०६ द्वादशाहः

षोडशश्राद्धम्

श्वः सपिण्डीकरणं करिष्यमाणः पूर्वेद्युः सायं होमं हुत्वा अनश्नन् भुक्तवद्भ्यः,

अमुकगोत्रस्य अमुकशर्मणः प्रेतस्य श्व सपिण्डीकरणं भविता तत्र भवद्भिः प्रसादः करणीयः

इति विज्ञाप्य श्वोभूतो ब्राह्मणान् आहूय तेषां पुरतो यथाशक्ति दक्षिणां निधाय प्रणम्य,

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

अमुकगोत्रस्य अमुकशर्मणः अमुष्य प्रेतस्य सपिण्डीकरणश्राद्धं करिष्यन्, ऊनमासिकादीनि ऊनाब्दिकपर्यन्तानि पञ्चदश एकोद्दिष्टश्राद्धानि तत्तत्कालादाकृष्य कर्तुकामोऽस्मि तत्र ममाधिकारसिद्धिम् अनुगृहाण

इति विज्ञाप्य, तैः अनुज्ञातः

अमुकगोत्रस्य अमुकशर्मणः अमुकप्रेतस्य द्वादशेऽहनि सपिण्डीकरणश्राद्धं करिष्यन्, ऊनमासिकादीनि ऊनाब्दिकपर्यन्तानि पञ्चदश एकोद्दिष्टश्राद्धानि तन्त्रेण करिष्ये

इति सङ्कल्प्य, ऊनमासिकादिषु क्रमेण पञ्चदश ब्राह्मणान् प्रेतार्थे वृत्वा, वृत्ते कुण्डे पादान् प्रक्षाल्य, कृसरादीनि दत्वा, अग्निप्रतिष्ठाद्यर्घ्यग्रहणं भुक्तिदेशसंस्कारं प्रेतावाहनानि एकोद्दिष्टवत् कृत्वा, दर्व्या उपस्तीर्य हविर्मध्यात् मेक्षणेन पञ्चदशधा अवदायाभिघार्य पूर्ववत् हुत्वा,

[[78]]

पात्रस्पर्शपूर्वकं ब्राह्मणान् भोजयित्वा, ताबूलदक्षिणां च दत्वा, अग्नेः दक्षिणतो दर्भेषु पञ्चदश पिण्डान्दत्वा, तेषु पूर्ववत् सर्वं कुर्यात् ।

आमश्राद्धे

आमश्राद्धे तु “पञ्चदशैकोद्दिष्टश्राद्धानि आमरूपेण करिष्ये” इति सङ्कल्प्य, वरणपादप्रक्षालनगन्धपुष्पदानादीनि कृत्वा, सव्यञ्जनेः आमरूपैः एभिः श्राद्धैः प्रेतरूपी भगवान् जनार्दनः प्रीयताम् इति, तिलोदकमुत्सृज्य, ताम्बूलदक्षिणां च दत्वा, ब्राह्मणान् प्रस्थाप्य, ततः स्नात्वा धृतयज्ञसूत्रः, पुण्याहं कृत्वा दर्पण[[??]]तपादितसापिण्ड्याद्यग्निविधिना अग्निं सन्धाय सपिण्डीकरणं कुर्यात् ।

सपिण्डीकरणप्रयोगः

अथ कर्ता पादौ प्रक्षाल्य, आचम्य, प्राचीनावीती, तिलाक्षतान् गृहीत्वा, दक्षिणाभिमुखस्तिष्ठन्,

समस्तसम्पत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥

उपवीती ऋतुदक्षसंज्ञक-विश्वेभ्यो देवेभ्यः नमः । इत्यक्षतैः अभ्यर्च्य, प्राचीनावीती, “पितुः पितृपितामहपितामहेभ्यो नमः” इति तिलैरभ्यर्च्य, “निमित्ताय नमः” । उपवीती “श्राद्धसंरक्षकश्रीमहाविष्णवे नमः”, अक्षतैः अभ्यर्च्य,

[[79]]

प्राचीनावीती

देवताभ्यः पितुः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ॥

उपवीती प्रणम्य प्राचीनावीती

स्वामिनः अस्मिन् दिवसे गोत्रं शर्माणं पितरं प्रेतम् उद्दिश्य सपिण्डीकरणश्राद्धं कर्तुकामोऽस्मि अयं देशः कालश्च अस्मिन् गृहे वर्तमानाः पक्वापक्वपदार्थाः श्राद्धार्हा भूयासुः इदं क्षेत्रं गयाक्षेत्रसदृशं भूत्वा पितरं प्रेतमुद्दिश्य सपिण्डीकरणश्राद्धकरणे अधिकारसम्पदस्तु इति भवन्तो महान्तोऽनुगृह्णन्तु

इति प्रार्थ्य, “तथास्तु अधिकारसंपदस्त्वि"ति प्रतिवचनम् । उपवीती! उदङ्मुखस्स्थित्वा

श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
वस्वादींश्च पितुः पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तये ॥

“प्रवर्तय” इति प्रतिवचनम् उपवीती, दर्भेष्वासीन दर्भान् धारयमाणः पवित्रपाणिः त्रिः प्राणानायम्य, श्रीगोविन्देत्यादि । प्राचीनावीती

श्रीभगवदाज्ञया श्रीमन्नारायणप्रीत्यर्थं गोत्रस्य शर्मणः पितुः प्रेतस्य अद्य द्वादशेऽहनि अस्मिन् सपिण्डीकरणश्राद्धं करिष्ये

इति सङ्कल्प्य “कुरुष्व” इति प्रतिवचनम् । उपवीती, विश्वेदेवहस्तेऽपः प्रदाय

… गोत्रस्य … शर्मणः पितुः प्रेतस्य अद्य द्वादशेऽहनि अस्मिन् सपिण्डीकरणश्राद्धे ऋतुदक्षसंज्ञकविश्वेषां देवानाम् इदमासनं,

इत्यासनार्थं दर्भान् दत्वा, पुनरपः प्रदाय, हस्ते दर्भान् दत्वा, अङ्गुष्ठं गृहीत्वा,

