१७ 'आशुश्शिशानः'

‘आशुश्शिशानः’

०४ अग्निप्रणयनाङ्गमप्रतिरथसूक्तम् ...{Loading}...

त्रिष्टुप् १३,
१५ अनुष्टुप ।
अग्निर्ऋषिः चतुर्थकाण्डे षष्ठप्रपाठके चतुर्थोऽनुवाकः

01 आशुः शिशानो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

आ॒शुः शिशा॑नो+++(=तीक्ष्णो)+++ वृष॒भो न यु॒ध्मो+++(=योधा)+++
घ॑नाघ॒नः+++(=घातकः)+++ क्षोभ॑णश् चर्षणी॒नाम्+++(=पदातीनाम्)+++।
सं॒क्रन्द॑नो ऽनिमि॒ष ए॑क-वी॒रः
श॒तꣳ सेना॑ अजयत् सा॒कम् इन्द्रः॑ ॥

02 सङ्क्रन्दनेनानिमिषेण जिष्णुना - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

स॒ङ्क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑
युत्-का॒रेण॑+++(=युद्धकारिणा)+++ दुश्च्यव॒॒नेन॑ धृ॒ष्णुना॑+++(=निर्भयेन)+++।
तद् इन्द्रे॑ण जयत॒ तत् स॑हध्वं॒
युधो॑ नर॒ इषु॑-हस्तेन॒ वृष्णा॑+++(=कामवर्षकेन)+++ ॥

03 स इषुहस्तैः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

स इषु॑-हस्तैः॒ स नि॑ष॒ङ्गिभि॑र् +++(=खड्गिभिर्)+++ व॒शी
सꣳस्र॑ष्टा॒+++(=संमिश्रकः)+++ स युध॒+++(=योद्धा)+++ इन्द्रो॑ +++(पर)+++ग॒णेन॑।
स॒ꣳ॒सृ॒ष्ट॒-जित् सो॑म॒पा बा॑हु-श॒र्ध्य्+++(=बली)+++
ऊ॑र्ध्व-धन्वा॒ प्रति॑हिताभि॒र् अस्ता॑+++(=क्षेप्ता)+++ ॥

04 बृहस्पते परि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

बृह॑स्+++(=वाचस्)+++पते॒ परि॑ दीया॒+++(=द्रव)+++ रथे॑न
रक्षो॒-हा ऽमित्राꣳ॑ अप॒बाध॑मानः
प्र॒भ॒ञ्जन्त् सेनाः॑ प्रमृ॒णो+++(=प्रहिंस्रो)+++ यु॒धा
जय॑न्न् अ॒स्माक॑म् एध्य् अवि॒ता रथा॑नाम् ॥

05 गोत्रभिदं गोविदम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

गो॒त्र॒-भिदं॑ गो॒-विदं॒ वज्र॑-बाहुं॒
जय॑न्त॒म् अज्म॑+++(म्)+++ प्रमृ॒णन्त॒म् ओज॑सा।
इ॒मꣳ स॑जाता॒ अनु॑ वीरयध्व॒म्
इन्द्रꣳ॑ सखा॒यो ऽनु॒ सꣳ र॑भध्वम्

06 बलविज्ञाय स्थविरः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒
सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः।
अ॒भिवी॑रो अ॒भिस॑त्वा+++(←सत्वन्=योद्धृ)+++ सहो॒जा
जैत्र॑म् इन्द्र॒ रथ॒म् आ ति॑ष्ठ गो॒वित् ॥

07 अभि गोत्राणि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भिगो॒त्राणि॒ सह॑सा॒ गाह॑मानो
ऽदा॒यो वी॒रश् श॒त-म॑न्यु॒र् इन्द्रः॑।
दु॒श्च्य॒व॒नᳶ पृ॑तना॒-षाड् अ॑-यु॒द्ध्यो॑
ऽस्माक॒ꣳ॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥

08 इन्द्र आसाम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ आसां ने॒ता, बृह॒स्पति॒र्
दक्षि॑णा, य॒ज्ञः पु॒र ए॑तु॒ सोमः॑।
दे॒व॒-से॒नाना॑म् अभिभञ्जती॒नां
जय॑न्तीनां म॒रुतो॑ य॒न्त्व् अग्रे॑ ॥

09 इन्द्रस्य वृष्णो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑स्य॒ वृष्णो॒, वरु॑णस्य॒ राज्ञ॑,
आदि॒त्यानां॑ म॒रुता॒ꣳ॒ शर्ध॑ उ॒ग्रम्।
म॒हा-म॑नसां भुवन-च्य॒वानां॒
घोषो॑ दे॒वानां॒ जय॑ता॒म् उद्-अ॑स्थात् ॥

