३७ पशुपुरोडाशनिर्वपणादि

[अग्नीषोमीयस्य पशुपुरोडाशस्य पात्रसंसादनादि कर्म प्रतिपद्यते । एकादश कपालानि शूर्पं च द्वन्द्वम् । कृष्णाजिनाद्युपलान्तम् । पुरतः पात्रीं प्राशित्रहरणं विभक्तवेदाग्राणि मदन्त्यर्थं मेक्षणमुपवेषमुत्पवनार्थपात्रं तृणं च । पवित्रे कृत्वा यजमान वाचं यच्छ । न यज्ञयोगः । निर्वपणकाले व्रीहिमयं पुरोडाशं निर्वपत्येकादशकपालं द्वादशकपालं वा । यद्देवतः पशुस्तद्देवतो भवति । अग्नीषोमाभ्यां जुष्टं निर्वपामि । अग्नीषोमौ हव्यꣳ रक्षेथाम् । अग्नीषोमाभ्यां वो जुष्टं प्रोक्षामि । सर्वाभिरद्भिस्त्रिः प्रोक्षति । हविष्कृता वाचं विसृज्य ।