गोत्रस्य शर्मणः श्राद्धे ऋतुदक्षसंज्ञकविश्वेदेवार्थे भवतो क्षणः कर्तव्यः ।

“ओं तथे"ति प्रतिवचनम् । “प्राप्नोतु भवान्” इत्युक्त्वा, “प्राप्नुवानि” इति प्रत्युक्ते अलङ्कारार्थे इमे अक्षताः ।

[[80]]

सकलाराधनैः स्वर्चितम् । प्राचीनावीती हस्तेऽपः प्रदाय ।

गोत्रस्य शर्मणः श्राद्धे वसुरुद्रादित्यस्वरूपअस्मत्पितुः पितृपितामहप्रपितामहानाम् इदमासनम् ।

पुनरपः प्रदाय,

गोत्रस्य शर्मणः श्राद्धे पितुः पितृपितामहप्रपितामहार्थे भवता क्षणः कर्तव्यः ।

“ओं तथा” । “प्राप्नोतु भवान्” । “प्राप्नुवानि” । अलङ्कारार्थे इमे तिलाः । सकलाराधनैः स्वर्चितम् ।

गोत्रस्य शर्मणः - श्राद्धे प्रेतस्य इदमासनम्,

इत्यासनं दत्वा,

गोत्रस्य शर्मणः - श्राद्धे प्रेतार्थे भवता क्षणः कर्तव्यः,

इति हस्ते दर्भान्न् दत्वा, “ओं तथेत्"युक्ते, “प्राप्नोतु भवान्” इत्यामन्त्र्य, “प्राप्नुवानि” इति प्रत्युक्ते, इमे तिलाः सकलाराधनैः स्वर्चितम् । उपवीती, हस्तेऽपः प्रदाय

गोत्रस्य शर्मणः - श्राद्धे श्राद्धसंरक्षकश्रीमहाविष्णो इदं ते आसनं,

पुनरपः प्रदाय,

गोत्रस्य शर्मणः - श्राद्धे विष्ण्वर्थे भवता क्षणः कर्तव्यः ।
ओं तथा । प्राप्नोनु भवान् ।
प्राप्नुवानि ।

अलङ्कारार्थे इमे अक्षताः सकलाराधनैः स्वर्चितम् । अथ औदुम्बरेण आयसव्यतिरिक्तेन अन्येन वा शङ्कुना उत्तरे चतुरमध्ये त्रिकोणं दक्षिणे मण्डलं च त्रीन् कुण्डान् आयामविस्तारान् तदर्थखातान् कृत्वा गोमयेन उपलिप्य,

गोत्रस्य शर्मणः श्राद्धे ऋतुदक्षसंज्ञकविश्वेषां देवानां पाद्यस्थाने इदमासनम् ।

इत्युत्तरकुण्डे दर्भान् निधाय, इदमर्चनम् इत्यक्षतैः अभ्यर्च्य,

[[81]]

प्राचीनावीती

गोत्रस्य शर्मणः प्रेतस्य अद्य द्वादशेऽहनि अस्मिन् सपिण्डीकरणश्राद्धे वसुरुद्रादित्यस्वरूपपितुः पितृपितामहप्रपितामहानां पाद्यस्थाने इदमासनम्

इति मध्यमकुण्डे दर्भान् निधाय, “इदमर्चनम्” इति तिलैः अभ्यर्च्य, “गोत्रस्य - श्राद्धे प्रेतस्य पाद्यस्थाने इदमासनम्” । इति दक्षिणकुण्डे दर्भान् निधाय, “इदमर्चनम्” इति तिलैः अभ्यर्च्य । उपवीती

गोत्रस्य शर्मणः श्राद्धे श्राद्धसंरक्षकश्रीमहाविष्णो इदं ते आसनम्

इति उत्तरकुण्डे दर्भान् निधाय “इदमर्चनम्” इति अक्षतैः अभ्यर्च्य उपवीती

गोत्रस्य शर्मणः श्राद्धे ऋतुदक्षसंज्ञकविश्वेदेवाः स्वागतम् । इदं वः पाद्यम् ।

इति साक्षतं पाद्यं दत्वा । आजान्वाजङ्घं वा पादद्वयम् उत्तरकुण्डे प्रक्षाल्य । प्राचीनावीती ।

गोत्रस्य शर्मणः श्राद्धे वसुरुद्रादित्यस्वरूपपितुः पितृपितामहप्रपितामहाः स्वागतम्, इदं वः पाद्यम्,

इति सतिलं पाद्यं दत्वा, पादौ प्रक्षाल्य । “गोत्रस्य श्राद्धे निमित्ताय इदं ते पाद्य"मिति सतिलं पाद्यं दत्वा, पादौ प्रक्षाल्य ।

गोत्रस्य श्राद्धे श्राद्धसंरक्षकश्रीमहाविष्णो स्वागतम्, इदं ते पाद्यम्

इति साक्षतं पाद्यं दत्वा, पादौ प्रक्षाल्य, आचम्य, आचमय्य, आसनेषु उपविश्य

गोत्रस्य - श्राद्धे ऋतुदक्षसंज्ञक-विश्वेदेवाः अन्तश्शुद्ध्यर्थम् अयं वः कृसरः

इति कृसरं दत्वा, आस्यशुद्ध्यर्थम् “इदं वस्तांबूलम्”, इति ताम्बूलं दत्वा, शरीरशुद्ध्यर्थम् “इदं वो अभ्यञ्जनम्” इत्यभ्यज्य, प्राचीनावीती ।

गोत्रस्य - श्राद्धे वसुरुद्रादित्यस्वरूपपितुः पितृपितामहप्रपितामहाः अन्तश्शुद्ध्यर्थम् अयं वः कृसरः, आस्यशुद्ध्यर्थमिदं वस्तांबूलम्, शरीरशुद्ध्यर्थम् इदं वो अभ्यञ्जनम् ।

[[82]]

गोत्रस्य - श्राद्धे निमित्तस्य अन्तश्शुद्ध्यर्थम् अयं ते कृसरः । आस्यशुद्ध्यर्थम् इदं ते ताम्बूलं, शरीरशुद्ध्यर्थम् इदं ते अभ्यञ्जनम् ।

उपवीती

गोत्रस्य - श्राद्धे श्राद्धसंरक्षकश्रीमहाविष्णो अन्तश्शुद्ध्यर्थम् अयं ते कृसरः आस्यशुद्ध्यर्थम् इदं ते ताम्बूलं, शरीरशुद्ध्यर्थम् इदं ते अभ्यञ्जनम् । अभ्यज्य स्नात्वा