10 अस्माकमिन्द्रः समृतेषु - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्काक॒म् इन्द्रः॒ सम्-ऋ॑तेषु ध्व॒जेष्व्
अ॒स्माकं॒ या इष॑व॒स् ता ज॑यन्तु
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व्
अ॒स्मान् उ॑ देवा अवता॒ हवे॑षु ॥

11 उद्धर्षय मघवन्नायुधान्युत्सत्वनाम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

उद्+ध॑र्षय मघव॒न्न् आयु॑धा॒न्य्
उत् सत्व॑नां+++(=योद्धॄणां)+++ माम॒कानां॒ महा॑ꣳसि।
उद् वृ॑त्र-हन् वा॒जिनां॒ वाजि॑ना॒न्य्+++(=वेगाः)+++
उद् रथा॑नां॒ जय॑ताम् एतु॒ घोषः॑

12 उप प्रेत
विश्वास-प्रस्तुतिः ...{Loading}...

उप॒ प्रेत॒ जय॑ता नरस्
स्थि॒रा व॑स् सन्तु बा॒हवः॑ ।
इन्द्रो॑ व॒श् शर्म॑ यच्छत्व्
अनाधृ॒ष्या यथा ऽस॑थ

सर्वाष् टीकाः ...{Loading}...
मूलम्

उप॒ प्रेत॒ जय॑ता नरस्स्थि॒रा व॑स्सन्तु बा॒हवः॑ ।
इन्द्रो॑ व॒श्शर्म॑ यच्छत्वनाधृ॒ष्या यथाऽस॑थ ।

सायण-टीका

अथ द्वितीयामाह– उप प्नेतेति।
हे नरोऽस्मदीयाः पुरुषा उपप्रेत परसैन्यस्य समीपे प्रकर्षेण यच्छत।
ततो जयत विजयं प्राप्नुत।
वो युष्माकं बाहवः स्वकीयायुवैः प्रहरणेषु स्थिराः सन्तु।
यथा यूयमनाधृष्या असथ केनाप्यतिरस्कार्या भवय तथाऽयमिन्द्रो वो युष्माकं शर्म यच्छतु सुखं ददातु।

13 अव॑सृष्टा॒ परा॑ पत॒
विश्वास-प्रस्तुतिः ...{Loading}...

अव॑सृष्टा॒ परा॑ पत॒
शर॑व्ये॒ ब्रह्म॑-सꣳशिता ।
गच्छा॒मित्रा॒न् प्र [19] विश॒
मैषा॒ङ् कञ्च॒नोच्छि॑षः

सर्वाष् टीकाः ...{Loading}...
मूलम्

अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सꣳशिता ।
गच्छा॒मित्रा॒न्प्र [19] वि॒श॒ मैषा॒ङ्कञ्च॒नोच्छि॑षः ।

सायण-टीका

अथ तृतीयामाह— अवसृष्टेति।
हिंसिका हेतिः शरव्या।
हे शरव्ये ग्रह्मणा संशिता तीक्ष्णीकृता त्वमवसृष्टाऽस्माभिर्मुक्ता सती षरापत सहसा परसैन्यै पतिता भव।
पतित्वा अमित्राञ्शत्रून्नच्छ प्राप्नुहि।
प्राप्य च प्रविशैषां शत्रूणां शरीरमध्ये प्रवेशं कुरु।
प्रविश्य चैषां शत्रूणां मध्ये कंचन पुरुषं मोच्छिषोऽवशिष्टं मा कुरु।
सर्वानपि जहीत्यर्थः।

14 मर्मा॑णि ते॒
विश्वास-प्रस्तुतिः ...{Loading}...

