वाजपेयप्रयोगः

अथ वाजपेयप्रयोगः

अथ कुरुवाजपेयं । शुभतिथौ कुरुवाजपेयेन यक्ष्ये । सप्तदशस्तोमेन रथन्थरसाम्ना वयसो वयस इति सप्तदश सप्तदश दक्षिणानि एकहायनप्रभृति आ पञ्चहायनेभ्यो वयांसीत्युक्तदक्षिणेन प्रजापतिमवाप्नवानि इति सङ्कल्पः । विद्युदसि । सोमप्रवाकवरणादि । कच्चिन्नाहीन इत्युक्ते नाहीनः कुरुवाजपेयः इति प्रतिवचनं । कच्चित् कल्याण्यो दक्षिणा इत्युक्ते सन्तिकल्याण्यो दक्षिणा स्सुरूपा बहुमूल्या वयसोवयसस्सप्तदश सप्तदशान्येकहायनप्रभृति आ पञ्चहायनेभ्यो वयांसीत्युक्तपञ्चचत्वारिंशदुत्तरचतुश्शताधिक सहस्रं गावः । महन्मेवोच इत्यादि । सोमक्रयणकाले शुण्ठया क्रयणं । एषेति निर्दिश्य । तस्या आत्मा । भूयो वा अतः इति सोमक्रयण्योक्ते एकोनशतेन गोभिस्ते क्रीणानि । अस्मेज्योतिरित्यादि । यूपकाले सप्तदशार्त्निः बैल्वो यूपः खादिरो वा चतिरश्रः गोधूमपिष्टचषालो गोधूमकलापी वा । नास्ति चषालातिरिक्तम् । स्वरस्त्रयोविंशतिः । द्विपदप्रक्रमेण वेदिमानम् । सदो — काले ऐन्द्रमसीति पञ्च छदींषि । विश्वजनस्य छायेति पञ्च । इन्द्रस्य सदोसीति सप्त । उपरवकाले रक्षोहणं वलगहनं वैष्णवं खनामि । संमृश इमानायुषे वर्चसे च । खरे कृते तैरेव पांसिभिः पश्चादक्षं सुराग्रहार्थं द्वितीयं खरं चतुरश्रं करोति । अग्नीषोमीयपशुकाले देवस्य त्वेति रशनाद्वयादानं । अणिमतिस्थविमत् प्रवीय सप्तदशभिर्वासोभिर्यूपं परिवेष्टयति । दिवस्सूनुरसीत्यादि सवनीये पशौ । वसूनां पवित्रमसीत्यस्मिन् काले त्रिवृत्पलाशे — पशून् हव्यं करोतु मे इत्यादि ।

अथ प्रातस्सवनं

महारात्रे बुध्वा यजमानः सदस्यानपि वा ऋत्विजः हिरण्यमालिनो भवन्ति । देवसवितः प्रसुव यज्ञ्यं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः । केतपूः केतं नः पुनातु वाचस्पतिर्वाचमद्यस्वदाति नः स्वाहा । सवित्र इदं । अग्नेनयेत्यादि । ऐन्द्रमतिग्राह्यपात्रं प्रयुनक्ति । तस्योत्तरतः पञ्च ऐन्द्र अतिग्रहपात्राणि प्रयुनक्ति । तेषां को वो युनक्ति सवो युनक्तु इति प्रतिपात्रं । सौर्यादि षोडशि पात्रं प्रयुज्य । तत्परतः सप्तदशप्रजापत्यानि । चतुस्रक्ति खादिरपात्राणि प्रयुनक्ति । तेषं एकैकस्य को वो युनक्ति स वो युनक्तु । अपरस्मिन् खरे प्रतिप्रस्थाता मृन्मयानि सप्तदश तूष्णीं पयःपात्राणि प्रयुनक्ति । गोपययुक्त वस्त्रमृन्मयगालनार्थं प्रयुनक्ति । परिप्लवादि । अपां क्षया — वहत । सन्नानभिमन्त्र्य इत्यन्तं सौमिकं । सवनीयपशुपात्रप्रयोगकाले पशुभ्यस्त्रयोविंशति कुंभ्यः । तथैव शूलवपाश्रपणीयुगकालानि पशुरशनाः । त्रयोविशंति स्वरवश्च । एक प्लक्षशाखा स्थविष्ठा । एका पलाशशाखा । त्रयोविंशति दर्भयुगलानि । संविशन्तामित्यादि । क्रतुकरणकाले यमग्ने पृत्सुमर्त्यमा वो वाश्जेषु यंजुनाः । सयन्ता शश्वतीरिषः । इति वदन् समुद्यैव प्रपद्यते । दधिग्रहादि । उत्तिष्ठन्नोजसा — ऐन्द्रमतिग्राह्यं गृहीत्वा । आसाद्य । पञ्च ऐन्द्रानतिग्राह्यान् गृह्णाति । उपयामगृहीतोसि नृषदं त्वा द्रुषदं भुवनसदमिन्द्राय जुष्टं गृह्णामि गृहीत्वा । एष ते योनिरिन्द्राय त्वा सादयति । उपयामगृहीतोस्यप्सुषदं त्वा घृतसदं व्योमसदमिन्द्राय जुष्टं गृह्णामि गृहीत्वा । एष ते योनिरिन्द्राय त्वा सादयति । उपयामगृहीतोसि पृथिविषदंत्वान्तरिक्षसदं नाकसदमिन्द्राय जुष्टं गृह्णामि गृहीत्वा । एष ते योनिरिन्द्राय त्वा सादयति । येग्रहाः पञ्चजनीनां येषां तिस्रः परमजाः । दैव्यः कोशसमुब्जितस्तेषां विशिप्रियाणामिषमूर्जꣳ् समग्रभीमुपयामगृहीतोसि गृहीत्वा । एषते योनिरिन्द्राय त्वा सादयति । अपाꣳ् रसमुद्वयसꣳ् सूर्यरश्मिꣳ् समाभृतम् । अपाꣳ् रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोसि गृहीत्वा । एषते योनिरिन्द्राय त्वा सादयति । आतिष्ठ वृत्रहन् रथं — मुपयामगृहीतोसीन्द्रायत्वा षोडशिने गृहीत्वा । एषते