्तिमनुजानन्तु । ततश्चास्माकं पश्चात्पुरस्ताच्च सर्वास्ववस्थासु अस्माकमभयमस्तु ॥

28 नख्षत्राणामधिपत्नी ...{Loading}...

नक्ष॑त्राणा॒म् अधि॑पत्नी॒ विशा॑खे।
श्रेष्ठा॑व् इ्द्रा॒ग्नी भुव॑नस्य गो॒पौ।
विषू॑च॒श् +++(=विभिन्नगतीन्)+++ शत्रू॑न् अप॒ बाध॑मानौ
अप॒ क्षुध॑न् नुदता॒म् अरा॑तिम्।॥

28 नख्षत्राणामधिपत्नी ...{Loading}...
मूलम्

नख्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे ।
श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ॥11॥
विषू॑च॒श्शत्रू॑नप॒ बाध॑मानौ ।
अप॒ ख्षुध॑न्नुदता॒मरा॑तिम् ।

भट्टभास्कर-टीका

28नक्षत्राणामिति ॥ नक्षत्राणां मध्ये अधिपत्नी अधिकं पालयित्र्यौ विशाखे नक्षत्रं, तद्देवते इन्द्राग्नी श्रेष्ठौ प्रशस्यतमौ भुवनस्य भूतजातस्य गोपौ गोपयितारौ अतोऽस्माकं विषूचः विष्वग्गतान् इतश्चेतश्च पलायितान् अपबाधमानौ पीडयन्तौ अस्माकं क्षुधं अरातिं शत्रुस्थानीयाम् । यद्वा - क्षुधं अरातिं चापनुदताम् ॥

{इ॒न्द्रा॒ग्निभ्या॒ꣳ॒ स्वाहा॒ विशा॑खाभ्या॒ꣳ॒ स्वाहा॑।
श्रैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा॑।}

१४ विशाखे ...{Loading}...
विश्वास-टिप्पनी

α, β Librae। रामायणानुसारम् इक्ष्वाकूणां नक्षत्रम् - 6.4.51

मानसतरङ्गिणीकृत्
  • “The constellation of the Ikṣvāku-s according to the Rāmāyaṇa.”
  • “Observationally, one may attempt to see if 1 perceives beta Librae as having a green hue. Some people say so making it the only naked eye star with a greenness to it.”
पूर्णिमा
29 पूर्णा पश्चादुत ...{Loading}...

पू॒र्णा प॒श्चाद् उ॒त पू॒र्णा पु॒रस्ता॑त्।
उन् म॑ध्य॒तᳶ पौ॑र्णमा॒सी जि॑गाय +++(शत्रून्)+++।
तस्या॑न् दे॒वा अधि॑ स॒व्ँवस॑न्तः
उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम्

29 पूर्णा पश्चादुत ...{Loading}...
मूलम्

पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् ।
उन्म॑ध्य॒तᳶ पौ᳚र्णमा॒सी जि॑गाय ।
तस्या᳚न्दे॒वा अधि॑ स॒व्ँवस॑न्तः ।
उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ।

