०८ सदसः निर्माणम्

उदञ्चः प्राचश्च वंशानत्याधाय । ऐन्द्रमसि त्रीणि मध्यमानि छदींष्यध्यूहति । विश्वजनस्य छाया त्रीणि दक्षिणान्युत्तराग्राणि । इन्द्रस्य सदोऽसि त्रीणि उत्तराणि दक्षिणाग्राणि १। दक्षिणान्युत्तराणि च औदुम्बरीमभ्यग्राणि भवन्ति । दक्षिणान्युत्तराणि करोतीति विज्ञायते । कटांस्तेजनीरिति छद्यन्तरालेषु प्रवर्तमुपास्यति । तेऽन्तर्वर्त्ता भवन्ति । परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय इति सर्वतः परिश्रित्य । इन्द्रस्य स्यूरसि पूर्वद्वारस्य दक्षिणां द्वार्बाहुं स्यूत्वा । इन्द्रस्य ध्रुवमसि प्रज्ञातं ग्रन्थिं करोति । एवमुत्तरां प्रतिप्रस्थाता । एवमपरे सीव्यतः । ऐन्द्रमसीन्द्राय त्वा अध्वर्युः संमितमभिमृशति । नाध्वर्युः प्रत्यङ् सदोऽतीयात् धिष्णियान् होतारं वा । यद्यतीयात् आघाये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ऐन्द्रियर्चा सञ्चरेत् ।