योनिरिन्द्राय षोडशिने त्वा सादयति । यस्मान्न जातः — हरिवर्पसं गिरः । इति आसन्नमभिमन्त्र्य । सप्तदश प्राजापत्यान् सोमग्रहान् गृह्णाति । अयाविष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः । स प्रत्युदैद्धरुणो मध्वो अग्रꣴ् स्वायां यत्तनुवां तनूमैरयतोपयामगृहीतोसि प्रजापतये त्वा जुष्टं गृह्णामि गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिः प्रजापतये त्वा सादयति । यस्मान्न जातः परो अन्यो अस्ति । य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानः । त्रीणि ज्योतीꣳ्षि सचते स प्रजापतिः । एष ब्रह्मा य ऋत्वियः । प्रजापतिर्नाम श्रुतो गणे । प्रतेमहे विदथेशꣳ्सिशꣳ् हरी । य ऋत्वियः प्रते वन्वे । वनुषो हर्यतं मदं । प्रजापतिर्नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरि वर्पसं गिरः । इति प्रजापत्यानभिमन्त्य । अत्र प्रतिप्रस्थाता लौकिकं पय आहृत्य । गालव वालमयेनपवित्रेण । पुनाति ते परिस्रुतंसोमꣳ् सूर्यस्यदुहिता । वारेण शश्वता तना । इति पात्रेण गालयति । अपरस्मिन् खरे पयोग्रहान् गृह्णाति । प्रथमोपयाम पात्रे कुविदङ्ग यवमन्तो यवं चिद्यथादान्त्यनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमो वृत्तिं न जग्मुः । इति गृह्णाति । तूष्णीं खरे सादयति । एवं द्वितीयादि पात्रेषु अध्वर्युप्रतिप्रस्थातारौ व्यतिषङ्गं सोमग्रहान् पयोग्रहांश्च गृह्णीतः । विरमति धारेत्यादि । स्तुते बहिष्पवमाने अग्नीदग्नीन् विहर — प्रतिप्रस्थातः पशुभिरेहि । आश्विनं गृहीत्वा पूर्व निपातरशने देवस्य त्वा — हस्ताभ्यामित्यादयः । अणिमत्यन्ते दिवस्सूनवस्थ इति पूर्वस्वरुणा सह अवशिष्टान् स्वरूनादाय अन्तरिक्षस्य वः सानाववगूहामि । अवगूहति । पशून् स्नपयन्ति । आग्नेयादि पशुषु कूटत्वात् प्रायश्चित्तं हुत्वा । इषेत्वेत्यादि आग्नेयं पशुमुपाकृत्य ऐन्द्रमेषमुपाकरोति । मारुतीं जुष्टामुपाकरोमीत्युपाकृत्य । मेषीमपन्नदतीं सरस्वत्यै त्वा जुष्टामुपाकरोमि । मेषं सरस्वते त्वा जुष्टमुपाकरोमि । सप्तदशप्राजापत्यान् श्यामान् तूपरानेकरूपानुपाकरोति । क्रमेण सर्वेषां चिह्नकरणं । एवमाग्नेयादीनामुपाकृत्य पञ्च जुहोति । प्रजानन्तः — शरीरैस्स्वाहा । पशुभ्य इदम् । येषामीषे —द्विपदां । निष्क्रीता इमे यज्ञियं भागं यन्तु रायस्पोषा यजमानस्य सन्तु स्वाहा । पशुपतय इदम् । ये बध्यमानाननुबध्यमाना — संविदानस्वाहा । अग्नय इदम् । य आरण्याः — संविदानस्स्वाहा । वायव इदम् । प्रमुञ्चमाना — पाथस्स्वाहा । देवेभ्य इदम् । अग्नेर्जनित्रमसीत्याद्यधिहोमान्तम् । सावित्रेण रशनामादाय अग्नये त्वा जुष्टं नियुनज्मि । तदैव इन्द्राय त्वा जुष्टम् । त्रयाणामुत्तरतो नियोजनम् । अन्येषां दक्षिणतः । मरिद्भ्यस्त्वा जुष्टम् । सरस्वत्यै त्वा जुष्टम् । सरस्वते त्वा जुष्टम् । प्रजापत्यानुपाकरणं क्रमेण । एवं सर्वत्र । अद्भ्यस्वौषधीभ्यः प्रोक्षाम्यग्नये त्वा जुष्टं प्रोक्षामि एवं प्रतिपशूनां जुष्टं । स्त्रीपशोर्जुष्टाम् । अपापेरुरसीति क्रमेण । स्वात्तं चित्सदेवमिति क्रमेण । सदितैनामिति वेशामेष्याः । अयं वेद इत्यादि स्रुच्यमाघार्य प्रत्याक्रम्य । सं ते प्राण इत्यादि पदार्थचतुष्टयेन एकैकं पशुमनक्ति क्रमेण । ध्रुवा समञ्जनादि कर्म प्रतिपद्यते । दश प्रयाजानिष्ट्वा शेषेण सर्वान् स्वरूननक्ति तन्त्रेण । स्वरूणां चिह्नकरणम् । घृतेनाक्तौ पशुं त्रायेथामिति आग्नेयमङ्क्त्वा । स्वरुमवगूह्य । पुनः स्वधित्यञ्जनादि प्रतिपशौ क्रमेण । पर्यग्निकरणं तन्त्रेण । उल्मुकं प्रत्यपिसृज्य प्रतिपर्येति । पर्यग्निभ्यः क्रियमाणेभ्योनुब्रूहि । प्रजानन्तः इति पूर्ववत् । पशुपतेः पशवो — उत । तेषां यान्वव्रिरे देवास्तꣴ्स्वराडनु मन्यताꣴ् स्वाहा । पशुपतय इदम् । ये बध्यमानानिति । रेवतीर्यज्ञपतिमित्यादि । पशूनां