मर्मा॑णि ते॒ वर्म॑भिश् छादयामि॒
सोम॑स् त्वा॒ राजा॒ ऽमृते॑ना॒भि व॑स्ताम्
उ॒रोर् वरी॑यो॒ वरि॑वस्+++(=धनम्)+++ ते अस्तु॒
जय॑न्त॒न् त्वाम् अनु॑ मदन्तु दे॒वाः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॑ना॒भि व॑स्ताम् ।
उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्त॒न्त्वामनु॑ मदन्तु दे॒वाः ।

सायण-टीका

अथ चतुर्थीमाह— मर्माणि त इति।
हे यजमान ते तव मर्माणि वर्मभिः कवचैश्छादयामि।
सोमो रांजा त्वाममृतेन मरणनिवारकेण केनापि कवचविशेषेणाभिवस्ताममित आच्छादयतु।
ते तव वरिवो धनम् उरोर्वरीयोऽस्तु, अन्यदीयादधिकादप्यत्यन्तमधिकमस्तु।
जयन्तं विजयं प्राप्नुवन्तं त्वां देवा अनुप्रदात्वनूकूला भूत्वा हृष्यन्तु।

विश्वास-प्रस्तुतिः

यत्र॑ बा॒णास् स॒म्पत॑न्ति
कुमा॒रा वि॑शि॒खा इ॑व +++(चपलाः)+++।
इन्द्रो॑ न॒स् तत्र॑ वृत्र॒हा
वि॑श्वा॒हा शर्म॑ यच्छतु ॥ [20]

मूलम्

यत्र॑ बा॒णास्स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ [20]

सायण-टीका

अथ पञ्जमीमाह— यत्र बाणाइति।
यत्र यस्मिन्युद्धे बाणाः परैमुक्ताः संपतन्तीतश्चेतश्च संभूय पतन्ति।
तत्र दृष्टान्तः कूमारा विशिखा इव, [ यथा ] मुण्डित शिरस्का विशीर्णकेशा वाऽत्यन्तं वालाश्चपलाः सन्न इतश्चेतश्च गच्छन्ति तद्वत्।
तत्र युद्धेऽयमिन्द्रो विश्वाहा परकीयसर्वप्राणिघाती वृत्रहा विशेषतो वैरिघाती संन्नोऽस्मभ्यं शर्म यच्छतु सुखं ददातु ।

सायणोक्त-विनियोगः

आशुः शिशान इत्येतत्सूक्तं विनियुङ्क्ते —
— २१८३ “देवासुराः संयत्ता आसन्ते देवा एतदप्रतिरथमपश्यन्तेन वे तेऽप्रत्यसुरानजयन्तदप्रतिरथस्याप्रतिरथत्वं यदप्रतिरथं द्वितीवो होताऽन्वाहाप्रत्येव तेन यजमानो भ्रातृव्याञ्जयत्यथो अनभिजितमेवाभि जयति” [सं. का. ५ प्र. ४ अ. ६] इति।
यदा देवाश्चासुराश्च युद्धायोद्यतास्तदानीं देवा विजयप्रदत्वेनाप्रतिरथाख्यमतत्सूक्तमपश्यन्।

  • तेनैवं यजमानः सर्वान्भ्रातृव्यान्प्रतिकूलराहित्यं यथा भवति तथैव जयति।
    अपि च पूर्वमनभिजितमपि धनं देशाविशेषं वा सर्वथाविजयत्येव।
    सूक्तमप्त्रसंख्यां विधत्ते–
    दशर्चं भवति दशाक्षरा विराड्विरजेमौ लोकौ विधृतावनयोर्लोकयोर्विधृत्या अथो दशाक्षरा विराडन्नं विराड्विराज्येवान्नाद्ये प्रति तिष्ठति” (सं. का. ५ प्र. ४ अ. ६) इति।
    अस्मिन्ननुवाके समाम्नातानामुद्धर्षयेत्यादीनां पञ्चानां विकल्पार्थत्वात्सूक्तगता ऋचो दशैव संपद्यन्ते।
    विराद्छन्दसो दशक्षरत्वात्तस्य च्छन्दसः सामर्थ्थेनैव लोक्योर्विधृतत्वात्तयोर्विधृत्यर्थमिदं दशर्चं सूक्तं संपद्यते।
    अपि च दशाक्षरत्त्व विराट्छन्दसोऽन्नहेतुत्वेनान्नत्वाद्दशसंख्याद्वारा तस्मिन्नन्नाद्ये प्रतितिष्ठति।

