१० एकादशे दिने

वृषोत्सर्जनम्


एकादशाहे गृहं गोमयेन उपलिप्य,
पुण्याहं वाचयित्वा,
तेन जलेन गृहं प्रोक्ष्य,

वस्त्राणि शोधनार्थं रजकाय दत्वा,
प्रातः-काले वृषोत्सर्जनं कुर्यात् ।

लोहितो यस्तु वर्णेन
मुखे पृष्ठे च पाण्डरः ।
श्वेतः खुर-विषाणाभ्यां
स वृषो नील उच्यते ॥

इत्य् उक्तलक्षणं वा
सर्वं कृष्णवर्णं वा
यथासम्भव-वर्णं वा
द्विवर्षाधिकं वर्षाधिकं वा
वृषभम् उत्सृजेत् ।

एकादशेऽहनि वृषोत्सर्जनाकरणे
यदा कदाचित् स-पिण्डी-करणात् पूर्वं कुर्यात् ।

पति-पुत्रवत्याः स्त्रियाः स-गां वृषभम् उत्सृजेत् ।

पुत्रासन्निधाने भर्त्रा वान्येन वा (भर्ता वाऽन्यो वा) कर्ता चेत्
वृषभमेवोत्सृजेत् ।

अ-पुत्राया भर्तृमत्या गोदान-मात्रं कुर्यात् ।

[[42]]

अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य पाप-क्षयार्थं
प्रेतत्व-विमोचनार्थं
वृषोत्सर्जनं करिष्ये

इति सङ्कल्प्य,
वृषभं स्नाप्य, अलङ्कृत्य,
यो यद्-देवता-भक्तः
तच्चिह्नं पश्चात् दक्षिण-मूले अग्नि-तप्तेनायस्केन विलिख्य,
‘पिशङ्ग-रूपस् तलस्तुरीपम्’ इति द्वौ मन्त्रौ क्रमेण दक्षिण-वामयोः कर्णयोः, दक्षिणे कर्णे (वा) जपित्वा,
‘ऋचां प्राचीम्’ इत्य् अनुवाकेन तिल-मिश्र-जलं पाययित्वा
“एतं युवानम्” इत्य् अनुवाकेन अभिमन्त्र्य,

तं +++(प्रतिगृहीतुः?)+++ गोषु विसृज्य,
एकोद्दिष्ट-विधानेन यथाशक्ति ब्राह्मणान् भोजयेत् ।

वृषोत्सर्जनाशक्तौ एकादश-ब्राह्मण-भोजनं,
तद्-अशक्तौ तावन्-मात्र-पर्याप्तम् आमं वा, हिरण्यं वा ब्राह्मणाय दद्यात् ।

इति प्रयोगदर्पणे नवमः खण्डः

एकोद्दिष्टम्

आपदि

… एकादशेऽहनि द्रव्यस्य ब्राह्मणस्य वा अलाभे,
देश-विप्लवादौ वा
लौकिकाग्नौ घृत-पायसेन
“यमाय सोमम्” इति द्वात्रिंशद् आहुतीर् वा,
“उदीरताम् अवर उत्परास” इत्य् अष्टाभिः ऋग्भिः चतुर् वारं वा हुत्वा,

[[47]]

हुत-शेषेण पूर्ववत् पिण्डं दद्यात् ।

एवं प्रति-दिनम् एकं पिण्डं दत्वा
द्वादश-दिने त्रयोदश-दिने सप्त-विंशति-दिने वा
स-पिण्डी-करणात् पूर्वम् एकोद्दिष्टं कुर्यात् ।

कालः

सूतकेऽपि मातापित्रोः एकादशेऽहन्य् एव एकोद्दिष्ट-विधिः । सूतकेऽपि मातापित्रोः एकादशेऽहन्य् एव एकोद्दिष्टं कुर्यात् ।
अन्येषां तु सूतकान्ते
+++(१२, १३, २७ इति)+++ पूर्वोक्त-दिनेषु अन्यतमे वा कुर्यात् ।

पाषाणोत्थापन–प्रभूत-बल्येकोद्दिष्ट-श्राद्धानि
आहिताग्नेः दहनाद् इत्य् उक्त-दिनेषु कुर्यात् ।
अनाहिताग्नेः मरणादि-+एकोद्दिष्टदिने प्रेत-तृप्त्य्-अर्थं
निमित्त+++(-प्रेत)+++-व्यतिरेकेण दश ब्राह्मणान् भोजयित्वा,
तेभ्यः दक्षिणां दद्यात् ।