तन्त्रेण नयनम् । आश्रावणादुपप्रेष्य होतः । आग्नीध्रः प्राजहितादाहृत्य पशुस्रपणार्थं निदधाति । आहवनीयादुल्मुकमादाय गच्छति । प्रमुञ्चमाना इति जुहोति । अध्वर्युः नाना प्राणो — देवयानः । जीवं देवानामपियन्तुपाथस्सत्यास्सन्तुयजमानस्य कामाः । इति जपति । पृथिव्यास्संपृचःपाहीत्येतस्यावृत्तिः । स्वर्विदस्थ — नाथं पशुभ्यः । नवा उवेतन्म्रियेध्वे — देवस्सविता दधातु । आशाना व आशापालेभ्य इत्यादि । नाना प्राणो यजमानस्य पशुभियज्ञो देवेभिस्सह देवयानः । जीवं देवानामपियन्तुपाथस्सत्यास्सन्तु यजमानस्यकामाः । यासामूध इत्यादि । इन्द्रस्य भागः — वीराः । यदस्य पारे । यस्माद्भीषा वाशिढ्वं — । यस्माद्भीषा न्यषदत — । यस्माद्भीषा वेपिढ्वं — । यस्माद्भीषा पलायिढ्वं — । यस्माद्भीषा समज्ञाढ्वं — । यस्माद्भीषा निमेहथ — । यस्माद्भीषा शकृत्कुरुत — । यत्पशवो मायुमकृषतोरो वा पद्भिराघ्नते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वꣳ्हसः । अग्नय इदम् । निष्टप्तमित्यादि । वपाश्रपणीभ्यां तन्त्रेण प्रतितपनम् । शमितार उपेतन यज्ञं देवेभिरिन्वितं । पाशेभ्यः पशून् प्रमुञ्चत बन्धाद्यज्ञपतिं परि । अदितिः पाशमित्यादि आवित्तिः । क्रमेण विमोकः । ग्रीवासु निधानं च । मुख्यैव शूलया सर्वा रशना गृहीत्वा तन्त्रेण उदासः । ततः प्रतिप्रस्थाता पत्नीमुदानयेत्यादि शुद्धाश्चरित्रा इत्यन्तं एकैकस्य कृत्वा । पश्वोर्मेढ्रं त इति लोपः । एवमेव शिष्टानां शमोषाधीभ्य इत्यन्ते पशोर्निनयनम् । ओषधेत्रायस्वैनमित्यादि तदुभयतो लोहितेनाङ्क्त्वा । प्रज्ञातं निधाय । इषेत्वेत्यादि अच्छिन्नो रायस्सुवीरोग्नये त्वा जुष्टामुत्कृन्तामि । ओषधे त्रायस्वैनमित्या पूर्ववत् । उत्कृन्तनं यथा देवतायाः । एवं सर्वत्र । ओषधे त्रायस्वैनां स्वधिते मैनाꣳ् हिꣳ्सीरिति स्त्री पशोः । अन्त्यपशौ लोहितेनाङ्त्वा निरस्तमिति तन्त्रेण । रक्षसां भागस्थ । प्रत्युष्टमिति सर्वासां तपनम् । तन्त्रेण उख्यान्वारम्भो यजमानस्य । निर्दग्धमिति तन्त्रेण । अविदहन्तश्रपयत । वायो वीहिस्तोकानामिति आवृत्तिः । वपाभिहोमास्तन्त्रेण । ये व आत्मानः पशुषु प्रविष्टा देवानां विष्ठामनु यो वितस्थिरे । आत्मन्वान् सोम घृतवान् हि भूत्वा देवान् गच्छत सुवर्विन्दत यजमानाय मह्यम् । दृꣳ्हत गा दृꣳ्हत गोपतिं मा वो यज्ञपती रिषत् ।सुपिप्पला ओषधीः कृत । प्रयुता द्वेषाꣳ्सि । वपाश्रपणी प्रवृह्य । तूष्णीं निधाय । इमानीन्द्रियाण्यमृतानि वीर्याणि अनेनेन्द्राय पशवो चिकित्सन् । ताभिर्देवा अवतोप मामिहेषमूर्जं यशस्सह ओजस्सनेयं वपा मयिश्रयताम् । अनूहो वा मन्त्रस्य । अयं यज्ञो ममाग्ने पञ्चहोता । न चतुर्होता । घृतवति शब्द इत्यादि स्वाहा देवेभ्य इति हुत्वा । जुह्वामुपस्तीर्येत्यादि । अग्नये छागस्यवपाया मेदसोऽनुब्रूहि । एवं प्रेष्य । जातवेदो वपया । इन्द्राय वृष्णोर्वपाया मेदसोऽनुब्रूहि । एवं प्रेष्य । मरुद्भ्य उस्राया वपाया मेदसोऽनुब्रूहि । एवं प्रेष्य । जातवेदो वपया । सरस्वत्यै मेष्या वपाया मेदसोऽनुब्रूहि । एवं प्रेष्य । जातवेदो वपया । जुह्वामुपस्तीर्य । प्राजापत्यास्तंन्त्रेणावदाय । प्रजापतये छागानां वपानां मेदसोऽनुब्रूहि । एवं प्रेष्य । जातवेदो वपाभिर्गच्छ देवान् त्वꣳ्हि होताप्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतꣳ् हविरदन्तुदेवास्स्वाहा । तन्त्रेण परिवप्यहोमः । सर्वास्सान्नाय्यवदनुमन्त्रणम् । सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयमिति मेष्याः । देवेभ्यस्स्वाहेति परिवप्यहोमास्तन्त्रेण । क्रमेण वपोद्धरणमभिघारणम् । तन्त्रेण वपाश्रपणी प्रहरणम् । स्वाहोर्ध्वनभसं मारुतं गच्छतम् । तन्त्रेण स्वाहेत्यादि होमः । तन्त्रेण समुत्क्रम्य मार्जनं कृत्वा । प्रातस्सवनाय संप्रसर्पन्तीत्यादि । तेजसे मे वर्चोदा वर्चसे पवस्व इत्याग्नेयमवेक्ष्य । ओजसे मे वर्चोदानि वर्चसे पवध्वं षण्णामैन्द्राणामवेक्ष्य । वर्चसे म इति सौर्यम् । वीर्याय मे वर्चोदा वर्चसे पवध्वम् । षोडशिना सह सप्तदश प्राजापत्यानामवेक्षणम् । विष्णोर्जठरमसीत्यादि सर्पणान्तं सौमिकम् । इति प्रातस्सवनम् ।

