०९ समावेशनम्

तद्रात्रावन्यस्यां वा रात्रौ उपलिप्तं गन्धपुष्पधूपवासितं घृतदीपादीपितं स्वास्तरणतल्पसंयुक्तं गृहं पत्न्या सह प्रविश्य, प्राणानायम्य, समावेशनं करिष्य इति सङ्कल्प्य ॥

समावेशनमन्त्रः

आरोहोरुमुपबर्हस्व बाहुं परिष्वजस्व जायाँ सुमनस्यमानः ।
तस्यां पुष्यतं मिथुनौ सयोनी बह्वीं प्रजां जनयन्तौ सरेतसा ।
आर्द्रयारण्या यत्रामन्थत्पुरुषं पुरुषेण शक्रः ।
तदेतौ मिथुनौ सयोनी प्रजयाऽमृतेनेहगच्छतम् ।
अहं गर्भमदधामोषधीषु अहं विश्वेषु भुवनेष्वन्तः ।
अहं प्रजा अजनयं पितृणामहं जनिभ्यो अव(प)रीषु पुत्रान् ।
पुत्रिणे मा कुमारिणा विश्वमायुर्व्यश्नुतम् ।
उभा हिरण्यपेशसा वीतिहोत्रा कृतद्वसू ।

[[123]]

दशस्यं त्वाऽमृताय कँशमूधो रोमशँहथो देवेषु कृणुतो दुवः ।

इति जपित्वा, तया सह संविशेत् । विवाहान्ते समावेशनाकरणे गर्भाधानात्पूर्वं समावेशनं जपित्वा, गर्भाधानमन्त्रं जपित्वा, गर्भाधानं कुर्यात् ।