अग्निप्रतिष्ठा

कर्ता स्नात्वा, ऊर्ध्वपुण्ड्रादिकं धृत्वा, पादौ प्रक्षाल्य गोमयेन चतुरश्रम् उपलिप्तायां भूम्यां दक्षिणारम्भं प्राचीस्तिस्रो रेखाः पश्चिमारम्भम् उदीचीस्तिस्रो रेखाः, दर्भादिना अडगुष्ठानामिकाभ्यां प्रादेशमात्रमुल्लिख्य अद्भिरवोक्ष्य दर्भादिकं नैर्ऋत्यां निरस्य अप उपस्पृश्य, तत्र व्याहृतित्रयेण अग्निं प्रतिष्ठाप्य याज्ञियैः इन्धनैः प्रज्वाल्य, परिसमूह्य अवोक्षणशेषं प्रागुदग्वा उत्सृज्य अन्यजलं पात्रे प्रागुदग्वा यथा परिस्तरणात् बहिः स्यात् तथा निधाय दक्षिणामुखः सव्यञ्जान्वाच्य, सव्यस्य पाणेः अङ्गुष्ठानामिकाभ्यां भूमिं स्पृष्ट्वा, प्राचीनावीती,

ये पार्थिवासः पितुः पितरो ये अन्तरिक्षे ये दिवि ये वा मृता बभूवुः ।
ते अस्मिन् यज्ञे समवयन्ताम्

इति जपित्वा, दक्षिणा प्रागग्रान् षोडश षोडश दर्भान् परिस्तरणानि कृत्वा ।

[[83]]

अर्घ्यपात्रादिसादनम्

अग्नेः उत्तरतो दर्भान् संस्तीर्य, तेषु दर्वीम् आज्यस्थालीं प्रोक्षणीं प्रणीतिम् इध्म इतरदर्वीं हविःपात्रं च प्रागपवर्गम् एकैकशः सादयित्वा, उपवीती अग्नेर्दक्षिणतः उदगग्रान् दर्भान् संस्तीर्य, सपवित्रं विश्वेदेवार्घ्यपात्रं यवांश्च सादयित्वा तत्पुरस्तात् दक्षिणाग्रान् दर्भान् संस्तीर्य, तेषु पित्रर्घ्यपात्रे पवित्रं तिलान् मधुसिकताहविःपात्रद्वयं चौदुम्बरं मेक्षणं च एकैकशः सादयित्वा । तत्पुरस्तात् दक्षिणाग्रेषु दर्भेषु सपवित्रं प्रेतार्घ्यपात्रं सादयित्वा । उपवीती विश्वेदेवार्घ्यपात्रोत्तरतः सपवित्रं विष्ण्वर्घ्यपात्रं यवादींश्च सादयित्वा, प्राचीनावीती समावप्रच्छिन्नाग्नौ प्रादेशमात्रौ दर्भौ काष्ठादिना छित्वा अप उपस्पृश्य । आमूलादारभ्य अद्भिरनुमृज्य पवित्रे कृत्वा, अग्नेः पश्चात् दर्भेषु प्रोक्षणीपात्रं निधाय, तस्मिन् पवित्रे उदगग्रे निधाय, उत्तानयोः प्रागग्रयोः दक्षिणवामयो पाण्योः अङ्गुष्ठानामिकाभ्यां पवित्रमूलाग्रे गृहीत्वा, प्रागपवर्गं त्रिरुत्पूय, दर्व्यादीन्यर्घ्यपात्राणि च उत्तानानि कृत्वा; विस्रस्येध्मं सर्वाभिः ताभिरद्भिः पवित्रपाणिस्त्रिः प्रोक्ष्य, सपवित्रे प्रणीतिपात्रे अप आनीय, पूर्ववत् उत्पूय, हस्ताभ्याम् आघ्राणसमम् उद्धृत्य पात्रसादनादुत्तरतः दर्भेषु सादयित्वा, पवित्रमादाय दर्भैः प्रच्छाद्य, अग्नेर्दक्षिणत ब्रह्माणं, दक्षिणतो दर्भेषु निषाद्य,

[[84]]

गोत्रस्य श्राद्धे होमकर्मणि ब्रह्माणं त्वां वृणीमहे - ब्रह्मणे नमः इदमासनं,

इत्युपचारान् उक्त्वा, सपवित्रायाम् आज्यस्थाल्याम् आज्यं निरुप्य, उदीचोऽङ्गारान्निरूह्य, तेष्वधिश्रित्य, ज्वलता दर्भमयेन उल्मुकेन वा आज्यमवद्योत्य द्वे दर्भे अङ्गुष्ठपर्वमात्रे प्रच्छिद्य अप उपस्पृश्य, प्रक्षाल्य युगपत् आज्ये प्रत्यस्य, प्रागादिप्रदक्षिणं त्रिः पर्यग्नि कृत्वा, आज्यस्थालीम् उदगुद्वास्य अङ्गारान्निरूह्य, आज्यस्थालीं स्वस्य पुरस्तात् निधाय पूर्ववत् पवित्रे गृहीत्वा, प्रागारभ्य, अनुद्धरन् पुनराहृत्य त्रिः उत्पूय पवित्रगन्थिं विस्रस्य अप उपस्पृश्य युगपदग्नौ प्रहृत्य, दर्व्यौ अग्नौ प्रतितप्य, दर्भे संमृज्य, पुनः प्रतितप्य, प्रोक्ष्य निधाय, दर्भान् अद्भिः संस्पृश्य अग्नौ प्रहरति ।

विश्वेदेवार्घ्यग्रहणम्

उपवीती - पवित्रान्तर्हिते विश्वेदेवार्घ्यपात्रे ।

शन्नो देवीरभिष्टय आपो भवन्तु पीतये शय्योरभिस्रवन्तु नः ।
गोत्रस्य शर्मणः प्रेतस्य अद्य द्वादशेऽहनि अस्मिन् सपिण्डीकरणश्राद्धे ऋतुदक्षसंज्ञकविश्वेभ्यो देवेभ्यो वो अर्घ्यं गृह्णामि,