एकादशाह-व्यतिरिक्त-दिने एकोद्दिष्ट-श्राद्धे
नन्दा-चतुर्दश्यौ रोहिणी-पुष्योत्तरप्रोष्ठपद–रेवती-त्रि-पाद-नक्षत्राणि
स्वस्य चतुर्-विंशति-नक्षत्र–सप्त-विंशति-नक्षत्रे
संपत्-क्षेम-साधक-मैत्र-परम-मैत्राणि
स्वस्य स्त्री-पुत्रयोश् च त्रि-जन्मानि
गुरु-शुक्र-वासरौ च वर्जयेत् ।
सोम-बुधवारौ मध्यमौ ।

इति प्रयोगदर्पणे दशमः खण्डः

भगिनी-पुत्र–मातुलादि-श्राद्धम्

भगिनी-पुत्र–मातुलाचार्यादीनां
श्राद्ध-सङ्कल्प-विधानेन मात्रर्थे भगिन्य्-अर्थे इत्य् एकोद्दिष्टम्
आवाहन-विकिर-होम-पिण्ड-प्रदान-वर्जं कुर्यात् ।

निमन्त्रणादि


एकोद्दिष्टस्य तस्मिन्न् एव दिने ब्राह्मण-निमन्त्रणम्,
अन्य-श्राद्धस्य पूर्वेयुः।

एकादशाहे मध्याह्ने,

अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य
अद्य एकादशेऽहनि एकोद्दिष्ट-श्राद्धं करिष्ये

इति सङ्कल्प्य,
प्रत्यङ्-मुखस्य विप्रस्य हस्ते जलं दत्वा,

“अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य इदम् आसनम्”
इत्य्-आसनार्थं दर्भान् दत्वा,
पुनर् जलं दत्वा,

“एकोद्दिष्ट-श्राद्धे प्रेतार्थे भवता क्षणः कर्तव्यः” इति हस्ते दर्भान् दत्वा,
“ओं तथे"त्युक्ते
“प्राप्नोतु भवान्” इत्य् आमन्त्र्य,
“प्राप्नुवानी"ति प्रत्युक्ते,

[[43]]

पाद्यादि

आयस-व्यतिरिक्तेन शङ्कुना गज-पाद-प्रमाणं वृत्तं कुण्डं खात्वा, गोमयेनोपलिप्य,

अमुक-गोत्रस्य अमुक-शर्मणः प्रेतस्य पाद्यस्थाने इदम् आसनम्

इति कुण्डे दर्भान् निधाय

“इदम् अर्चनम्” इति तिलैर् अभ्यर्च्य

अमुक-गोत्राय अमुक-शर्मणे प्रेताय
इदं ते पाद्यम्

इति पादयोः पाद्यं दत्वा

जानु-पर्यन्तं जङ्घा-पर्यन्तं वा पाद-द्वयं प्रक्षाल्य,
स्वस्य च पादौ प्रक्षाल्य,
आचम्य, आचान्तम् आसने उपवेश्य,

अमुक-गोत्राय अमुक-शर्मणे प्रेताय
अन्तश्शुद्ध्य्-अर्थम् अयं ते कृसरम्,

इति कृसरम्+++(=तिलान्नम्)+++,
“आस्य-शुद्ध्य्-अर्थम् इदं ते ताम्बूलम्” इति ताम्बूलं च दत्वा,
“शरीर-शुद्ध्य्-अर्थम् इदं ते अभ्यञ्जनम्” इति तैलेनाभ्यज्य,
स्नापयित्वा, स्नात्वा,

होम-व्यवस्था

लौकिकाग्निं प्रतिष्ठाप्य,
दक्षिणा-प्रागग्रैः दर्भैः प्राग्-आद्य् अप्रदक्षिणं परिस्तीर्य
उत्तरान् उत्तरान् दक्षिणानधरान् कृत्वा,

अग्नेर् दक्षिणतो दर्भान् सँस्तीर्य,
तेष्व् औदुम्बरं मेक्षणम्+++(=चमसं)+++,
औदुम्बरीं दर्वीम्, आज्य-स्थालीं, प्रोक्षणी-पात्रं, पुनर् दर्वीं,
स-पवित्रम् अर्घ्यपात्रं, हविःपात्रं,
तिलान्, सिकतान्, मधु-गन्ध-पुष्पाणि च
एकैकशः सादयित्वा,

एकेन पवित्रेण प्रोक्षणीर् उत्पूय,
उत्तानानि पात्राणि प्रोक्ष्य,
आज्य-संस्कारे हविषा सह त्रिः पर्यग्नि कृत्वा
दर्व्यौ संस्कृत्य,

