३१ शुक्रामन्थिग्रहप्रचारः

१उन्नीयमानेभ्योऽनुब्रू३हि । उन्नेताच्छावाकचमसवर्जं होतृचमसमुख्यान्नवचमसान् खरे एवोन्नयति । द्रोणकलशात् परिप्लवयादायोपस्तीर्य पूतभृत उदचनेनादायोन्नीय परिप्लवया द्रोणकलशादभिघारयति । सर्वचमसानामेष एव कल्पः । ततश्शुक्रामन्थिभ्यां प्रचरतः । स्तुतोऽसि जनधाः । देवास्त्वा शुक्रपाः प्रणयन्तु शुक्रमध्वर्युरादत्ते । स्तुतोऽसि जनधाः । देवास्त्वा मन्थिपाः प्रणयन्तु मन्थिनं प्रतिप्रस्थाता । चमसांश्चमसाध्वर्यवः । तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्यामधस्तात् पांसूनपध्वंसयतः । अपनुत्तश्शण्डस्सह पाप्मना अध्वर्युः । अपनुत्तो मर्कस्सह पाप्मना प्रतिप्रस्थाता । तावपिगृह्य प्राञ्चौ निष्क्रामतः । उर्वन्तरिक्षमन्विहि द्विः अभिप्रव्रजतः । इन्द्रेण मन्युना युजावबाधे पृतन्यता । घ्नता वृत्राण्यप्रति शुक्रं यजमानोऽन्वारभत आ होमात् । अपरेणोत्तरवेदिं ग्रहावरत्नी वा सन्धत्तः । ब्रह्म सन्धत्तं तन्मे जिन्वतम् । क्षत्रꣳ सन्धत्तं तन्मे जिन्वतम् । इषꣳ सन्धत्तं तां मे जिन्वतम् । ऊर्जꣳ सन्धत्तं तां मे जिन्वतम् । रयिꣳ सन्धत्तं तां मे जिन्वतम् । पुष्टिꣳ सन्धत्तं तां मे जिन्वतम् । प्रजाꣳ सन्धत्तं तां मे जिन्वतम् । पशून् सन्धत्तं तान्मे जिन्वतम् । अनाधृष्टासि पादांगुष्टाभ्यां उत्तरवेदिमवगृह्य । व्यपरिफन्ताविवोत्तरवेदिं १ परिक्रामतः । सुवीराः प्रजाः प्रजनयन्परीहि शुक्रश्शुक्रशोचिषा दक्षिणेनाध्वर्युः प्रतिपद्यते । सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशोचिषा उत्तरेण प्रतिप्रस्थाता । अग्रेणोत्तरवेदिं ग्रहावरत्नी वा सन्धत्तः । सञ्जग्मानौ दिव आ पृथिव्यायुः । सन्धत्तं तन्मे जिन्वतम् । प्राणꣳ सन्धत्तं तं मे जिन्वतम् । अपानꣳ सन्धत्तं तं मे जिन्वतम् । व्यानꣳ सन्धत्तं तं मे जिन्वतम् । चक्षुस्सन्धत्तं तन्मे जिन्वतम् । श्रोत्रꣳ सन्धत्तं तन्मे जिन्वतम् । मनस्सन्धत्तं तन्मे जिन्वतम् । वाचꣳ सन्धत्तं तां मे जिन्वतम् । अथैनावध्वर्युरभिमन्त्रयते आयुस्स्थ आयुर्मे धत्तम् । आयुर्यज्ञाय धत्तम् । आयुर्यज्ञपतये धत्तम् । प्राणस्स्थः प्राणं मे धत्तम् । प्राणं यज्ञाय धत्तम् । प्राणं यज्ञपतये धत्तम् । चक्षुस्स्थश्चक्षुर्मे धत्तम् । चक्षुर्यज्ञाय धत्तम् । चक्षुर्यज्ञपतये धत्तम् । श्रोत्रꣳ स्थश्श्रोत्रं मे धत्तम् । श्रोत्रं यज्ञाय धत्तम् । श्रोत्रं यज्ञपतये धत्तम् । तौ देवौ शुक्रामन्थिनौ । कल्पयतं दैवीर्विशः । कल्पयतं मानुषीः । इषमूर्जमस्मासु धत्तम् । प्राणान्पशुषु । प्रजां मयि च यजमाने च । अप्रोक्षितौ शकलौ बहिर्वेदि निरस्यतः । अध्वर्युः - निरस्तश्शण्डस्सह पाप्मना । प्रतिप्रस्थाता - निरस्तो मर्कस्सह पाप्मना । अप उपस्पृशतः । प्रोक्षितौ शकलावाधत्तः । अध्वर्युः - शुक्रस्य समिदसि । प्रतिप्रस्थाता - मन्थिनस्समिदसि । आश्राव्य प्रत्याश्राविते संप्रेष्यति । प्रातः प्रातस्सावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमान् प्रस्थितान् प्रेष्य मध्यतः कारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृतान् जुहुत होत्रकाणां चमसाध्वर्यवस्सकृत्सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वम् । ततस्सम्प्रैषवत् कुर्वन्ति । शुक्रामन्थिनोः प्रतिनिगद्य होमः । स प्रथमस्सङ्कृतिर्विश्वकर्मा । स प्रथमो मित्रो वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकित्वान् तस्मा इन्द्राय सुतमा जुहोमि स्वाहा अध्वर्युर्जुहोति । स प्रथमस्सङ्कृतिर्विश्वकर्मा । स प्रथमो मित्रो वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकित्वान् । तस्मै सूर्याय सुतमा जुहोमि स्वाहा प्रतिप्रस्थाता जुहोति । पुरस्तात्प्रत्यञ्चौ अध्वर्यू जुहुतः पश्चात्प्राञ्चश्चमसैश्चमसाध्वर्यवो जुह्वति । इन्द्राय परमात्मन इदम् । अनुवषट्कारे अग्नये स्विष्टकृत इदम् । होतृब्रह्मोद्गातृयजमानसदस्यचमसानां ग्रहयोश्च वषट्कारेऽनुवषट्कारे च सशेषहोमः । इतरचमसानां प्रथमवषट्कारे एव सशेषहोमः । नानुवषट्कारे १। अध्वर्युः - सूदवत्२ शुक्रपात्रमायतने सादयति । प्रतिप्रस्थता उत्तरार्धात् बहिः परिध्यङ्गारान्निर्वर्त्य तस्मिन्मन्थिनस्संस्रावं जुहोति एष ते रुद्र भागो यन्निरयाचथास्तं जुषस्व विदेर्गौपत्यꣳ रायस्पोषꣳ सुवीर्यꣳ संवत्सरीणाꣳ स्वस्तिꣳ स्वाहा । रुद्राय वास्तोष्पतय इदम् । अप उपस्पृश्य । ततस्संप्रेष्यति प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य प्र सदस्यस्य ।