भट्टभास्कर-टीका

पूर्णा पूरिता पूर्णचन्द्रसंबन्धात् पञ्चदशी तिथिः (पूर्णेति स्थितिः) पूर्णेत्युच्यते । सा पश्चात् तिथेरन्ते पूर्णा, उत अपि च पुरस्तादादौ च पूर्णा, मध्यतश्च पूर्णा । तस्यां हि तिथौ सर्वसवितृकरणामनुप्रवेशेन भासमानाशेषमण्डलश्चन्द्रो भवति । यद्यपि परमार्थतः तिथ्यन्ते सर्वात्मना चन्द्रः पूर्यते । तथाप्युपलद्भयभिप्रायेणैवमुक्तं, आरम्भात्प्रभृति तस्यां मण्डलं पूर्णमुपलभामहे न तिथ्यन्तरवत् न्यूनमुपलभ्यते । ‘वा दान्तशान्त’ इति ण्यन्तस्य पूर्णेति निपात्यते । एवं त्रिष्वपि कालेषु पूर्णचन्द्रोस्यामिति पूर्णमासी तिथिः । मसी परिमाणे, ण्यन्तात्क्विप् । मित्रः परिमितिहेतुः । मिमीतेर्वा असुनि माः, पूर्णश्चासौ माश्च पूर्णमाः, तस्येयं पौणर्मासी पञ्चदशी । यद्वा - पूर्णो मा अस्मिन्निति पूर्णमासः पर्वान्तः कर्मविशेषो वा । अच्समासान्तः । यद्वा - करणे घञ्, मासः चन्द्रः, तत्सम्बन्धिनी पौणर्मासी । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । सा उज्जिगाय उज्जयत्यन्याः तिथीः । उत्कृष्टा भवतीति यावत् । छान्दसे लिटि ‘सन् लिटोर्जेः’ इति कुत्वम् । तस्यां तादृश्यां देवा अधिसंवसन्त एकीभूय वर्तमाना उत्तमे उद्गततमे नाके सुखैकरूपे इहास्मिन् लोके मादयन्ताम् । मद तृप्तियोगे, चौरादिकः, उत्तमशब्द उञ्छादिरन्तोदात्तः ॥


पूर्णा पश्चात् । पुरस्ताच्च पूर्णा । मध्यतश्च पूर्णा । तस्मात् पौर्णमासी पूर्णेन च चद्रमसा योगात् सेयं पौर्णमासी उज्जिगाय अन्याः स्थितीरुज्जयति, तस्यामधिसंवसन्तो देवा उत्तमे नाकस्थानीये अस्मिन् स्थाने मादयन्तां माद्यन्तु ॥

भट्टभास्कर-टीका

29पौर्णमास्याः - पूर्णा पश्चादिति ॥ व्याख्याता पञ्चमाद्ये ॥

30 पृथ्वी सुवर्चा ...{Loading}...

पृ॒थ्वी +++(=विस्तीर्णा)+++ सु॒वर्चा॑ युव॒तिः स॒जोषाः॑।
पौ॒र्ण॒मा॒स्य् उद॑गा॒च् छोभ॑माना।
+++(दुर्गतिपरिहारेण)+++ आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा॑।
उ॒रुन्+++(=विस्तीर्णाम्)+++ दुहा॒य्ँ +++(लिङ्गव्यत्ययः विभिक्तिव्यत्ययो वा)+++ यज॑मानाय य॒ज्ञम्।

30 पृथ्वी सुवर्चा ...{Loading}...
मूलम्

पृ॒थ्वी सु॒वर्चा॑ युव॒तिस्स॒जोषाः᳚ ।
पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना ।
आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा᳚ ।
उ॒रुन्दुहा॒य्ँयज॑मानाय य॒ज्ञम् ॥12॥

भट्टभास्कर-टीका

30पृथ्वीति ॥ पृथ्वी विस्तीर्णा सुवर्चाः शोभनन्दीप्तिः युवतिः मिश्रिणी सजोषाः समानप्रीतिः अस्माभिः सर्वाभिर्वा प्रजाभिः पौर्णमासी तिथिः उदगात् उदेति उच्छ्रितिमागच्छति । शोभमाना आप्याययन्ती वर्धयन्ती विश्वानि दुरितानि दुरितवन्ति दुर्गतिनिवारणेनाप्याययन्ती सा यजमानाय उरुं विस्तीर्णं यज्ञं दुहां दुग्धाम् । ‘लोपस्त आत्मने पदेषु’ इति तलोपः ॥

इति तैत्तिरीयब्राह्मणे तृतीयाष्टके प्रथमप्रपाठके प्रथमोऽनुवाकः ॥

{पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहा ग॑त्यै॒ स्वाहा॑}