अर्घ्योत्पादनम्

पवित्रान्तर्हिते अर्घ्यपात्रे,

आ म आगच्छतु प्रेतो
देवयानान् समुद्रान् सलिलान् सवर्णान्।
अस्मिन् यज्ञे सर्वकामान् लभते
क्षीयमाणम् उपदुह्यताम्
इमां प्रेताय वो गृह्णामि

इत्य् अर्घ्यं गृह्णीयात्,
“…प्रेता देवयानान् … प्रेतायै वो गृह्णामी"ति स्त्रिया अर्घ्यं गृहीत्वा,
पवित्रम् उद्धृत्य,

[[44]]

तिलोऽसि सोम-देवत्यो
गोसवो देव-निर्मितः । प्रत्नवद्भिः प्रत्न स्वध एहि प्रेतम्
इमान् लोकान् प्रोणया हि नः
स्वधा नमः,

इत्य् अर्घ्ये तिलान् निक्षिपेत् ,
“… प्रेताम् इमान् लोकान्… " इति स्त्रियाः ।

पवित्रं निधाय,
“मधुवाता” इति प्रत्य्-ऋचं मधु गुडं वा प्रक्षिप्य
“सोमस्य त्विषिर् असी"ति सर्वाभिर् अङ्गुलीभिः अभिमृश्य,

“अवेष्टा दन्दशूकाः” इति तत्र यत् किञ्चिद् आदाय,
“निरस्तं नमुचेश् शिर” इति नैर्ऋत्यां निरस्य,

अप उपस्पृश्य,
“शन्नो देवीः”, इत्यर्घ्यम् अभिमन्त्र्य,

आसनम्

गन्धादिभिः अभ्यर्च्य,
दर्भैः दर्व्यादि प्रच्छाद्य,

अपहता असुरा रक्षाँसि
पिशाचा ये क्षियन्ति पृथिवीम् अनु ।
अन्यत्रेतो गच्छन्तु
यत्रास्य गतं मनः

इति तिलान् सिकतांश्च भुक्तिस्थाने प्रकिरेत्,
“यत्रास्या गतं मन” इति स्त्रियाः ।

उदीर्ताम् अवर उत् पर
उन्मध्यमः प्रेतस् सौम्यः ।
असुं य इयाद् अवृकर्तज्ञः ।
स नोऽवतु प्रेतो हवेषु

इत्य् अद्भिर् अवोक्षेत्,

उदीर्ताम् अवरोत्परोन्मध्यमा प्रेता सौम्या ।
असुं येयाद् अवृकर्तज्ञा सा नोऽवतु प्रेता हवेषु

इति स्त्रियाः ।

आ याहि प्रेत सोम्य
गम्भीरैः पथिभिः पूर्व्यैः
प्रजाम् अस्मभ्यं ददद्
रयिं च दीर्घायुत्वं च शत-शारदञ् च,

इति दक्षिणा-मुखस् तिष्ठन्
अग्नेर्दक्षिणतः प्रेतम् आवाहयेत्,
“आ याहि प्रेते सोम्ये … प्रजामस्मभ्यं ददती रयिञ्च …” इति स्त्रियाः ।

पूर्ववत् पादौ प्रक्षाल्य,
आसने उपवेश्य,
पूर्ववन् निमन्त्र्य,
हस्ते शुद्धोदकं प्रदाय,

अर्घ्य-दानम्

पवित्रं निधाय,
“अमुक-गोत्राय अमुक-शर्मणे प्रेताय इदं ते अर्घ्यम्” इत्यर्घ्यं दत्वा,
पवित्रम् आदाय,
अर्घ्य-पात्रे निधाय,
दर्भैः दर्व्या च प्रच्छादयेत् ।

[[45]]

अर्घ्य-पात्राणि विवृतानि न कुर्यात्,
नोद्धरेत्,
न पुनः पूरयेत् ।
दर्व्या आदाय अर्घ्यं दद्यात् ।
कृत्स्नार्घ्य-जले स्कन्ने शोषणे वा
“आपो हि ष्ठा मयोभुव” इति तिसृभिः,
“आ म आच्छन्त्व्” इति मन्त्रेण च पुनरर्घ्यं गृहीत्वा,
तिल-प्रक्षेपाद्य् आच्छादनान्तं कृत्वा
“ततं म आप” इति जुहुयात् ।

अनुज्ञा

अथ ब्राह्मणाय
वस्त्रोत्तरीय-गन्ध-पुष्प-शय्यासनोदक-पात्र–
कांस्य-पात्र–दीप-पात्रादीनि गो-भू-हिरण्यालङ्कारादीनि यथाशक्ति दत्वा
पूर्ववत् तिलोदकं दत्वा

