०३ सवनीयपात्राणामासादनम्

प्रादेशमात्राण्यूर्ध्वसानून्युपरिष्टादासेचनवन्ति मध्ये सन्नतानि वायव्यानि भवन्ति । तेषां यान्यनादिष्टवृक्षाणि वैकङ्कतानि स्युः । यो वा यज्ञियो वृक्षः फलग्रहिः । खरे पात्राणि प्रयुनक्ति । अग्निर्देवता गायत्री छन्द उपाꣳशोः पात्रमसि खरस्य दक्षिणेऽंस उपांशुपात्रम् । सोमो देवता त्रिष्टुप् छन्दोऽन्तर्यामस्य पात्रमसि तदुत्तरमन्तर्यामस्य । बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्राय वाचं वद ते अन्तरेण ग्रावाणमु-पांशुसवनं दक्षिणमुखं संस्पृष्टं पात्राभ्याम् । तमपरेण प्रत्यञ्चि द्विदेवत्यपात्राणि । इन्द्रो देवता जगती छन्द इन्द्रवायुवोः पात्रमसि परिस्रगैन्द्रवायवस्य । बृहस्पतिर्देवतानुष्टुप्छन्दो मित्रावरुणयोः पात्रमसि अजगावं मैत्रावरुणस्य पात्रमैन्द्रवायवस्य पश्चात् । अश्विनौ देवता पङ्क्तिश्छन्दोऽश्विनोः पात्रमसि द्विस्रक्त्याश्विनस्य । तान्यपरेण प्रबाहुक् शुक्रामन्थिनोः पात्रे । सूर्यो देवता बृहती छन्दः शुक्रस्य पात्रमसि दक्षिणम् बैल्वं शुक्रस्य । चन्द्रमा देवता सतोबृहती छन्दो मन्थिनः पात्रमसि उत्तरं वैकङ्कतं मन्थिनः । ते अपरेण प्रबाहुक् ऋतुपात्रे आश्वत्थे अश्वशफबुध्ने उभयतोमुखे दक्षिणमध्वर्योरुत्तरं प्रतिप्रस्थातुः को वो युनक्ति स वो युनक्तु द्विः । विश्वे देवा देवतोष्णिहा छन्द आग्रयणस्य पात्रमसि दक्षिणस्यां श्रोण्यामाग्रयणस्थालीम् । इन्द्रो देवता ककुच्छन्द उक्थानां पात्रमसि उत्तरस्यां श्रोण्यामुक्थ्यस्थालीम् । इन्द्रो देवता ककुच्छन्द उक्थानां पात्रमसि तस्या उत्तरमुक्थ्यपात्रम् । स्थाल्यावन्तरेण त्रीण्युदञ्च्यतिग्राह्यपात्राण्याग्नेयमैन्द्रं सौर्यमिति । को वो युनक्ति स वो युनक्तु त्रिः । उत्तरेऽंसे दधिग्रहपात्रमौदुम्बरं चतुस्स्रक्ति को वो युनक्ति स वो युनक्तु । दधिग्रहस्य दक्षिणतः एवंरूपमेव अंश्वदाभ्ययोः को वो युनक्ति स वो युनक्तु । एतस्यैव हविर्धानस्याग्रेणोपस्तम्भन-मादित्यस्थालीम् को वो युनक्ति स वो युनक्तु । आदित्यपात्रं च तस्या उत्तरं को वो युनक्ति स वो युनक्तु । पृथिवी देवता विराट्छन्दो ध्रुवस्य पात्रमसि उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् । यदि षोडशी तदा खरे षोडशिपात्रं खादिरं चतुस्स्रक्ति को वो युनक्ति स वो युनक्तु । खरस्य मध्ये परिप्लवाम्, यथा स्रुगदण्डैवं को वो युनक्ति स वो युनक्तु । यथावकाशं दश चमसान् नैयग्रोधान्रौहीतकान् वा । दशकृत्वः को वो युनक्ति स वो युनक्तु ।