इत्यपो निनीय पवित्रमुद्धृत्य,

यवोऽसि धान्यराजानो वारुणो मधुसंयुतः ।
निर्णोदस्सर्वपापानां पवित्रमृषिभिस्स्मृतम् ॥

इत्यर्घ्यं - पात्रे यवान्निक्षिप्य, पात्रे पवित्रं निधाय,

मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नस्सन्त्वोषधीः । मधु । मधु नक्तमुतोषसि मधुमत्पार्थिवँ रजः ।

[[85]]

मधु द्यौरस्तु नः पिता । मधु । मधुमान्नो वनस्पतिर्मधुमाम् अस्तु सूर्यः माध्वीर्गावो भवन्तु नः ।

मधु इति तिसृभिः प्रत्यृचं मधु गुडं वा निक्षिप्य

सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा पाहि दिद्योन्मा पाहि ।

इति सर्वाभिरङ्गुलीभिरभिमृश्य, दर्भेण लोडयित्वा वा । “अवेष्टा दन्दशूकाः”, इति तत्र पतितं तृणादिकमादाय, “निरस्तं नमुचेश्शिरः” इति नैर्ऋत्यां निरस्य, अप उपस्पृश्य,

शन्नो देवीरभिष्टय आपो भवन्तु पीतये ।
शय्योरभिस्रवन्तु नः,

इत्यर्घ्यमभिमन्त्र्य, गन्धादिभिरभ्यर्च्य, दर्भैः दर्व्या च प्रच्छाद्य ।

पित्रर्घ्यग्रहणम्

प्राचीनावीती पवित्रान्तर्हिते पित्रर्घ्यपात्रे

आ म आगच्छन्तु पितुः पितरो देवयानान् समुद्रान् सलिलान् सवर्णान् ।
अस्मिन् यज्ञे सर्वकामान् लभन्ते क्षीयमाणमुपदुह्यतामिमां,
… गोत्रस्य … शर्मणः पितुः प्रेतस्य अद्य द्वादशेऽहनि अस्मिन् सपिण्डीकरणश्राद्धे पितुः पितृपितामहप्रपितामहेभ्यः वो अर्घ्यं गृह्णामि

इत्यपो निनीय पवित्रमादाय,

तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।
प्रत्नवद्भ्यः प्रत्न स्वध एहि पितुः पितृनिमान् लोकान् प्रोणीहि नः स्वधा नमः,

इति तिलान् निक्षिप्य, पवित्रं निधाय, मधुप्रक्षेपाद्याच्छादनान्तं पूर्ववत् कुर्यात् ।

[[86]]

प्रेतार्घ्यग्रहणम्

प्रेतार्घ्यपात्रे पवित्रं निधाय,

आम आगच्छतु प्रेतो देवयानान् समुद्रान् सलिलान् सवर्णान् अस्मिन् यज्ञे सर्वकामान् लभते अक्षय्यमाणमुपदुह्यतामिमाम् ।
गोत्राय शर्मणे प्रेताय इदं ते जुष्टं गृह्णामि

इति जलं निनीय,

आ म आगच्छतु इमाम् । गोत्रायै नाम्न्यै प्रेतायै ते ।

इति स्त्रियाः पवित्रमुद्धृत्य ।

तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।
प्रत्नवद्भिः प्रत्न एहि प्रेतमिमान् लोकान् प्रीणीहि नः

इति तिलान् निक्षिप्य, प्रेतामिमान् लोकान् इति स्त्रियाः । पवित्रनिर्धानाद्याच्छादनान्तं पूर्ववत् कुर्यात् ।

विष्ण्वर्घ्यग्रहणम्

पवित्रान्तर्हिते विष्ण्वर्घ्यपात्रे ।

शन्नो देवी - स्रवन्तु नः । गोत्रस्य - श्राद्धे श्राद्धसंरक्षकश्रीमहाविष्णवे इदं ते अर्घ्यं गह्णामि,

पवित्रमुद्धृत्य, “यवोऽसि धान्य-स्मृतम्” । यवान्निक्षिप्य । पवित्रं निधाय मधुप्रक्षेपाद्याच्छादनान्तं पूर्ववत्कुर्यात् । नोद्धरेत् । न पुनः पूरयेत् । दर्व्यादायार्घ्यं दद्यात् ।

अर्घ्यजलस्कन्नप्रायश्चित्तम्

कृत्स्नार्घ्यजलस्कन्ने शोषणे वा । “आपो हि ष्ठा मयोभुव” इति तिसृभिः । तत्तन्मन्त्रेण च पुनरर्घ्यं गृहीत्वा ।

[[87]]

तिलाक्षतप्रक्षेपाद्याच्छादनान्तं पूर्ववत्कृत्वा । तत म आपस्तदुददायते पुनः ।

स्वाधिष्ठाधीतिरुचथाय शस्यते । अयँ समुद्र उत विश्वभेषजः ।
स्वाहाकृतस्य समुतृष्णुतर्भुवः ।

इति जुहुयात् ।

भुक्तिस्थलावोक्षणम्

प्राचीनावीती,

अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु ।
अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः,

इति भुक्तिस्थानं संमृज्य, प्रेतभुक्तिस्थाने यत्रास्य गतं मनः इति । यत्रास्या गतं मनः, इति स्त्रियाः ।

उदीरतामवर उत्परास उन्मध्यमाः पितरस्सोम्यासः ।
असुं य ईयुरवृका ऋतज्ञास्तेनोऽवन्तु पितरो हवेषु,

अद्भिरवोक्ष्य ।

उदीर्तामवरोत्परोन्मध्यमः प्रेतस्सोम्यः ।
असुं य इयायावृकर्तज्ञस्स नोऽवतु प्रेतो हवे ।

इति प्रेतभुक्तिस्थाने, अद्भिरवोक्ष्य ।

प्रेता सोम्या असुं येयाय वृकर्तज्ञा सा नोऽवतु प्रेता हवे ।

इति स्त्रियाः । ततो होमस्थानं गत्वा ।

आवाहनम्

उपवीती,

आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
ये अत्र विहिताश्श्राद्धे सावधाना भवन्तु ते ।
विश्वेदेवाश्शृणुतेमँ हवं मे ये अन्तरिक्षे य उपद्यविष्ठ ।
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ।

[[88]]

