११ पालाशहोमः

केचित् पालाशहोमकर्म कुर्वन्ति तदुच्यते ।

चतुर्थेऽहनि अन्नसंस्कारेण अन्नं संस्कृत्य आचार्येण सह प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य पूर्वोत्तरेण पालाशं त्रीण्युदगपवर्गाणि स्थण्डिलानि कल्पयित्वा तेषु यथाक्रमं प्रणवश्रद्धामेधाभ्योऽर्घ्यपाद्यादिगन्धमाल्यधूपदीपनैवेद्यादि दत्वा - “यश्छन्दसामि”त्यनेन “श्रुतं मे गोपाये”त्यन्तेन मन्त्रेण प्रणवमुपतिष्ठते श्रद्धयाग्निस्समिध्यत इति सूक्तेन श्रद्धां “मेधां ते देवस्सविता” इत्यनुवाकेन मेधां ततः पालाशदण्डमूले दण्डं विसृज्यान्यमादत्ते, अथाचार्यः पूर्ववास आदत्ते, अथ बलिशेषमाचार्यः पुरोगान् ब्रह्मणान् भोजयेत्, आचार्येणानुज्ञातः स्वयं भुञ्जीत, अथाचार्येण सहाचार्यगृहं गच्छति । ब्राह्मणभोजनम् अभ्युदयमित्यर्थः ।

शुभमस्तु

[[124]]