अथ पूर्वानुवाकोक्तविमान इत्यादिमन्त्रद्वयसाध्यमश्मनिधानं विधत्ते–
“असदिव वा अन्तरिक्षमन्तरिक्षनिवाऽऽग्नीघ्रेऽश्मानं नि दधाति सत्त्वाय” (सं. का. ५ प्र. ४ अ. ६) इति।
भूमिवन्मूर्तस्वरूपाभावादिदमन्तरिक्षमविद्यमानसदृशं भवति।
अन्तरिक्षसदृशं चाऽऽग्नीध्रं हविर्धानशकलग्रहसादनादीनामभावेन शून्यत्वप्रतिभानात्।
अतः शून्यत्वनिवारणेन च सुसद्भावाय तत्रापि कंचिदश्मानं निदध्यात्।
मन्त्रद्वित्वं प्रशंसति— “द्वाभ्यां प्रतिष्ठित्यै” [सं. का. ५ प्र. ४ अ. ६] इति।
*अत्र तेन वै तेऽप्रत्यसुरानित्यादिंहोताऽन्वाहेत्यन्तसंहितावाक्यस्य व्याख्यानं त्रुटितम्।
२१८४ प्रथममन्त्रे विमानशब्दस्य तात्पर्यं दर्शयति —
“विमान एष दिवो मध्य आस्त इत्याह व्येवतया मिमीते” [सं. का. ५ प्र. ४ अ. ६] इति।
“एतयर्चा पूर्वं शून्यमाग्नीध्रं वस्तु विशिष्टं यथा भवति तथा मिमीत एव प्रमितं क्ररोत्येव।
द्वितीममन्त्रे पृश्निशब्दतात्पर्यं दर्शयति —
“मध्ये दिवो निहितः पृश्निरश्मेत्याहान्यं वै पृप्श्यन्नमेवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ६) इति।
पक्वं शाल्यन्नं श्वेतं भवति।
अतः श्वेतेनाश्मना तादृशमन्नं प्राप्नोति।
इन्द्रं विश्वा अवीवृधन्नित्यादिमन्त्रचतुष्टयसाध्यं गमनं विधत्ते–
“चतसृभिरा षुच्छादेति चत्वारि छन्दाꣳ सि छन्दोभिरेव” (सं. का. ५ प्र. ४ अ. ६) इति।
आग्नीघ्रान्निर्गत्य पुच्छपर्यन्तमेतैर्मन्त्रैर्गच्छेत्।
गायत्र्यादीनां मुख्यच्छन्दसां चतुष्ट्वान्मन्त्रसंख्यायाश्छन्दोभिरेव युक्तो गतवान्भवति।
प्रथममन्त्रस्य प्रथमपादेऽवीवृधन्निति पदस्म तात्पर्यं दर्शयति —
“इन्द्रं विश्वा अवीवृधन्नित्याह वृद्धिमेवोपावर्तते” (सं. का. ५ प्र. ४ अ. ६) इति।
तत्रैव चतुर्थपादे वाजशब्दतात्पर्यं दर्शयति —
“वाजानाꣳ सत्पतिं पतिमित्याहान्नं वै वाजोऽन्नमेवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ६) इति।
“सुम्नहूर्यज्ञो देवाꣳ आ च वक्षदित्याह प्रङ्वा वै पशवः सुम्नं प्रजामेव पशूनात्मन्धत्ते” [सं. का. ५ प्र. ४ अ. ६] इति।
अस्मिन्नेव मन्त्र उत्तरभागस्य तात्पर्यं दर्शयति —
“यक्षदग्निर्देवो देवाꣳ आ च यक्षदित्याह स्वमाकृत्यै” [सं. का. ५ प्र. ४ अ. ६] इति।
देवाꣳ आ च वक्षदित्युक्या तान्देवान्स्वगतान्स्वाधीनान्करोति।
२१८५ तृतीयमन्त्रगतयोरुद्ग्राभनिग्राभशब्देयास्तात्पर्यं दर्शयति —
“वाजस्य मा प्रसवेनोद्ग्राभेणोदग्रभीदित्यहासौ वा आदित्य उद्यन्नुद्ग्राभ एष निम्रोचन्निग्राभो ब्रह्मणैवाऽऽत्मानमुद्गृह्णाति ब्रह्मणा भ्रातृव्यं निगृह्णाति” [सं. का. ५ प्र. ४ अ. ६] इति।
ऊर्ध्वग्रहणवाचिनोद्ग्राभशब्देनोद्गच्छन्निग्राभशब्देनाधो गच्छन्नसावादित्यो लक्ष्यते।
अतस्तदुभयप्रतिपादकेन मन्त्रेणाऽऽत्मानमुद्गृह्णाति उत्कर्षं प्रापयति।
स्वभ्रातृघ्यं निगृह्णाति निग्रहं प्रापयति।
अत्र विनियोगसंग्रहः—
आशुरित्यप्रतिरथं होताऽन्वाह दशर्चकम्।
उद्धर्षति विकल्पार्था मन्त्राः पञ्चदशेरिताः॥
इति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठके चतुर्थोऽनुवाकः ॥
४ ॥