१७ रौहिणपुरोडाशयोः आसादनम्

अध्वर्युस्संप्रेष्यति अग्नीद्रौहिणौ पुरोडाशावासादय । आग्नीध्रः अङ्गारापोहनाद्यभिघारणान्तं कृत्वा अनुष्टुब्धयोस्स्रुचोरुपस्तीर्णाभिघारितौ पुरोडाशावासादयति । स्रुचौ गृहीत्वाऽग्रेण होतारं पर्याहृत्य दक्षिणं परिधिसन्धिमन्वेकमुत्तरं परिधिसन्धिमन्वितरम् ।