गोत्रस्य शर्मणः प्रेतस्य - श्राद्धे ऋतुदक्षसंज्ञिकविश्वान् देवान् आवाहयामि,

इत्यग्नेरुत्तरतः दर्भेषु आवाह्य,

गोत्रस्य शर्मणः श्राद्धे ऋतुदक्षसंज्ञिकविश्वेषां देवानामिदमासनम् । इदमर्चनम् ।

यवोदकमुत्सृज्य । प्राचीनावीती,

आ यात पितरस्सोम्या गम्भीरैः पथिभिः पूर्व्यैः ।
प्रजामस्मभ्यं ददतो रयिञ्च दीर्घायुत्वञ्च शतशारदञ्च ।
गोत्रस्य शर्मणः - श्राद्धे वसुरुद्रादित्यस्वरूपवितुः पितृपितामहप्रपितामहान् आवाहयामि,

इत्यग्नेर्दक्षिणतः दर्भेष्वावाह्य सकृदाच्छिन्नं

बर्हिपुर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् ।
अस्मिन्थ्सीदन्तु मे पितरस्सोम्याः पितामहाः प्रपितामहाश्चानुगैस्सह ।
गोत्राणां शर्मणां वसुरुद्रादित्यस्वरूपाणां पितुः पितृपितामहप्रपितामहानाम् इदमासनम्,

इत्यासनं दत्वा इदमर्चनम् इति तिलैरभ्यर्च्य,

ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं स्वधास्स्थ तर्पयत मे पितुः पितॄन्,

इति तिलोदकमुत्सृज्य ।

आ याहि प्रेत सोम्य गम्भीरैः पथिभिः पूर्व्यैः ।
प्रजामस्मभ्यं ददद्रयिञ्च दीर्घायुत्वञ्च शतशारदञ्च,
गोत्रं शर्माणं प्रेतम् आवाहयामि

इति अग्नेर्दक्षिणतः दर्भेषु प्रेतमावाह्य,

गोत्रस्य शर्मणः प्रेतस्य इदमासनम्

इत्यासनं दत्वा,

आ याहि प्रेते सोम्ये गभीरैः ददती रयीं च दीर्घायुत्वं च शतशारदं च ।
गोत्रां नाम्नीं प्रेताम् । आवाहयामि ।
गोत्रायाः नाम्न्याः प्रेताया इदम् आसनम्

इति स्त्रियाः । तिलोदकं दत्वा, उपवीती अग्नेरुत्तरतः ।

[[89]]

सहस्रशीर्षा पुरुषः दशाङ्गुलं गोत्रस्य शर्मणः श्राद्धे श्राद्धसंरक्षकश्रीमहाविष्णुम् आवाहयामि ।
पुरुष एवेदँ सर्वम् - रोहति ।
गोत्रस्य शर्मणः श्राद्धे श्राद्धसंरक्षकश्रीमहाविष्णो इदं ते आसनम्,

इत्यासनं दत्वा, इदमर्चनम्, इत्यक्षतैः….

उदकमुत्सृज्य, पूर्ववत् कुण्डेषु पादप्रक्षालनं वरणं कृत्वा,

अर्घ्यदानम्

विश्वेदेवहस्ते शुद्धोदकं दत्वा पवित्रं हस्ते निधाय,

या दिव्या आपः पयसा सम्बभूवुः या अन्तरिक्ष उत पार्थिवीर्याः ।
हिरण्यवर्णाः यज्ञियास्ता न आपश्शँ स्योना भवन्तु ।
गोत्रस्य श्राद्धे क्रतुदक्षसंज्ञिकविश्वेभ्यो देवेभ्य इदमर्घ्यं,

इत्यर्घ्यं दत्वा, “अस्त्वर्घ्यम्” इति प्रत्युक्ते, पुनश्शुद्धोदकं दत्वा, पवित्रमादाय अर्घ्यपात्रे निधाय

अर्चत प्रार्चत प्रियमेधासो अर्चतार्चन्त पुत्रका उत पुनर्न विष्ण्वर्चतार्चत प्रार्चत, इदं वो अर्चनम् ।
गन्धद्वारां श्रियम् ।
गोत्रस्य श्राद्धे क्रतुदक्षसंज्ञिकविश्वेदेवा देहालङ्करणार्थम् अमी वो गन्धाः । आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।
हृदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे ।
इमानि पुष्पाणि श्रीतुलसीदलानि च । धूरसि धूर्व धूर्वन्तं धूर्वतं योऽस्मान् धूर्वति त धूर्वयं वयं धूर्वामस्त्वं देवानामसि घ्राणतृप्त्यर्थम् अयं वो धूपः । उद्दीप्यस्व जातवेदोऽपघ्नन्निर्ऋतिं मम ।
पशूंश्च मह्यमावह जीवनं च दिशो दश ।

[[90]]

अवलोकनार्थम् अयं वो दोपः ।
युवा सुवासाः परिवीत आगात्स उ श्रेयान् भवति जायमानः ।
तं धीरासः कवय उन्नयन्ति स्वाधियो मनसा देवयन्त आच्छादनार्थम् उत्तरीयार्थम् इदं वस्त्रयुग्मम् ।
पवित्रार्थम् इमे दर्भाः ।

हस्ते शुद्धोदकं प्रदाय पवित्रमादाय हस्ते निधाय ।

या दिव्या… भवन्तु गोत्रस्य - श्राद्धे क्रतुदक्षसंज्ञिकविश्वेभ्यो देवेभ्यः इयं वो दक्षिाणातृप्तिः

इत्यर्घ्यजलं हस्ते निनीय, गोभूहिरण्यादि यथाशक्ति दत्वा, “अस्तु दक्षिणातृप्तिः” इति प्रत्युक्ते, पुनश्शुद्धोदकं दत्वा, पवित्रमादाय अर्घ्यपात्रे निधाय दर्भैः दर्व्या च प्रच्छाद्य,

विश्वेदेवाः सर्वोपचारार्थे इमे अक्षताः सकलाराधनैः स्वर्चितम् ।

प्राचीनावीती । पितुः पित्रादीनां पूर्ववत् शुद्धोदकं प्रदाय, पवित्रम् आदाय हस्ते निधाय ।

या दिव्या आपः - भवन्तु, गोत्रस्य - श्राद्धे पितुःपितृपितामहप्रपितामहेभ्यः स्वधा नमः स्वाहा, इदं वो अर्घ्यम्,