माध्यन्दिन सवनम्

अथ माध्यन्दिन कर्मोच्यते । देवसवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः । केतपूः केतं नः पुनातु वाचस्पतिर्वाचमद्यस्वदाति नस्स्वाहा । सवित्र इदम् । होतृचमसे वसतीवरीरभिपूर्येत्यादि ग्राव्णोऽनुमोदते । प्रतिप्रस्थातस्सवनीयान्निर्वपेत्युक्ते । प्रतिप्रस्थाता पशुपुरोडाशान् सवनीयान् च निर्वपति । तस्य कर्म । द्वे भर्जनार्थे कपाले । सप्तस्प्ततिकपालानि स्थालीं शूर्पत्रयं च द्वंद्वम् । शरावमपि प्रयुनक्ति । कृष्णाजिनादानादि षट्कं । कुहकत्रययुक्तां पात्रीं प्राशित्र हरणम् । मदन्ती मेक्षणं वेदाग्रं च । पवित्रे कृत्वा । यजमान वाचं यच्छ । संविशन्तामित्यादि । वानस्पत्यास्थ दक्षाय वाम् । वेषाय वः । अग्निहोत्रहवणी शराव चादत्ते । शूर्पे पवित्रे निधाय । अग्नये जुष्टं निर्वपामि । इन्द्राग्निभ्यां जुष्टं निर्वपामि । इन्द्राय जुष्टं निर्वपामि । मरुद्भ्यो जुष्टं निर्वपामि । सरस्वत्यै जुष्टं निर्वपामि । अन्यस्मिन् शूर्पे पवित्रे निधाय । सरस्वत्यै जुष्टं निर्वपामि । अन्यस्मिन् शूर्पे पवित्रे निधाय । यवान् । इन्द्राय हरिवते जुष्टं निर्वपामि । इन्द्राय पूषण्वते जुष्टं निर्वपामि । पूर्वस्मिन् शूर्पे पवित्रे निधाय । सरस्वत्यै भारत्यै जुष्टं निर्वपामि । पुनर्यवेषु पवित्रे निधाय इन्द्राय जुष्टं निर्वपामि । पुनर्वीहिषु जुष्टं निधाय । सरस्वत्यै जुष्टं निर्वपामि । अन्यस्मिन् शूर्पे पवित्रे निधाय । शरावेण निर्वपति । द्वादशमात्रेण बृहस्पतये जुष्टमित्यादि नैवारम् । तूष्णीं पञ्च । इदं देवानामित्यादि नानाबीजवत् । अग्ने हव्यꣳ् रक्षस्वेन्द्राग्नी हव्यꣳ् रक्षेथामिन्द्र हव्यꣳ् रक्षस्व मरुतो हव्यꣳ् रक्षध्वं सरस्वति हव्यꣳ् रक्षस्वेन्द्र हरिवन् हव्यꣳ् रक्षस्वेन्द्र पूषण्वन् हव्यꣳ् रक्षस्व सरस्वति भारति हव्यꣳ् रक्षस्वेन्द्र हव्यꣳ् रक्षस्व सरस्वन् हव्यꣳ् रक्षस्व बृहस्पते हव्यꣳ् रक्षस्व इत्युपसादनम् । अग्नयेत्वा जुष्टं प्रोक्षामीति यथा दैवतं हविस्त्रिःप्रोक्षति । शुन्धध्वमिति सर्वाभिरद्भिस्त्रिः प्रोक्ष्य । उलूखले मुसले प्रतिष्ठिते व्रीहीणां विभागः । यथाभागं व्यावर्तध्वम् । इदमिन्द्राग्नियोरिन्द्रस्य मरुताꣳ् सरस्वत्यास्सरस्वते इति स्थविष्ठभागमभिमृशति । इदं सरस्वत्या भारत्या इत्यणिष्ठभागः । अग्नेस्तनूरसीत्यादि प्रस्कन्दनान्तं व्रीहीणां यवानामपि तथैव । नीवारानोप्य हविष्कर्ता वाचं विसृज्यपशुं विशास्ति । गुदं मा निर्व्लेषीर्वनिष्ठुं मानिर्व्लेषीरिति संप्रेष्यति । सर्वेषाम् प्शूनां विशसनं । अग्निं त्रयोविंशतिधा विभज्य । हृदयशूलपवित्रोपवेशान् प्रथमे शामित्राग्नौ निष्टप्तमिति प्रतितप्य । पवित्रोपवेषं विहाय द्वितीयादिषु कुम्भीशूलं च यथाक्रमं प्रतितप्य । धृष्ट्यादानादि भृगूणामङ्गिरसां तपसा तप्यस्व इति प्रतिकुम्भी यथाक्रमेण कुर्यात् । द्वितीयादिषु धृष्टिरसीत्यस्य लोपः । ततो वसूनां पवित्रमसीति शाखापवित्राधानादि हृदयश्रपणान्तमेकैकस कृत्वा । नीवारावहननादि तण्डुलस्कन्दनान्तं कृत्वा । अदब्धेन व इति तन्त्रेणावेक्षणम् । क्रमेण फलीकरणम् । प्रक्षालनं च तन्त्रेण निनयनम् । यवानां विभागः । यथाभागं व्यावर्तध्वम् । इदमिन्द्रस्यहरिवत इदमिन्द्रस्य पूषण्वतः । इदमिन्द्रस्य । कृष्णाजिनादानादि । अꣳ्शवस्थ मधुमन्तः । इति व्रीहियवतण्डुलानां पेषणार्थानां तन्त्रेण अवेक्षणम् । फलीकरणाधिवापयोरादावेदप्रैषः । धृष्ट्यादानादि अग्निसरस्वति सरस्वतां कपालोपधानिकाले चिदसीति द्विः चितस्थेति त्रिः । आग्नेयादि पुरोडाशानां पञ्चकपालोपधानानन्तरं सवनीयानां उपधानम् । सरस्वत उपधाय नैवारस्थान्युपधानं । भृगूणामित्यादि । संवापनकाले आग्नेयादि षट्कसंवापनानन्तरं यवपिष्टसंवापः । उत्पवनकाले आग्नेयान्युत्पूययवानुत्पूय व्रीहीनुत्पूय ऐन्द्रपिष्टान्युत्पूय नैवारानुत्पुनाति । देवस्यत्वेति पय उत्पूय स्थाल्यामासिञ्चति । अन्या वा यजुषो त्पूय । समाप इति कृत्वा जनयत्यै त्वा संयौम्यग्नेत्वेन्द्राय त्वा मरुद्भ्यस्त्वा सरस्व्त्यै त्वा सरस्वते त्वा । व्यावर्थेतां सकृत् । तयोरेव निर्देशः । इदं सरस्वत्याः । इदं सरस्वतः । इदमहꣳ् सेनाया इत्यादि । घर्मोसीति पुरोडाशपञ्चकमधिश्रित्य । घर्मास्थ विश्वायुषः धानाः । घर्मोसीत्यवशिष्टानाम् । प्रथनादि पुरोडाशानामेव । अन्तरितं सर्वेषाम् । पवित्रविसर्गान्तं कृत्वा । इदमहꣳ् सेनाया इत्यादि । सूर्यज्योतिषो विभातेति धानानाम् । स्योनं वः स्सदनं करोमि गृतस्य दारया सुषेवं कल्पयामि वः । क्रमेणोद्वासनं । धाना उद्वास्य । धानाः करम्भञ्च कृत्वा पात्र्यां प्रतिष्ठापयति । धाना उद्वासनकाले भुवनस्य गोपाश्शृता उत्स्नान्ति जनितारो मतीनां । भुवनस्य गोपाश्शित इति लाजानुद्वास्य । लाजान् कृत्वा मन्त्रेण निदधाति । ऐन्द्रमुद्वास्य तूष्णीं प्रतिष्ठापयति । सरस्वतमुद्वास्य मन्त्रेण प्रतिष्ठापयति । नैवारमुद्वास्य कपालानि प्रत्यज्यन्ते । अध्वर्युः शुक्रामन्थिग्रहादि ग्रहणम् । पुरोडाशालङ्करणान्तम् । विष्णो त्वं नो अन्तंमः । सोमः पवित्रम् । सोमोह्वयताम् । दधिघर्म ग्रहणादि । दिवंगच्छसुवः पतेत्यन्तम् । सारस्वतनैवारयोर्नासादनम् । अग्नये पुरोडाशस्यानुब्रूहीत्यादि पुरोडाशानां प्रचारः । इन्द्रस्य वज्रोसि वार्त्नघ्नस्त्वयायं वृत्रं वध्यात् । वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे । यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवस्सविता धर्मसाविषत् । रथादश्वान् विमुच्य । अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तिष्वश्वा भवथ वाजिनः । अश्वानप्सु स्नापयन्ति । प्रत्यश्वं मन्त्रावृत्तिः । अपान्नपादाशुहेमन्य ऊर्मिः ककुद्मान् प्रतूर्तिर्वाजसातमस्तेनायं वाजꣳ् सेत् । ललाटदेशं सम्मार्ष्टि प्रत्यश्वं । वायुर्वात्वा मनुर्वात्वा गन्धर्वास्सप्तविꣳ्शतिः । ते अग्रे अश्वमायुञ्जन्ते अस्मिन् जवमाददुः । रथेश्वान् बध्नाति । तूष्णीमितरान् । षोडशरथान् वाजसृतः । स्वःस्वंयुञ्जति । रूपेण वो रूपमभ्यैमि वयस वयः । तुथो वो विश्ववेदा विभजतु वर्षिष्ठे अधिनाके । ताः सप्तदशधा कृष्णाजिने व्युत्रास्य । ऋत्विग्भ्यस्सदस्याय च । सप्तदश रथाः सहिता गाः समं ददाति । अग्नीद्धिरण्यं पूर्णपात्रमुपबर्हणं सार्वसुत्रं ते ददामि । होतर्वाचं ते ददामीत्यादि । प्रतिहर्तु दानान्तं कृत्वा । चमसाध्वर्युः प्रसर्पकेभ्यः प्रकृतिवद्दानं । सदस्य आत्मानं ते ददामि । तं ते दक्षिणानां स्वेनांशेन निष्क्रीणामि । तत उद्गातृभ्यः । यजुर्युक्तमध्वर्यवे ददाति । शेषसाधारणान्ते मन्त्रे सर्वं प्रतिगृण्हीयुः । रथानां देवस्य त्वा — राजा त्वा देवि दक्षिणे वैश्वानरायक्षं । वैश्वानरः प्रत्नथा नाकमारुहत् — जागृविः । तेनामृतत्वमश्यामित्यादि । रुद्राय गामिति प्रतिग्रहः । आग्नीध्रः पूर्ववत्प्रतिग्रहः । अग्रेणाहवनीयꣳ् सप्तदशरथानुदीचः । प्राञ्चो वावस्थापयति । आधो दक्षिणतः । अग्रेणाग्नीध्रं राजपुत्रोवस्थाय । सप्तदश प्रत्याधानिषुमस्यति । यत्र जघन्यं निपतति । तत्र औदुम्बरी काष्ठामक्षणं मिनोति । एतत्ते अग्ने राधः । हिरण्यपाणिरग्रेण गार्हपत्यं जघनेन सदो दक्षिणा नयन्यन्तराग्नीध्रं च सदश्च ता उदीची तीर्थेनोत्सृजति । एतत्ते अग्ने राध इत्यादि नयन्ति । अस्मद्दात्रा देवत्रा । विसुवः पश्य — सदस्यैः । ऋत्विग्भ्यो नमः । नीतास्वित्यादि सूत्रतः । सादितेषु नाराशंसेषु । नैवारे