०१

01 अथातः सामयाचारिकान्धर्मान्व्याख्यास्यामः ...{Loading}...

अथातः सामयाचारिकान् धर्मान् व्याख्यास्यामः १

02 धर्मज्ञसमयः प्रमाणम् ...{Loading}...

धर्मज्ञ-समयः प्रमाणम्

03 वेदाश्च ...{Loading}...

वेदाश् च ३

04 चत्वारो वर्णो ब्राह्मणक्षत्रियवैश्यशूद्राः ...{Loading}...

चत्वारो वर्णा ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः ४

05 तेषाम् पूर्वस्पूर्वो जन्मतः ...{Loading}...

तेषां पूर्वस्-पूर्वो जन्मतः श्रेयान् ५

06 अशूद्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयम् फलवन्ति ...{Loading}...

अशूद्राणाम् अदुष्टकर्मणाम् उपायनं वेदाध्ययनम् अग्न्याधेयं फलवन्ति च कर्माणि

07 शुश्रूषा शूद्रस्येतरेषां वर्णानाम् ...{Loading}...

शुश्रूषा शूद्रस्येतरेषां वर्णानाम् +++(फलवत् कर्म)+++७

08 पूर्वस्मिन्पूर्वस्मिन्वर्णे निःश्रेयसम्भूयः ...{Loading}...

+++(शूद्र-कृत-सेवा)+++ पूर्वस्मिन् पूर्वस्मिन् वर्णे निःश्रेयसम् भूयः ८

09 उपनयनं विद्यार्थस्य श्रुतितः ...{Loading}...

उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९

10 "सर्वेभ्यो वेदेभ्यः सावित्र्य् ...{Loading}...

“सर्वेभ्यो वेदेभ्यः सावित्र्य् अनूच्यत” इति हि ब्राह्मणम् १०

11 तमसो वा एष ...{Loading}...

तमसो वा एष +++(आगत्य)+++ तमः प्रविशति - यम् अविद्वान् उपनयते, यश् चाविद्वान् - इति हि ब्राह्मणम् ११

12 तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत् ...{Loading}...

तस्मिन्न् अभिजन-विद्यासमुदेतं समाहितं संस्कर्तारम् ईप्सेत् १२

13 तस्मिंश्चैव विद्याकर्मान्तमविप्रतिपन्ने धर्मेभ्यः ...{Loading}...

तस्मिंश् चैव विद्या-कर्म +आन्तम् अविप्रतिपन्ने धर्मेभ्यः १३

14 यस्माद्धर्मानाचिनोति स आचार्यः ...{Loading}...

यस्माद् धर्मान् आचिनोति स आचार्यः १४+++(5)+++

15 तस्मै न द्रुह्येत्कदाचन ...{Loading}...

तस्मै न द्रुह्येत् कदाचन १५

16 स हि विद्यातस्तञ् ...{Loading}...

स हि विद्यातस् तं जनयति १६

17 तच्छ्रेष्ठञ् जन्म ...{Loading}...

तच् +छ्रेष्ठं जन्म १७

18 शरीरमेव मातापितरौ जनयतः ...{Loading}...

शरीरम् एव माता-पितरौ जनयतः १८

19 वसन्ते ब्राह्मणम् उपनयीत, ...{Loading}...

वसन्ते ब्राह्मणम् उपनयीत, ग्रीष्मे राजन्यं शरदि वैश्यं,
गर्भाष्टमेषु ब्राह्मणं, गर्भैकादशेषु राजन्यं, गर्भ-द्वादशेषु वैश्यम् १९

20 अथ काम्यानि ...{Loading}...

अथ +++(उपनयन-विषये)+++ काम्यानि २०

21 सप्तमे ब्रह्मवर्चसकामम् ...{Loading}...

सप्तमे ब्रह्म-वर्चस-कामम् २१

22 अष्टम आयुष्कामम् ...{Loading}...

अष्टम आयुष्-कामम् २२

23 नवमे तेजस्कामम् ...{Loading}...

नवमे तेजस्-कामम् २३

24 दशमेऽन्नाद्यकामम् ...{Loading}...

दशमे ऽन्नाद्य-कामम् २४

25 एकादश इन्द्रियकामम् ...{Loading}...

एकादश इन्द्रिय-कामम् २५

26 द्वादशे पशुकामम् ...{Loading}...