गन्धादिभिर् अग्निम् अभ्यर्च्य
अग्नि-समीपे दक्षिणा-मुखं च +++(किम्??)+++ निधाय
दक्षिणतः प्रतिष्ठितं हविर् अभिघार्य
प्रदक्षिणं समन्तम् अग्निं परिषिच्य

“अग्नौ करिष्यामि” इति पृष्ट्वा,
“कुरुष्वे"ति प्रत्युक्ते,

होमः

दर्व्याम् उपस्तीर्य,
मेक्षणेन हविर् मध्यात् सकृद् अवदाय, अभिघार्य,

अमुक-गोत्राय अमुक-शर्मणे प्रेताय यमाय च स्वाहा

इत्य् अग्नौ दक्षिणार्धे हुत्वा,
अहविष्यं च “स्वाहे"ति उत्तर-भस्मनि हुत्वा
मेक्षणम् अग्नौ प्रहृत्य,
पूर्ववत् परिषिच्य,

हुत-शेषम् अन्नं स-व्यञ्जनं भुक्ति-पात्रे दत्वा,

भोजनम्

पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि
ब्राह्मणस्य त्वा प्राणापानयोर् जुहोम्य्
अक्षितमसि
मास्य क्षेष्ठा अमुत्रामुष्मिन् लोके,

इति ब्राह्मणस्य दक्षिण-हस्तेन अन्नं व्यञ्जनानि स्पर्शयित्वा,

तस्य दक्षिणम् अङ्गुष्ठ-नख-प्रदेशम् “इदं विष्णुः” इत्यन्ने निवेश्य

परिषेचयित्वा
आपोशनं कारयित्वा,

“प्राणे निविष्टोऽमृतं जुहोमि”, इति पञ्चभिः भुञ्जानं समीक्ष्य

“ब्रह्मणि म आत्मामृतत्वाय”,

इत्य् आत्मानं समीक्ष्य,

“यथासुखं जुषस्व” इत्युक्त्वा,
तम् ऊर्ध्वं भुञ्जानं न पश्येत् ।

[[46]]

भुक्ते द्विजे
अपेक्षितं पृष्ट्वा
“सम्पन्नम्?” इत्युक्त्वा
“सु (अस्तु) सम्पन्नम्” इत्युक्ते,
“तृप्तोऽसि” इत्युक्त्वा,
“तृप्तोऽस्मि” इति प्रत्युक्ते,
आपोशनं कारयित्वा
आचान्ते
“स्वदितम्” इत्युक्त्वा,
“अस्तु स्वदितम्” इति प्रत्युक्ते

पिण्ड-दानम्

पूर्ववद् अर्घ्यं दत्वा,
ताम्बूल-वस्त्र-हिरण्योपानच्-छत्त्रादीनि दक्षिणां च दत्वा,
अग्नेर् दक्षिणतः दर्भान् सँस्तीर्य,

“तेषु मार्जयतां मम पिता प्रेत” इत्य् अपो मार्जयित्वा,
“अमुक-गोत्राय अमुक-शर्मणे प्रेताय एतं पिण्डं ददामि” इति नालिकेर-प्रमाणं पिण्डं दत्वा,
“अमुक-गोत्र अमुक-शर्मन् प्रेत! एतं पिण्डम् उपतिष्ठ” इत्य् उक्त्वा,
+++(पिण्ड-)+++पात्र-संक्षालनोदकेन पिण्डं त्रिः अप्रदक्षिणं परिषिच्य,
पूर्ववत् मार्जयित्वा
अधो-मुखानि पात्राणि कृत्वा
“तृप्यत” इति त्रिः उक्त्वा

पात्राणि प्रोक्ष्य
उत्तानानि कृत्वा

प्रस्थापनादि

“अक्षय्यम्” इत्युक्त्वा
“अस्त्व् अक्षय्यम्” इति प्रत्युक्ते,
अग्निसमीपे स्थापितम् उद-कुम्भं दक्षिणां च दत्वा
प्रणम्य,
उत्तिष्ठताम् इत्य् उत्थाप्य, अनुव्रज्य,
प्रदक्षिणीकृत्य, उपचारान् उक्त्वा,
तं विसृज्य,
भुक्ति-शिष्टानि अन्नव्यञ्जनानि, पिण्ड-दर्भ-होम-पात्राणि च अप्सु प्रक्षिप्य
स्नात्वा, गृहं गत्वा, पुण्याहं वाचयेत् ।