लौकिकं सर्पिरानीय । चात्वाले वदधाति । तं राजपुत्रो गोपायति । चात्वाले रथाक्षाकृति काष्ठं निखाय । एतस्मिन्नौदुम्बररथचक्रं सप्तदशारं प्रतिमुञ्चति । उत्तरस्यां वेदिश्रोण्यां सप्तदश दुन्धुभीन्प्रबध्नाति । विष्णोः क्रमोसि विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसि । यजुर्युक्त रथसमीपं गच्छति । अङ्कौन्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनु सञ्चरन्तौ । दूरेहेतिरिन्द्रियावान् पतत्री तेनोग्नयः पप्रयः पारयन्तु । रथचक्रे अभिमृशति । इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजमजयित् । —–। वैश्याः नाध्वर्युः । देवस्याꣳ् सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषम् । औदुम्बरं रथचक्रं — रोहति । रमाहꣳ् वाजिनाꣳ् साम गाय इत्यध्वर्युस्संप्रेष्यति । तस्य चक्रं त्रिः प्रदक्षिणमावर्तयति । वर्तमाने ब्रह्मा गायति । आविर्मर्या इति । अथ सामवैकल्पिकं देवस्याहꣳ् सवितुः प्रसवे बृहस्पतिनावाजजिता वर्षिष्ठं नाकꣳ् रुहेयं । एतेनैव यजुर्युक्तयजमान आरोहति । वैश्या इतरान् रथानारोहन्ति । वजिनो वजजितो वाजꣳ् सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर्भागमवजिघ्रत । नैवारं चरुमश्वौ धुर्यावघ्रापयति । धुर्यास्सकृन्मन्त्रस्सर्वान् वा । वाजिनो वजजितो वाजꣳ् ससृवाꣳ्सो वाजं जिगिवाꣳ्सो बृहस्पतेर्भागे निमृढ्वमियं वस्सा सत्या सन्धाभूद्यामिन्द्रेण समदध्वमजीपत वनस्पतय इन्द्रं वाजं विमुच्यध्वम् मुखे लिप्तलेपान्निमार्ष्टि । अश्वाजनि वाजिनि वाजेषु वाजिनीवत्यश्वान् समत्सु वाजय अश्वाजनिमादाय । अध्वर्युस्तूष्णीं यजिर्युक्तरथमवरुह्य अर्वासि सप्तिरसि वाज्यसि रशनयाश्वान् ताडयति । वैश्याः स्वान् रथानवरुह्य ताडयन्त्यश्वान् । यजुर्युक्तस्य पृष्ठतो गच्छन्ति । वाजिनो वाजं धावत मरुतां प्रसवे जयत वि योजना मिमीड्वमध्वनस्कभ्नीत काष्ठां गच्छत काष्ठां गच्छति । वाजेवाजेऽवत वाजिनो हवेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः । ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनः । मितद्रवस्सहस्रसा देवसाता सनिष्यवः । महो ये रत्नꣳ्समिथेषु जभ्रिरे । शन्नो भवन्तु वाजिनो हवेषु देवताता मितद्रवस्स्वर्काः । जम्भयन्तोहिं वृकꣳ् रक्षाꣳ्सि सनेम्यस्मद्युयवन्नमीवाः चतसृभिर्धावतोऽश्वाननुमन्त्रयते । उज्जितय इमानि यजूꣳ्षि ।

अग्निरेकाख्षरेण वाचमुदजयदश्विनौ द्व्यख्षरेण प्राणापाना-वुदजयतां विष्णुस्त्र्यख्षरेण त्रीन्लोकानुदजयथ्सोमश्चतुरख्षरेण चतुष्पदः पशनुदजयत्पषा पंचाख्षरेण पङ्क्तिमुदजयद्धाता षडख्षरेण षडृतनुदजयन्मरुतः सप्ताख्षरेण सप्तपदाग्ं शक्वरीमुदजयन्बृहस्पतिरष्टाख्षरेण गायत्रीमुदजयन्मित्रो नवाख्षरेण त्रिवृतग्ग् स्तोममुदजयद्वरुणो दशाख्षरेण विराजमुदजयदिंद्र एकादशाख्षरेण त्रिष्टुभमुदजयद्विश्वे देवा द्वादशाख्षरेण जगतीमुदजयन्वसवस्त्रयोदशाख्षरेण त्रयोदशग्ग् स्तोममुदजयन्रुद्राश्चतुर्दशाख्षरेण चतुर्दशग्ग् स्तोममुदजयन्नादित्याः पंचदशाख्षरेण पंचदशग्ग् स्तोममुदजयन्नदितिष्षोडशाख्षरेण षोडशग्ग् स्तोममुदजयत्प्रजापतिः सप्तदशाख्षरेण सप्तदशग्ग् स्तोममुदजयत् ।

यजमानो वाचं यच्छति । चिन्हकृतं लक्षणं प्राप्य उदञ्च आवृत्य प्रदक्षिणमावर्तते । मितद्रवस्सहस्रसा मेधसाता — अमीवाः । एषस्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि । क्रतुं दधिक्रा अनु सन्तवीत्वत् पथा मङ्काꣲ्स्यन्वा पनीफणत् । उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्ण्णस्सहोर्जा तरित्रतः इति प्रत्याधावतोऽश्वाननुमन्त्रयते । आ मा वाजस्य प्रसवो जगम्यादा द्यावपृथिवी विश्वशम्भू । आ मा गन्तां पितरा मातरा चामा सोमो अमृतत्वाय गम्यात्स्वाहा । द्यावापृथिवीभ्यां सोमायेदम् । प्रत्यद्ग्रहेषु हुत्वा । पुनर्नैवारमवघ्रापयति । वाजुनो वाजजितो — निमृढ्वम् इति मुखलेपं सम्मार्ष्टि । इयं वस्सा सत्या सन्धाभूस्यामिन्द्रेण समदध्वमजीजिपत वनस्पतय इन्द्रं वाजं विमुच्यध्वꣴ् स्वाहा । इन्द्रायेदम् । षोडशकुड्मलानि वैश्येभ्यो दत्वा । तानि प्रत्याधाय ब्रह्मणे ददाति । मधुष्ठालं चसौवर्णं शतमानस्य कृतं पात्रं च । महाꣳ् इन्द्रो य ओजसा पर्जन्यो वृष्टिमाꣳ् इव । स्तोमैर्वत्सस्य वावृधे । उपयामगृहीतोसि महेन्द्राय त्वा गृहीत्वा । एष ते योनिर्महेन्द्राय त्वा सादयति । असर्ज्यसर्जीति स्तोत्रमुपाकरोति । उक्तास्वृक्षु अप्रस्तुते क्षत्रस्योल्पमसि घृताक्तं वस्त्रं यजमानः परिधत्ते । ख्षत्रस्य योनिरसि दर्भमयं पत्नी परिधत्ते । जाय एहि सुवो रोहाव इति यजमानः पत्नीमामन्त्रयते । रोहाव हि सुवः पत्नी प्रत्याह । त्रिरामन्त्रयते त्रिः प्रत्याह । किमत्र । अहं नावुभयोस्सुवो रोक्ष्यामि यजमानो जपति । वाजप्रसवीया इमे मन्त्राः । वाजश्च स्वाहा । प्रसवश्च स्वाहा । अपिजश्च स्वाहा । क्रतुश्च स्वाहा । सुवश्च स्वाहा । सूर्यायेदम् । मर्धा च स्वाहा । व्यश्नियश्च स्वाहा । आन्त्यायनश्च स्वाहा । अन्त्यश्च स्वाहा । भौवनश्च स्वाहा । भुवनश्च स्वाहा । अधिपतिश्च स्वाहा । सर्वेषामग्निर्देवता ।

कल्पा इमे मन्त्राः आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पताग् श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतां आजिं धावन —? ।

सप्तदश फलकया निश्रोण्या यूपं यजमान आरोहति सुवर्देवाग्ं अगन्मामृता अभूम प्रजापतेः प्रजा अभूम अग्रं प्राप्य जपति । समहं प्रजया सं मया प्रजा समहग्ं रायस्पोषेण सं मया रायस्पोषः यजमानस्य गृहान् प्रेक्षते । पत्नी प्रेक्षते । अश्वत्थपत्रेषु कृष्टणं मृत्तिका–? षांश्च दीर्घवंशे अग्रपुटेकृतिं कृत्वा महर्त्विजो यजमानं घ्नन्ति । अन्नाय वेति यथा सूत्रं । अन्नाय त्वा इति पुरस्तादध्वर्युः । अन्नाद्याय त्वा । दक्षिणतो ब्र्ह्मा । वाजाय त्वा । पश्चाद्धोता । वाजजित्यायै त्वा । उत्तरत उद्गाता । मुखतोभिघ्नन्ति । हन्तारं हन्तारं अभिपर्यावर्तते । यजमानः इयं ते राण्मित्राय यन्त्राय धर्त्राय कृष्यै क्षेमाय रय्यै पोषाय प्रत्यवरोॆहति । प्रत्या अप्यारोहणावरोहणे अग्रेण यूपं । बस्ताजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य । तस्मिन् शतमानं हिरण्यं निधाय । अमृतमसि हिरण्ये दक्षिणपादं यजमानः प्रतिष्ठापयति । पुष्टिरसि । प्रजननमसि । बस्ताजिने सव्यपादं । अग्निं दक्षिणतः । षट्परिघामासन्दीं स्थापयति । चर्मभूमिं उपस्पृशन् यजमानः तामारोति । दिवं प्रोष्ठिनीमारोहमारुह्य । प्रपश्यैकराण्मनुष्याणाम् आरोहन्तमभिमन्त्रयतेऽध्वर्युः । ग्राम्यारण्योषधीः चरून् श्रपयित्वा । पृथग्पृथग्यवागूः कृत्वा संसृज्य । औदुम्बरेण स्रुवेण जुहोति । वाजस्येमं प्रसवस्सुषुवे अग्रे सोमꣳ् राजानमोषधीष्वप्सु । ता अस्मभ्यं मधुमतीर्भवन्तु वयꣳ्राष्ट्रे जाग्रियाम पुरोहितास्स्वाहा । अग्नय इदम् तिलयवागूं । हुत्वा हुत्वा पात्र्यां सम्पातमवनयति । वाजस्येदं प्रसव आ बभूवेमा च विश्वा भुवनानि सर्वतः । स विराजं पर्येति प्रजानन् प्रजां पुष्टिं वर्धयमानो अस्मे स्वाहा । अग्नय इदम् माषयवागूं । वाजस्येमां प्रसवश्शिश्रिये दिवविमाच विश्वा भुवनानि संराट् । अदित्सन्तं दापयतु प्रजानन् रयिं च नस्सर्ववीरां नियच्छतु स्वाहा । अग्नय इदम् व्रीहियवागूम् । अग्नेअच्छा वदेह नः प्रति नस्सुमना भव । प्रणो यच्छ भुवस्पते धनदा असि नस्त्वꣴ्स्वाहा । अग्नय इदं यवकृताम् । प्रणो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः । प्र देवाः प्रोत सुनृता प्र वाग्देवी ददातु नस्स्वाहा । अग्नय इदं प्रियङ्गुकृताम् । अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । वाचं विष्णुꣳ् सरस्वतीꣳ् सवितारं च वाजिनꣴ् स्वाहा । अग्नय इदं अणुकृताम् । सोमꣳ्राजानं