११ प्रतिज्ञा

श्रीः
प्रथमतः पूर्वप्रयोगः

दयानिधिं हय-ग्रीवं
नमस्कृत्य सतां मुदे ।
प्रयोगः पूर्वपरयोर्
दासेनानेन लिख्यते

गृह्य-सूत्राविरोधेन
तात्पर्य-दर्शनं तथा ।
गृह्य-रत्नञ् च सङ्गृह्य
विदधे शोभन-क्रमम् ॥

विभक्त-पद-मन्त्राढ्यं
स्वर-सूत्र-निरूपितम् ।
द्राविड्या टीकया सार्धं
राम-पाद्वोस् समर्पितम्

प्रयोग-पुस्तकं तावत्
सर्वेषां हस्त-भूषणम् ।
श्रेयो ऽभिवृद्धये जीयात्
आ-चन्द्र-रवि-तारकम् ॥