चतरस्रो ब्रह्मणश्च होतुस्तु परिमण्डलः ।

पृथुस्तु यजमानस्य त्र्यश्रिरुद्गातुरिष्यते ॥

प्रशास्तुरवतष्टस्यादुत्तष्टो ब्रह्मशंसिनः ।

पोतुरग्रे विशाखीयो नेष्टुर्दक्षिणवक्रकः ॥

अच्छावाकस्य रास्रावानाग्नीध्रस्य मयूखकः ।

सव्यवक्रस्सदस्यस्य एतच्चमसलक्षणम् ॥

एते दण्डविकारा स्युश्चमसाश्चतुरश्रकाः ॥

होतुर्ब्रह्मण उद्गातुर्यष्टुश्शास्तुश्च शंसिनः ।

पोतुर्नेष्ट्रच्छावाकानां आग्नीध्रस्येति च क्रमः ॥

युनज्मि ते पृथिवीं ज्योतिषा सह दक्षिणस्य हविर्धानस्याधस्तात् पश्चादक्षं द्रोणकलशं सदशापवित्रम् । तस्य वायव्यैर्वृक्षनियोगः । युनज्मि वायुमन्तरिक्षेण ते सह उत्तरस्य हविर्धानस्योपरिष्टान्नीडे आधवनीयम् । युनज्मि वाचꣳ सह सूर्येण ते प्रधुरे पूतभृतम् । एतस्यैव हविर्धानस्याधस्तात्पश्चादक्षं त्रीनेकधनान् घटान् पञ्च सप्त नवैकादश वा तूष्णीं प्रयुनक्ति । यस्मिन्मिमीते तस्याधिषवणचर्म खरं परिकृत्तं चतुष्पुटमुपरिष्टादासेचनवत् । रक्षोहणो वलगहनः प्रोक्षामि वैष्णवं अधिषवणचर्म प्रोक्ष्य । रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवान् ग्राव्ण्णः प्रोक्ष्य । रक्षोहा त्वा वलगहा वैष्णवमास्तृणामि अधिषवणफलकयोरुत्तरलोमास्तीर्य । रक्षोघ्नो वो वलगघ्नस्सꣳसादयामि वैष्णवान् तस्मिंश्चतुरो ग्राव्ण्णः प्रादेशमात्रान् ऊर्ध्वसानूनाहननप्रकारानश्मनस्संसादयत्युपरं प्रथिष्ठं मध्ये पञ्चमम् । तमभिसंमुखा भवन्ति । स्थवीयांसि मुखानि । अपां क्षया ऋतस्य गर्भा भुवनस्य गोपाश्श्येना अतिथयः । पर्वतानां ककुभः प्रयुतो न पातारो वग्नुनेन्द्रꣳ ह्वयत । घोषेणामीवाꣳश्चातयत युक्तास्स्थ वहत । स्वर्गं लोकं यजमानमभिवहत सन्नानभिमन्त्र्य । अग्नीषोमीयवत् सवनीयपात्राणि प्रयुनक्ति

कर्मणे वामित्यादि । यज्ञस्य सन्ततिरसि । पवित्रे कृत्वा, न ब्रह्मवरणम् । यजमान वाचं यच्छ । सं विशन्ताम् । अग्निꣳ होतारम् । कस्त्वा यनक्ति स त्वा युनक्तु । प्रोक्षणीस्संस्कृत्य । ब्रह्माणमामन्त्र्य । पात्राणि प्रोक्ष्य । प्रोक्षणीशेषं सदोहविर्धानयोर्मध्ये निधाय स्फ्यं तिर्यञ्चं स्तब्ध्वा अग्नीषोमीयवत् संप्रेष्यति । अग्ने गृहपत इत्यादि सर्वं शालामुखीये करोति । अग्नीषोमीयवदाज्यानि गृह्णाति १। यानि काष्ठानि तदहरभ्याधास्यन्थ्स्यात्तानि सहेध्मेन प्रोक्षेत् । समानमा स्रुचां सादनात् । प्रचरणीं तूष्णीं सादयेत् । विष्णूनि स्थ इत्यभिमन्त्रणं कृत्वा २। युनज्मि तिस्रो विपृचस्सूर्यस्य ते स्रुचस्सन्ना अभिमन्त्रयते । अत्र सौमिकानां पात्राणां संसादनमेके समामनन्ति । यजमानः - अयं यज्ञो, ममाग्ने, पञ्चहोतेत्यासन्नाभिमर्शनम् ।

अध्वर्युः - आ सन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्यास्स्वाहा । प्रजापतय इदम् । स्रुवेणाहवनीये जुहोति । पञ्चहोतारं चाग्नीध्रे । अग्निर्होता । अश्विनाध्वर्यू। त्वष्टाग्नीत् । मित्र उपवक्ता । सोमस्सोमस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । श्रातास्त इन्द्र सोमाः । वातापेर्हवनश्रुतस्स्वाहा ॥ वाचस्पतये ब्रह्मण इदम् । मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीरिति जुहोत्यभितस्सोमाहुतीः ।