इत्यर्घ्यं दत्वा, पुनः शुद्धोदकं प्रदाय, पवित्रम् आदाय, अर्घ्यपात्रे निधाय, गन्धादि दत्वा, हस्ते शुद्धोदकं दत्वा, पवित्रमादाय, हस्ते निधाय, गोभूहिरण्यादि यथाशक्ति दत्वा,

या दिव्याः भवन्तु । गोत्रस्य - श्राद्धे पितृपितामहप्रपितामहेभ्यः स्वधा नमः स्वाहा, इयं वो दक्षिणा तृप्तिः

इत्यर्घ्यजलं हस्ते निनीय, “अस्तु दक्षिणातृप्तिः” इति प्रत्युक्ते, पवित्रमादाय अर्घ्यपात्रे निधाय, दर्भे दर्व्या च प्रच्छाद्य,

[[91]]

आवाहनादिसकलाराधनैः स्वर्चितम् इति तिले अभ्यर्च्य निमित्ताय विशेषेण दत्वा, धूपदीपवर्जं पितृवत् सर्वं कुर्यात् । उपवीती । विष्णोः विश्वेदेववत् अर्घ्यादि सर्वं कुर्यात् । प्राचीनावीती । परिधिनिधानाद्यग्निमुखान्तं कृत्वा प्राचीनावीती । उद्घ्रियता [[द्ध्रि??]] अग्नौ च क्रियताम् इत्यनुज्ञाप्य, पित्रर्थसादितहविःपात्रे पित्रर्थहविषः हविरादाय, हविष्यपात्रे व्यञ्जनादिकम् आदाय, अग्नेः उत्तरतः निधाय, अभिघार्य प्राचीनम् उदीचीनं वा उद्वास्य प्रतिष्ठितम् अभिघार्य, दर्व्याम् उपस्तीर्य द्विरवदाय सकृत् अभिघार्य, यन्मे पितुर्माता इत्यादिसप्तान्नाहुतीः पावणवत् हुत्वा, “स्वाहा पितुः पित्रे” इति षडाज्याहुतीश्च हुत्वा प्रेतार्थं पक्वमन्नं व्यञ्जनादिकं च आदाय, “अग्नौ करिष्ये” इति पृष्ट्वा, “कुरुष्व” इति प्रत्युक्ते अभिघार्य, दक्षिणतः प्रतिष्ठितं पुनः, अभिघार्य, एकोद्दिष्टवत् अन्नाहुतीः आज्याहुतीश्च हुत्वा उपवीती पात्रादिहोमशेषेण स्विष्टकृत् हुत्वा, प्राचीनावीती । “हविष्यं स्वाहा” इति हविष्यद्वयम् उत्तरभस्मति हुत्वा, परिध्यञ्जनादि प्रायश्चित्तं प्राणायामं परिषेचनम् प्रणीतावोक्षणं ब्रह्मोद्वासनम् अग्न्युपस्थानान्तं कृत्वा, तदनन्तरं सर्वत्र भोजनस्थाने आसनं दत्वा, अन्नं च पायसं भक्ष्यं व्यञ्जनं घृतु[[त??]]सूपकं च भुक्तिपात्रे दत्वा, प्राचीनावीती । “अन्नसंरक्षणार्थं रक्षोघ्नमन्त्रपठनं करिष्ये । सह वै देवानाम्” इत्यनुवाकम् उक्त्वा,

[[92]]

उपवीती भोक्तारः “आब्रह्मान्, किँस्विदासीत्, नमस्सहमानाय नमो दुन्दुभ्याय च” इत्यनुवाकचतुष्टयं ब्रूयुः । विश्वेदेवहस्ते शुद्धोदकं प्रदाय । पृथिवी ते पात्रम् इत्यादि पार्वणवत् यवोदकम् उत्सृज्य, प्राचीनावीती । पितुः पित्रादीनां पात्रस्पर्शनं कृत्वा । “एष ते पितुस्तत” इत्यादि जपित्वा, “पृथिवी ते पात्रम्” इत्यादि पितुः पितामहप्रपितामहेभ्यः इति प्रत्याब्दिकवत् तिलोदकम् उत्सृज्य निमित्तभुक्तिपात्रे प्रेताहुतिशेषं दत्वा, पात्रस्पर्शादिकम् एकोद्दिष्टवत् तिलोदकम् उत्सृज्य, उपवीती, विष्णुपात्रस्पर्शनं कृत्वा, “पृथिवी ते पात्रम्” इत्यादि विश्वेदेववत् यवोदकम् उत्सृज्य, प्राचीनावीती,

यज्ञेश्वरो हव्यसमस्तकव्यभोक्ताव्ययात्मा हरिरीश्वरोऽत्र ।
तत्सन्निधानात् अपयान्तु सद्यः रक्षांस्यशेषाण्यसुराश्च सर्वे
एको विष्णुः

इत्यादिदेवपितृमध्ये दक्षिणाग्रान् दर्भान् संस्तीर्य, दक्षिणामुखः सव्यं जान्वाच्य, “सर्वाकारो भगवान् स देवः श्रीजनार्दनः प्रीयताम्” इति यवसहितं तिलोदकम् उत्सृज्य, सर्वत्र परिषेचनं कारयित्वा, “अमृतोपस्तरणमसि” इत्यापोशनं कारयित्वा, “प्राणे निविष्टोऽमृतं जुहोमि”, इति पञ्चभिः प्राणाहुतीः कारयित्वा, ब्राह्मणानाम् इतरहस्ते शुद्धोदकं दत्वा, “यथासुखं जुषध्वम्”, इत्युक्त्वा, “मधु वाता भवन्तु नः । मधु मधु मधु” । इत्युक्त्वा, उपचारान् उक्त्वा, भुञ्जानेषु पुरुषसूक्तादीनि पितृसूक्तवर्जं श्रावयित्वा ।

[[93]]

प्राचीनावीती ।

अहमस्मि प्रथमजा ऋतस्य - अधि सर्वे तपन्तु । भुक्तेष्वेतेषु । स्वामिनः भगवन्निवेदितेषु पदार्थेषु किम् अपेक्षितम्

