१७ नवनीतलेपनं, अक्ष्णोः अञ्जनम् दर्भपुञ्जीलाभ्यां पवनम्

लेपनपर्याप्तं नवनीतं त्रेधा विभज्य एकं भागं महीनां पयोऽसि दर्भपुञ्जीलाभ्यां नवनीतमुद्यौति । वर्चोधा असि वर्चो मयि धेहि तेन पराचीनं त्रिरभ्यङ्क्ते । मुखमग्रे । अनुलोममङ्गानि । द्विस्तूष्णीं स्वक्तो भवति । वृत्रस्य कनीनिकासि चक्षुष्पा असि चक्षुर्मे पाहि सतूलया दर्भेषीकया शरेषीकया दर्भपुञ्जीलेन वा अभ्यन्तरं दक्षिणमक्षि येन केनाञ्जनेनाङ्क्तेऽनिधावमानः । सकृन्मन्त्रेण द्विस्तूष्णीम् । एवं सव्यम् । अथैनमुत्तरेण बहिः प्राग्वंशाद्दर्भपुञ्जीलानां एकविंशत्या त्रेधा विभक्तया सप्तभिस्सप्तभिः पवयति द्विरूर्ध्वं नाभेरुन्मार्ष्टि । सकृन्नाभेरधः । चित्पतिस्त्वा पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः नाभेरूर्ध्वमुन्मार्ष्टि । चित्पतिर्मा पुनातु इति यजमानो जपति तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयम् इति च । अध्वर्युः - वाक्पतिस्त्वा पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः पूर्ववदुन्मार्ष्टि । वाक्पतिर्मा पुनातु इति यजमानः तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयम्१ इति च । अध्वर्युः - देवस्त्वा सविता पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः नाभेरधोभागमन्वञ्चं सकृन्निमार्ष्टि अत्वरमाणः । देवो मा सविता पुनातु तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयम् यजमानो जपति ।