१४ सौवर्णेन रुक्मेणापिधानं, अभिमन्त्रणं, उपवाजनं च

दिवं तपसस्त्रायस्व सौवर्णेन रुक्मेणापिधाय१ । आभिर्गीर्भिर्यदतो न ऊनमा प्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ॥ शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निहरातिरस्तु ॥ अर्हन् बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमब्भुवं न वा ओजीयो रुद्र त्वदस्ति इति तिसृभिरभिमन्त्र्य । धवित्राण्यादत्ते । गायत्रमसि प्रथमम् । त्रैष्टुभमसि द्वितीयम् । जागतमसि तृतीयम् । तैरेनं त्रिरूर्ध्वमुपवाजयति मधु, मधु, मधु । तेषामेकं प्रतिप्रस्थात्रे प्रयच्छति । एकमाग्नीध्राय । आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति । तमभिमुखाः पर्युपविशन्ति । पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थाता उत्तरत आग्नीध्रः । अव्यतिषङ्गं ऊर्ध्वं धून्वन्तो होतृप्रणवैस्संराधयन्त इन्धानास्समञ्जन्तो वाग्यता आसते । प्रज्वलिते रुक्ममपादत्त इति विज्ञायते ।