द्वादशे पशु-कामम् २६

27 आ षोडशाद् ब्राह्मणस्यानात्यय, ...{Loading}...

आ षोडशाद् ब्राह्मणस्यानात्यय, आ द्वाविंशात् क्षत्रियस्य+ आ चतुर्विंशाद् वैश्यस्य - यथा व्रतेषु समर्थः स्याद् यानि वक्ष्यामः २७

28 अतिक्रान्ते सावित्र्याः काल ...{Loading}...

अतिक्रान्ते सावित्र्याः काल+++(य्)+++, ऋतुं +++(यावत्)+++ त्रैविद्यकं ब्रह्मचर्यं +++(अग्नि-परिचर्याम् अध्ययनं गुरु-शुश्रूषाम् इति परिहाप्य)+++ चरेत् २८

29 अथोपनयनम् ...{Loading}...

अथोपनयनम् २९

30 ततः संवत्सरम् उदकोपस्पर्शनम् ...{Loading}...

ततः संवत्सरम् उदकोपस्पर्शनम् ३०

31 अथाध्याप्यः ...{Loading}...

अथाध्याप्यः ३१

32 अथ यस्य पिता ...{Loading}...

अथ यस्य पिता पितामह इति अनुपेतौ स्यातां - ते ब्रह्म-ह-संस्तुताः ३२

33 तेषाम् अभ्यागमनम् भोजनं ...{Loading}...

तेषाम् अभ्यागमनं भोजनं विवाहम् इति च वर्जयेत् ३३

34 तेषाम् इच्छताम् प्रायश्चित्तम् ...{Loading}...

तेषाम् इच्छतां प्रायश्चित्तम् ३४

35 यथा प्रथमे ऽतिक्रम ...{Loading}...

यथा प्रथमे ऽतिक्रम ऋतुर् एवं संवत्सरः ३५

36 अथोपनयनं, तत उदकोपस्पर्शनम् ...{Loading}...

अथोपनयनं, तत उदकोपस्पर्शनम् ३६


    1. Samaya, ‘agreement, decision,’ is threefold. It includes injunction, restriction, and prohibition.
     ↩︎
  1. मातामहमहाशैलम् महस्तदपितामहम् । कारणं जगतो वन्दे कण्ठादुपरि वारणम् ॥१॥ इत्यधिक पाठ• क० पु० । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. दक्षस्मृ० अ० २ श्लो २९ ‘यदन्यत् कुरुते कर्म न तस्य फलभाक्भवेत् । इति तस्योत्तरार्धम् । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. गौ० ध० २१. ४.“अशुचेर्द्विजाती"ति. घ. पु ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. आप० ध० १.३०.८. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. आप० ध० १. ३१. १. ↩︎

  6. यत्किञ्चनदिड्मुखेन इति क० पु० । ↩︎

  7. प्रतिषेध परिसंख्येत्यनर्थान्तरम् । परिसङ्ख्या वर्जनबुद्धिः । तद्विषयको विधिः परिसंख्याविधिः । स परिसंख्यापदेनाऽप्यभिधीयते इति मीमांसकाना मतम् । अत एव

    विधिरत्यन्तमप्राप्ते नियम पाक्षिके सति ।
    तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ॥

    इत्येव वार्तिककारैरुक्तम् । ग्रन्थकारस्त्वयं परिसंख्या नियमविधावेवान्तर्भावयति ॥ ↩︎

  8. आप० ध० १ ३१. ६. ↩︎

  9. इदं च तर्किकादिमतमनुसृत्य प्रभाकरमतञ्च । भाट्टमते तत्तत्कर्मणामेव यागदानहोमादिरूपाणां चोदनालक्षणानां धर्मत्वाङ्गीकारात् । उक्तं हि भट्टपादैः-

    श्रेयो हि पुरुषप्रीतिस्सा द्रव्यगुणकर्मभिः ।
    चोदनालक्षणैस्साध्या तस्मात्तेष्वेव धर्मता ॥ इति । श्लो. वा. १२. १९१.

