१२ उपाकर्म

अथोपाकर्म

श्रावण्यां पौर्णमास्यां प्रातःकाले, तैष्यां पौर्णमास्यामध्यायोत्सर्जनाकरणप्रायश्चित्तार्थम् अष्टोत्तरसहस्रं कामोऽकार्षीन्मन्युरकार्षीदिति मन्त्रजपं करिष्ये इति सङ्कल्प्य तं मन्त्रं जपेयुः । अथ ब्रह्मचारिणो वापयेयुः । अथ अपराह्ने श्रावण्यां पौर्णमास्याम् अध्यायोपाकर्म करिष्य इति सङ्कल्प्य कटिसूत्र, कौपीन,नवस्त्रोपवीतमौञ्ज्यजिनदण्डान् नवान् तत्तन्मन्त्रेण यथार्हं धृत्वा पुरातनान् परित्यज्य स्नात्वा आचम्य निवीतं कृत्वा ‘प्रजापतिं, सोममग्निं, विश्वान्देवान्, साँहितीर्याज्ञिकीः, वारुणीः, ब्रह्माणं स्वयम्भुवं, सदसस्पतिं च नव एतान् काण्डर्षीन् ऋषितीर्थेन तिलाक्षतोदकैः त्रिस्त्रिः तर्पयित्वा आचम्य शुष्कवस्त्रं धारयेयुः । अथ आचार्योऽग्निप्रतिष्ठाद्यग्निमुखान्ते शिष्यैरन्वारब्धः ‘प्रजापतये काण्डर्षये स्वाहे’त्यादिभिः नवभिः हुत्वा ‘इषे त्वा’ इत्यादीन् चतुरोऽनुवाकांश्च अध्याप्य जयाद्युपस्थानान्तं कुर्यात् ।

परेद्युः महानद्यां तत्सम्बन्धिनि वा जले स्नात्वा मिथ्याधीतप्रायश्चित्तार्थं सावित्र्या समित्सहस्रमाधास्यामीति सङ्कल्प्य अग्निं प्रतिष्ठाप्य परिस्तीर्य परिषिच्य प्रणवव्याहृतिपूर्वया सावित्र्या आज्याभ्यक्तं समित्सहस्रम् एकैकश आधाय परिषिच्य ‘अग्ने नय’ इत्यग्निमुपतिष्ठेत् । अथवा सावित्रीं सहस्रकृत्वो जपिष्यामीति सङ्कल्प्य प्रणवादीनाम् ऋष्यादिपूर्वकं प्राणायामत्रयादि कृत्वा सप्तव्याहृतिपूर्विकां गायत्रीं शिरसा सह दशवारं जपित्वा आयात्वित्याद्यावाहनादिपूर्वकं सहस्रं जपित्वा त्रिः प्राणानायम्य गायत्रीमभिवाद्य ‘उत्तमे शिखरे देवी’त्युद्वासयेत् ॥

॥ इति प्रयोगचन्द्रिकायाम् एकादशः खण्डः ॥

[[21]]