०१ उत्तम्भनादि

अथ उत्तम्भनादि

अथ तां पत्नीं
हस्तिना ऽश्वेन शिबिकया ऽन्दोलिकया मनुष्यादिना वा गृहं प्रापयेत् ।

रथेन प्रापणे ‘सत्येनोत्तभिता’ इति रथस्योत्तम्भनं कृत्वा
‘युञ्जन्ति ब्रध्नं’ ‘योगे योगे’ इति द्वाभ्यां दक्षिण-वामयोः क्रमेण वाहौ संयोज्य
रथादि-वाहनम् ‘आरोहेति’ ‘सुकिँशुकम्’ इति चतसृभिर् अभिमन्त्र्य
रथवर्तन्योः भाविन्योः दक्षिणवामयोः क्रमेण ‘नीललोहिते सूत्रे’ ‘नीललोहिते भवत’ इत्येतया व्यवस्तीर्य
तयोरुपरि ‘ये वध्वश्चन्द्रं वहतुम्’ इति तिसृभिः गच्छेत् ।

पत्न्याः पश्चाद् अवधानेन विवाहाग्निं हारयेत् ।

मार्ग-मध्ये पुण्य-नद्यादि-तीर्थ-स्थाणु-चतुष्पथ-व्यतिक्रमे ‘ताम् अन्दसाने’त्य् एतां जपेत् ।

‘अयं नो मह्याः पारम्’ इत्य् एतया नावम् अभिमन्त्रयेत् ।
न पत्नी नाविकान् पश्येत् ।
नदीं तीर्त्वा ‘अस्य पार’ इत्य् एतां जपेत् ।

श्मशानोपरिगमने पत्नी-भूषणादि-नाशे वा रथ-नाशे वा “यद्-ऋत”-आदि-होमः ।
‘यदृतादिहोमं करिष्य’ इति सङ्कल्प्य
अग्नि-प्रतिष्ठाद्य्–आज्य-भागान्ते पत्न्या ऽन्वारब्धो ‘यद् ऋतेचिद् अभिश्रवः’ इति सप्तभिः प्रतिमन्त्रं हुत्वा
जयाद्य्-अग्न्युपस्थानान्तं कुर्यात् ।

प्लक्ष-न्यग्रोधादि-क्षीर-वृक्षातिक्रमे ‘ये गन्धर्वाः’ इत्येतां जपेत् ।

नदी-मरु-कान्तारयोर् अतिक्रमे ‘या ओषधय’ इत्येतां जपेत् ।

[[29]]