०८ होतृचमसमैत्रावरुणचमसयोः परस्परं व्यानयनम्

उन्नेता होतृचमसं वसतीवरीश्चात्वालमानयति । अध्वर्युः - होतृचमसे वसतीवरीभ्योऽपो निषिच्य उपरि चात्वाले होतृचमसं मैत्रावरुणचमसं च संस्पर्श्य वसतीवरीर्व्यानयति । समन्यायन्तीत्यभिज्ञाय होतृचमसान्मैत्रावरुणचमसे वसतीवरीर्व्यानयति । मैत्रावरुणचमसाद्धोतृचमसे एतद्वा विपरीतम् ।