१५ अन्नप्राशनम्

१६ ०१ जन्मनोऽधि षष्ठे

१६ ०१ जन्मनोऽधि षष्ठे ...{Loading}...

जन्मनोऽधि षष्ठे मासि ब्राह्मणान् भोजयित्वाऽऽशिषो वाचयित्वा दधि मधु घृतमोदनमिति सँसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् ।

११ -१४ भूरपान् त्वौषधीनाम् ...{Loading}...

भूर् अ॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि।
शि॒वास्त॒ आप॒ ओष॑धयस् सन्त्व्,
अनमी॒वास्त॒ आप॒ ओष॑धयस् सन्त्व् असौ+++(→नामनिर्देशः)+++ ।

भुवो॒ऽपाꣳ …।
सुव॑र॒पां …।
भूर्भुव॒स्सुव॑र॒पां …।

तैत्तिरेण माँसेनेत्य् एके २

१६ ०२ तैत्तिरेण माँसेनेत्येके

१६ ०२ तैत्तिरेण माँसेनेत्येके ...{Loading}...

तैत्तिरेण माँसेनेत्येके।