इत्यपेक्षितं पृष्ट्वा “स्वामिनः तीर्थं प्रसाद” इति वा पृष्टे “सकलं सम्पूर्णम्” इति तैः प्रत्युक्तः । “मधु वाता ऋतायते भवन्तु नः । ओं मधु मधु मधु” इत्युक्त्वा, उपवीती । “विश्वेदेवा मधु मधु सम्पन्नम्” इति पृष्ट्वा “अस्तु सम्पन्नम्” इति प्रत्युक्ते “विश्वे देवाः तृप्ताः स्थ” इत्युक्त्वा, “तृप्ता स्म” इति प्रत्युक्ते प्राचीनावीती केचित्

अक्षन्नमीमदन्त - हरी । वसुरुद्रादित्यस्वरूपपितुःपितृपितामहप्रपितामहाः मधु मधु सम्पन्नम् - अस्तु सम्पन्नम्

इति प्रत्युक्ते, वसु - “प्रपितामहाः तृप्ता स्थ - तृप्ताः स्म” इति प्रत्युक्ते । “निमित्तं सम्पन्नं, अस्तु संपन्नम्” इति प्रत्युक्ते । “निमित्त तृप्तोऽसि तृप्तोस्मि” इति प्रत्युक्ते । उपवीती । “विष्णो मधु मधु सम्पन्नम् - अस्तु सम्पन्नम्” इति प्रत्युक्ते “विष्णो तृप्तोऽसि तृप्तोऽस्मि” इति प्रतिवचनम् । उपवीती । असोमपाश्च - देविकम् । पुनश्शुद्धोदकम् । प्राचीनावीती, असंस्कृत- पैतृकम् । पुनश्शुद्धोदकम् । उपवीती । असंशयो - वैष्णवम् । पुनश्शुद्धोदकम् । इति विकिरं दत्वा, निमित्तस्थाने विकिरवर्जं, प्राचीनावीती देवपितृमध्ये पूर्ववत् दर्भान् संस्तीर्य, सव्यं जान्वाच्य, तेषु तिलोदकमुत्सृज्य, पिण्डं गृहीत्वा, “ये अग्निदग्धाः - मार्जयन्ताम्” इति पिण्डोपरि तिलोदकं दत्वा । उपवीती, आचम्य, प्राचीनावीती । “सर्वत्र अमृतापिधानमसि” इति सर्वत्र आपोऽशनं कारयित्वा,

[[94]]

पिण्डं वायसेभ्यो दत्वा, आचान्तम् आसनेषु उपवेश्य, अर्घ्यसमीपं गत्वा । उपवीती विश्वेदेवहस्ते शुद्धोदकं पवित्रं च निधाय,

या दिव्या आपः भवन्तु । गोत्रस्य - श्राद्धे क्रतुदक्षासंज्ञिकविश्वेभ्यः देवेभ्यः इयं वो भुक्तितृप्तिः, अस्तु भुक्तितृप्तिः

इति प्रत्युक्ते, पुनश्शुद्धोदकं, पवित्रमादाय, अर्घ्यपात्रे निधाय । प्राचीनावीती । पितुः पित्रादीनां हस्ते शुद्धोदकं पवित्रं च निधाय

या दिव्या आपः भवन्तु । गोत्रस्य - श्राद्धे पितुः पितृपितामहप्रपितामहेभ्यः इयं वो भुक्तितृप्तिः, अस्तु भुक्तितृप्तिः

इति प्रतिवचनम् । निमित्तस्य एकोद्दिष्टवत् । उपवीती । विश्वेदेववत् विष्णोः कुर्यात् । “रोचयत” इति “देवान् अस्तु रोचयत” इति प्रतिवचनम् । प्राचीनावीती । स्वदितम् इति पितॄन् वाचयित्वा । “अस्तु स्वदितम्” इति प्रत्युक्ते, सर्वत्र ताम्बूलं दक्षिणां च दत्वा, गोभूहिरण्यवस्त्राजाविकहस्तिदासीदासभूषणयवव्रीहिमाषतिलदण्डोपानच्छत्रकमण्डलुयानासनशयनोपधानैः यथाविभवं सम्पूज्य स्वस्ति वाचयित्वा, हस्तेषु उदकं दवा “अक्षय्यम्” इत्युक्त्वा “अस्त्वक्षय्यम्” इति तैः प्रत्युक्ते, “स्वधां वाचयिष्ये” इत्युक्त्वा “अस्तु स्वधा” इति तैः प्रत्युक्ते, भूमौ किञ्चित् जलं निनीय अधोमुखपात्राणि विन्यस्य, “विश्वेदेवाः प्रीयन्ताम्” इत्युक्त्वा, “प्रीयन्तां विश्वे देवाः” इति प्रत्युक्ते, “अन्नशेषैः किं क्रियताम्” इति पृष्टे, “इष्टैस्सह भुज्यताम्” इति विश्वेदेवैः प्रत्युक्ते, “दातारो नोऽभिवर्धन्तां” - कञ्चन इति प्रार्थ्य,

[[95]]

“दातारो वोऽभिवर्धन्तां - कञ्चन” इति प्रत्युक्ते, अधोमुखं पात्रम् उत्तानं कृत्वा उपवीती विप्रान् प्रदक्षिणीकृत्य, उपचारान् उक्त्वा, पादौ निपीड्य, प्राचीनावीती “वाजे वाजेऽवत देवयानैः” । इति जपित्वा, “उत्तिष्ठत पितुः पितरः” इति “उत्तिष्ठ प्रेत” इति, उपवीती, “उत्तिष्ठत विश्वेदेवाः” इति “उत्तिष्ठ विष्णो” इति क्रमेण ब्राह्मणान् उत्थाप्य, उपवीती आद्वारम् अनुव्रज्य, प्रदक्षिणीकृत्य, आचम्य आगत्य, अग्नेः दक्षिणतः त्रेधा दक्षिणाग्रान् दर्भान् संस्तीर्य, पूर्ववत् दर्भेषु

मार्जयन्तां पितुः पितरः, मार्जयन्तां पितुः पितामह्यः, मार्जयन्तां पितुः प्रपितामहाः पश्चिमदर्भेषु मार्जयन्तां मातरः मार्जयन्तां पितामह्यः, माजयन्तां प्रपितामह्यः,

