+१६ विवाहः

अथ विवाहः

नमस्सदस इति सदस्यान् प्रणम्य, विष्वक्सेनं सम्पूज्य, विवाहं करिष्यमाणः स्वयं वान्यो वा प्राणानायम्य, पञ्चपालिकाशुद्ध्यर्थं शुद्धिपुण्याहं वाचयिष्य इति सङ्कल्प्य, पुण्याहं वाचयित्वा, पुण्याहजलेन कूर्चेन व्याहृतिभिः पञ्चपालिकाः प्रोक्ष्य, प्राणानायम्य, अमुक-गोत्रस्यामुकशर्मणो वरस्य अमुक-गोत्राया अमुक-नाम्न्याः कन्यायाश्च उभयोरुद्वाहकर्माङ्गम् अङ्कुरार्पणकर्म करिष्य इति सङ्कल्प्य अङ्कुरार्पणं कृत्वा सुरक्षितं कृत्वा सायं प्रातस्सम्पूजयेत्, प्राणानायम्य अमुक-गोत्रस्यामुकशर्मणो वरस्य अमुक-गोत्राया अमुक-नाम्न्याः कन्यायाश्च उभयोरुद्वाहकर्माङ्गं प्रतिसरबन्धकर्म करिष्य इति सङ्कल्य,

[[104]]

“ब्रह्मजज्ञानमि"ति उल्लेखनादि नमो ब्रह्मण इति परिधानीयजपान्तं कृत्वा कूर्चेन व्याहृतिभिः कुम्भजलेन प्रतिसरसूत्रं हस्तं च प्रोक्ष्य, त्र्यम्बकमिति हरिद्रादिना प्रतिसरसूत्रं त्रिरुन्मृज्य, तण्डुलपूर्णं कन्याया हस्तं “अग्निरायुष्मानिति” पञ्चभिः गृहीत्वा, “बृहत्साम” इति कन्याहस्ते प्रतिसरं बद्ध्वा वरस्य हस्तम् अग्निरायुष्मानिति गृहीत्वा, वरस्य हस्ते विश्वेत्तात इति बध्वा, घृतसूक्तेन रक्षां कुर्यात् ॥