३३ द्वितीयेह्नि व्रतप्रदानम्

अध्वर्युः - व्युषिते अग्नीन् ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छ इति सम्प्रेष्यति । उदित आदित्ये दुग्धे च व्रत पयसि । यजमानः - याः पशूनामृषभे वाचस्तास्सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिण्वो यथाभागं वो अत्र शिवानस्ताः पुनरायन्तु वाचः इति जपित्वा । व्रतं कृणुत इति वाचं विसृजते । अध्वर्युब्रह्मयजमानाः पूर्ववत्सोमपरिवेषणं कुर्वन्ति । यजमानः - अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदः ॥ आजुह्वानस्सुप्रतीकः पुरस्तादग्ने स्वां योनिमासीद साध्या । अस्मिन्त्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदत एताभ्यामाहवनीयमुपतिष्ठते ॥

प्रायणीयेष्टिः

प्रायणीयायास्तन्त्रं प्रक्रमयति । उत्तरेण गार्हपत्यमित्यादि । न व्रतप्रवेशनम् । पौर्णमासं तन्त्रम् । पञ्चदश सामिधेन्यः । नेध्मप्रव्रश्चनम् । अलङ्कृत्य परिस्तरणम् । देवा देवेषु, कर्मणे वां इत्यादि । पात्रप्रयोगकाले स्थाली स्फ्यश्च द्वन्द्वम् । अग्निहोत्रहवण्यादि । शम्यादृषदुपलप्रणीतान्वाहार्यस्थालीमदन्ती-पिष्टलेपयोक्त्रवर्जम् । पवित्रे कृत्वा, न ब्रह्मवरणम् । ब्रह्मा - तूष्णीमतिक्रम्य मन्त्रेण निरसनोपवेशने करोति । अध्वर्युः - यजमान वाचं यच्छ । निर्वपणकाले अदित्यै जुष्टं निर्वपामि । अदिते हव्यꣳ रक्षस्व । अदित्यै वो जुष्टं प्रोक्षामि । कृष्णाजिनादानादि । हस्तेन तुषोपवपनम् । उत्करे त्रिर्निनीय धृष्ट्यादानादि । ध्रुवोऽसि इति स्थाल्यासादनम् । देवस्त्वा सविता इति पय उत्पूय स्थाल्यामासिञ्चति । तण्डुलानुत्पूय घर्मोऽसि इति स्थाल्यां तण्डुलान् क्षिपति । अन्तरितꣳ रक्षः । अविदहन्त । स्फ्यादानादि । संप्रैषकाले पत्नीवर्जं सम्प्रेष्यति प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदेहि । अग्ने गृहपत इत्यादि । यजमानः - युक्ता मे यज्ञमन्वासातै । प्रकृतिवदाज्यग्रहणम् । अदित्यै जुष्टमभिघारयामि । आर्द्रो भुवनस्य इत्युद्वास्य । देवस्त्वा सविता इत्यलङ्कृत्य । सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवीꣳ शरीरैः षड्ढोत्रा प्रायणीयमासादयति । यज्ञोऽस्ययं यज्ञो ममाग्ने चतुर्होता इत्यासन्नाभिमर्शनम् । होतरेहि प्रस्तोतरेहि उपभृतमन्तत इत्येवमन्तं कृत्वा । न स्रुचोस्सादनम् । नाज्यभागौ । यजमानः - पञ्चहोतारं वदेत् । प्रधानानामुपांशु प्रचारः । आ प्यायतां चत्वारि । अवद्यन् सम्प्रेष्यति । पथ्यायै स्वस्तये (उपांशु)अनुब्रूहि (उच्चैः) । आश्राव्य प्रत्याश्राविते पथ्यां स्वस्तिं (उपांशु)यज (उच्चैः) पूर्वार्धे जुहोति । यजमानः - पथ्यायै स्वस्तय इदम् । दब्धिरस्यदब्धो भूयासं पाप्मानं दभेयम् । अग्नये (उपांशु)अनुब्रूहि (उच्चैः)। अग्निं (उपांशु)यज (उच्चैः) दक्षिणार्धे जुहोति । यजमानः - अग्नय इदम् । दब्धिरसि । सोमाय (उपांशु)अनुब्रूहि (उच्चैः)। सोमं (उपांशु)यज (उच्चैः) पश्चार्धे जुहोति । यजमानः - सोमायेदम् । दब्धिरसि । सवित्रे (उपांशु)अनुब्रूहि (उच्चैः) । सवितारं (उपांशु)यज (उच्चैः) उत्तरार्धे जुहोति । यजमानः - सवित्र इदम् । दब्धिरसि । अध्वर्युः - प्रत्याक्रम्य जुह्वामुपस्तीर्य, अवद्यमाने साम । चरोरवदाय, अभिघार्य, हविः प्रत्यभिघार्य, अदित्यै (उपांशु)अनुब्रूहि (उच्चैः) । अदितिं (उपांशु) यज (उच्चैः) मध्ये जुहोति । यजमानः - अदित्या इदम् । अदित्या अहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीय । अध्वर्युः - मरुतो यद्ध वो दिवस्सुम्नायन्तो हवामहे । आ तू न उपगन्तन मारुतीमृचमनूच्य । प्रत्याक्रम्य नारिष्ठादि । अविरुज्य प्राशित्रम् । न यजमानभागम् । चतुर्धाकरणकाले त्रेधाकरणम् १ । न हविश्शेषोद्वासनम् । पथ्यास्वस्त्यादीनां नोज्जितयः । अदित्या अहमुज्जितिम् । संस्रावहोमान्ता प्रायणीया सन्तिष्ठते । धारयति ध्रौवमाज्यम् । प्राग्वंशे बर्हिः,२ स्थालीमनिष्कसितां, मेक्षणमिति उदयनीयार्थं निदधाति ।