     ↩︎
  10. पक्षेऽप्राप्तांशस्य पूरणकरणादित्यर्थः । ↩︎

  11. तत्तन्निषेध्यक्रियाप्रागभावपरिपालनादिति यावत् । ↩︎

  12. यदि प्रमाणमिदमपि प्रमाणम् इति क० पु० ॥ ↩︎

  13. Manu II, 6, 12 Yājñ. I, 7; Gautama I, 1. ↩︎

  14. मनु० रमृ० २.६ ↩︎ ↩︎ ↩︎ ↩︎

  15. गौ० ध० १. १, २ ↩︎ ↩︎ ↩︎

  16. ‘मन्वादिभिरुपलभ्यते इत्यनुमीयते’ इति ख. पु. ↩︎ ↩︎ ↩︎

  17. आप० ध० १ १२.१०. ↩︎ ↩︎ ↩︎

  18. Manu II, 35. ↩︎

  19. यस्य यस्य, स सः इति द्विरुक्ति. क० पु० । ↩︎

  20. तै० ब्रा० १. १ २. ↩︎

  21. आप० परि० १.२ ↩︎

  22. गौ० ध० २१. ४. ↩︎

  23. Manu 1, 91, VIII, 410; and IX, 334; Yājñ. I, 120. ↩︎

  24. The use of the masculine in the text excludes women. For though women may have occasion to use such texts as ‘O fire, of the dwelling’ &c. at the Agnihotra, still it is specially ordained that they shall be taught this and similar verses only just before the rite is to be performed. ↩︎

  25. The object of the Sūtra is to remove a doubt whether the ceremony of initiation ought to be repeated for each Veda, in case a man desires to study more than one Veda. This repetition is declared to be unnecessary, except, as the commentator adds, in the case of the Atharva-veda, for which, according to a passage of a Brāhmaṇa, a fresh initiation is necessary. The latter rule is given in the Vaitāna-sūtra I, 1, 5. ↩︎

  26. Haradatta: ‘But this (latter rule regarding the taking of p. 3 another teacher) does not hold good for those who have begun to study, solemnly, binding themselves, to their teacher. How so? As he (the pupil) shall consider a person who initiates and instructs him his Ācarya, and a pupil who has been once initiated cannot be initiated again, how can another man instruct him? For this reason it must be understood that the study begun with one teacher may not be completed with another, if the first die.’ Compare also Haradatta on I, 2, 7, 26, and the rule given I, 1, 4, 26. In our times also pupils, who have bound themselves to a teacher by paying their respects to him and presenting a cocoa-nut, in order to learn from him a particular branch of science, must not study the same branch of science under any other teacher. ↩︎

  27. Manu II, 69; Yājñ. I, 15. ↩︎

  28. Manu II, 144. ↩︎

  29. Manu II, 146-148. ↩︎

  30. ‘Because it procures heavenly bliss and final liberation.’–Haradatta. ↩︎

  31. Manu II, 147. ↩︎

  32. Yājñ. I, 14; Manu II, 36; Āśvakāyana Gṛ. Sū. I, 19, 1, 4: Weber, Ind. Stud. X, 20 seq. ↩︎

  33. Manu II, 37. ↩︎

  34. -26. Āśv. Gṛ. Sū. I, 19, 5, 7; Weber, Ind. Stud. X, 21. ↩︎

  35. The meaning of the Sūtra is, that the initiation shall be performed as soon as the child is able to begin the study of the Veda. If it is so far developed at eight years, the ceremony must then be performed; and if it be then neglected, or, if it be neglected at any time when the capacity for learning exists, expiation prescribed in the following Sūtras must be performed. The age of sixteen in the case of Brāhmaṇas is the latest term up to which the ceremony may be deferred, in case of incapacity for study only. After the lapse of the sixteenth year, the expiation becomes also necessary. Manu II, 38; Yājñ. I, 37. ↩︎

  36. The meaning is, he shall keep all the restrictions imposed upon a student, as chastity, &c, but that he shall not perform the fire-worship or service to a teacher, nor study. Manu II, 39; XI. 192, Yājñ. I, 38; Weber, Ind. Stud. X, 101. ↩︎

  37. ‘If he is strong, he shall bathe three times a day–morning, midday, and evening.’–Haradatta. ↩︎

  38. Brahman, apparently, here means ‘Veda,’ and those who neglect its study may be called metaphorically ‘slayers of the Veda.’ ↩︎

  39. Manu II, 40; Āśv. Gṛ. Sū. I, 19, 8, 9; Weber, Ind. Stud. X, 21. ↩︎

  40. Compare above, I, 1, 1, 28. ↩︎