इत्यादिभ्यश्च पितुरर्घ्यजलमुत्सृज्य,

एतत्ते पितुस्तत शर्मन् - ये च त्वामनु ।
एतत्ते पितुः पितामह-शर्मन् । ये च त्वामनु ।
एतत्ते पितुः प्रपितामह-शर्मन् ये च त्वामनु ।
एतत्ते मातः अमुकदे - याश्च त्वामनु ।
एतत्ते पितामहि - अमुकदेयाश्च त्वामनु

इत्यादि षट् पिण्डान् दत्वा, मध्यमदर्भेषु “मार्जयतां मम पिता प्रेत” इति प्रेतार्घ्यजलम् उत्सृज्य,

गोत्राय शर्मणे प्रेताय एतं पिण्डं ददामि

इति द्वादशाङ्गुलायामम् अश्वखुरस्थूलं पिण्डं दत्वा,

गोत्र शर्मन् पितः प्रेत एतं पिण्डम् उपतिष्ठ

इत्युपस्थाय ।

अर्घ्यसंयोजनम्

ब्राह्मणान् अनुज्ञाप्य, उयवीती प्राणानायम्य,

[[96]]

प्राचीनावीती ।

अस्यां पुण्यतिथौ … गोत्रस्य … शर्मणः पितुः प्रेतस्य अस्मिन् सपिण्डीकरणश्राद्धे प्रेतत्वविमोचनार्थं वस्वादिपितृलोकावाप्त्यर्थम् अर्घ्यसंयोजनं पिण्डसंयोजनं च करिष्ये

इति सङ्कल्प्य सव्यं जान्वाच्य,

समानो मन्त्रस्समितिस्समानी । समानं मनस्सह चित्तमेषाम् ।
समानं केतो अभिसँ रभध्वम् । संज्ञानेन वो हविषा यजामः ।
समानी व आकूतिः । समाना हृदयानि नः ।
समानमस्तु वो मनः । यथा वस्सुसहासति

इति द्वाभ्यां प्रेतार्घ्यजलं पितुः पित्राद्यर्घ्यजले निनीय प्रेतपिण्डं त्रेधा विभज्य, पित्रादिपिण्डानां पुरतो निधाय उपवीती, प्राणानायम्य, प्राचीनावीती,

पिण्डसंयोजनकाले वैतरणीगोदानं करिष्ये

इति सङ्कल्प्य, श्रीमहाविष्णुरूपस्य ब्राह्मणस्य, “इदमासनम्, इदमर्चनम्” । गन्धपुष्पाणि दत्वा,

यमद्वारे पुरे घोरे तप्ता वैतरणी नदी ।
तां तर्तुं गां प्रदास्यामि ब्रह्मलोकजिगीषया

गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
तस्मादस्याः प्रदानेन अदश्शान्ति प्रयच्छ मे । अस्मै…. ब्राह्मणाय तच्छाखाध्यायिने तच्छर्मणे प्रतिग्रहीत्रे

यत्किञ्चिद्दक्षिणासहिताम् इमां गां तुभ्यमहं सम्प्रददे न मम,

इति ब्राह्मणाय दत्वा, उपवीती प्राणानायम्य, प्राचीनावीती, सङ्कल्प्य,

[[97]]

“पिण्डसंयोजनकाले दश दानानि करिष्ये” इति सङ्कल्प्य,

गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ।
रौप्यं लवणमित्याहुः दश दानाः प्रकीर्तिताः,

इति दशदानं यथावत् दद्यात् । अशक्तश्चेत् “हिरण्यरूपेण करिष्ये” इति सङ्कल्प्य,

हिरण्यगर्भ - प्रयच्छ मे इदं दशदानप्रत्याम्नायं यत्किञ्चित् हिरण्यं तुभ्यमहं संप्रददे न मम

इति श्रोत्रियाय दद्यात् । “मधु वाता ऋतायत” इत्यादि “माध्वीर्गावो भवन्तु नः” इत्यन्तेन “सङ्गच्छध्वम्” इत्यादि - “यथा वस्सुसहासति” इत्यन्तेन पितुः पित्रादिपिण्डैः प्रेतपिण्डभागत्रयं संयोज्य,

मधु वाता - भवन्तु नः - सङ्गच्छध्वँ संवदध्वम् ।
सं वो मनाँसि जानताम् । देवा भागं यथा पूर्वे ।
सञ्जानाना उपासत । समानो मन्त्रस्समितिस्समानी ।
समानं मनस्सह चित्तमेषाम् । समानं केतो अभिसँ रभध्वम् ।
संज्ञानेन वो हविषा यजामः । समानो व आकूतिः ।
समाना हृदयानि वः । समानमस्तु वो मनः ।
यथावस्सुसहासति

इत्यादिभिः मन्त्रैः संयोज्य, उत्थाय ।

ये समानास्समनसः । पितरो यमराज्ये । तेषां लोकस्स्वधा नमः । यज्ञो देवेषु कल्पताम् । ये सजातो[[??]]स्समनसः । जीवा जीवेषु मामकाः । तेषाँ श्रीर्मयि कल्पताम् । अस्मिन् लोके शतँ समाः ।

इति पिण्डानुपस्थाय । इतः परं प्रतशब्दो नास्ति ।

[[98]]

संसृष्टेन अर्घ्यजलेन, “मार्जयन्तां मम पितरः” इत्यादिभिः मार्जयित्वा “ये च वोत्रे"त्यादिग्रासप्राशनान्तं कृत्वा, पिडान् अप्सु प्रक्षिपेत् । न मध्यपिण्डं पत्न्यै दद्यात् । स्नात्वा गृहं गत्वा, पुण्याहं वाचयेत् इत्येके । सोदकुम्भश्राद्धं कृत्वा, ब्राह्मणान् भोजयेत् ।

अत्र केचन विषयाः दर्पणकारैरेव स्पष्टं प्रतिपादिताः । अतः तेषाम् अनुक्रमणिकाकृद्भिः पुनः अनुक्रमणिका नाभ्यधायि इति सुधियो विदाङ्कुर्वन्तु । प्रयोगकृद्भागिनेयपुत्रेण वङ्गीपुरवंश्येन रामानुजदीक्षितसूनुना श्रीनिवासेन यथामति विरचिता प्रयोगदर्पणानुसारिणी अनुक्रमणिका सम्पूर्णा ।

॥ शुभमस्तु ॥