वरुणमग्निमन्वारभाभामहे । आदित्यान् विष्णुꣳ् सूर्यं ब्रह्माणं च बृहस्पतिꣴ् स्वाहा । अग्नय इदं गोधूमकृताम् । वाजादीनां अग्निर्देवता । ब्रह्म प्रवास्यह्न इति प्रस्तौति । पृष्ठस्तूयमाने आसन्द्यां कृष्णाजिन उपतिष्ठन्तं उत्तरवेदिमन्वारब्धं यजमानं सम्पातैरभिषिञ्चतिः । चति स्रुवेण प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन् शीर्षतोऽभिषिच्य । देवस्य त्वा सवितुः प्रसवेऽश्विनोबाहुभ्यां पूष्णो हस्ताभ्याꣳ् सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामि । देवस्य त्वा सवितुः प्रसवेऽश्विनोबाहुभ्यां पूष्णो हस्ताभ्याꣳ् सरस्वत्यै वाचो यन्तुर्यन्त्रेणेन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि । देवस्य त्वा सवितुः प्रसवेऽश्विनोबाहुभ्यां पूष्णो हस्ताभ्याꣳ् सरस्वत्यै वाचो यन्तुर्यन्त्रेण बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामि ।आ मुखादन्ववस्रावयति । स्तुतस्य स्तुतमसीत्यादि । अतिग्राह्य काले षण्णामतिग्राह्याणां पृथग्घोमानुमन्त्रणं च । मध्यम उक्थ्य पर्याये ब्रह्मण्युपाकृते सारस्वतयार्नैैवारयोरासादनम् । यज्ञोस्ययं यज्ञो ममाग्ने चतुर्होता । तयोः प्रचारः । जुह्वामुपस्तीर्येत्यादि । सरस्वते पुरोडाशस्यानुब्रूहि । एवं प्रेष्य । सरस्वतेरहमन्नादः । बृहस्पतये चरोरनुब्रूहि । बृहस्पतये चरोः प्रेष्य । बृहस्पतेरहमन्नादः । समानं स्विष्टकृदादि । मार्जनान्ते महर्त्विजः हविरुच्छिष्टाशा भवन्ति । आग्नीध्रे हविष्शेषान् भक्षयन्ति । अनुवासिरात्रियै त्वेत्यादि सर्पतीत्यस्तं समानम् । इति माध्यन्दिनं सवनम् ।

अथ तृतीयसवनीय कर्म । देवसवितः प्रसुव — स्वदाति नस्वाहा । सवित्र इदम् । आदित्यग्रहादि ग्रहणं कृत्वा । उक्थ्यं गृह्णाति । धाराविरमति । आर्भवेस्तुते अग्नीदग्नीन् विहर — पशुषु संवदस्व । विष्णो त्वं नो अन्तमः इत्युपस्थानं । एतयैवाध्वार्युः पात्राणि संमृश्य । प्रतिप्रस्थाता शृतꣳ् हवीश्शमितरित्यादि । सन्ते मनसामन इत्यादि । आग्नेयादीनां यथादेवतं क्रमेण हृदयाभिघारणं । यस्त आत्मेत्यादि आग्नेयादि पशूनां स्थालीगताज्येनाभिघारणं क्रमेण । उषानुमन्त्रणं तन्त्रेण । क्रमेणोद्वसनम् । सरस्वत्पशुना सह पञ्चहोत्रासादनं क्रमेण । इदमिन्द्रियं अयं यज्ञो ममाग्ने पञ्चहोता । आसन्नाभिमर्शनम् । असम्भवतां मन्त्रावृत्तिः । चतसृषूपस्त्रृणीत इत्यादि आग्नेयस्य दैवतान्यवधाय सौविष्टकृतानि । मन्त्रेण प्रत्यभिघार्य उपभृत्यवघाय उभयोर्मेदसा प्रावरणान्तं कृत्वा जुह्वां हिरण्यशकलमवदाय वसां गृह्णाति । एवं सर्वत्र । आग्नेयस्य ऐन्द्रःप्राण इत्यन्तं । अग्नये छागस्य हविषोनुब्रूहि । अग्नये छागस्य हविषः प्रेष्य । अर्धर्चे वसाहोमः । न दिग्यागः । शेषमन्यत्र स्थापयति । यथादैवतं संप्रैषः । ऐन्द्रः प्राणः । इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रूहि । इन्द्राग्निभ्यां छागस्य हविषः प्रेष्य । सरस्वते मेषस्य हविषोऽनुब्रूहि । सरस्वते मेषस्य हविषः प्रेष्य । प्राजापत्यानां तन्त्रेणावदानं । जुह्वामुपस्तीर्येत्यादि । प्राजापत्यान् सर्वानवदाय त्रीण्यङ्गानि यदवदानानि वो । प्रत्यभिघार्य । तान्युपभृत्यवधाय प्राजापत्यानां मेदोभागः स्रुचौ निधाय हिरण्यशकलमुपरिष्टात् कृत्वा । प्रजापतये (उपांशु) छागानां हविषोऽनुब्रूहि । प्रजापतये छागानां हविषः प्रेष्य । उभे अभिघार्य । आगेयादीनि इडानि सर्वानिडान्यवदाय । सर्वाणि मेदांस्यवदाय सर्व यूश्णोपसिच्य अभिघार्य । प्राजापत्यानां वसाहोमः तन्त्रेण । सर्वासां समवदाय दिग्यागः । मार्जनान्ते सोमः पवित्रं । कलशोह्वयताम् । सोमोह्वयताम् । सवनीयादि सौमिकं कर्म । पात्नीवतभक्षणनि । होतृचमसमुख्यान् चमसानुन्नयन् यज्ञायज्ञियस्य स्तोत्रमुपाकरोति । आग्निमारुतानन्तरं उक्थ्य पर्यायः । उपयामगृहीतोसीन्द्रावरुणाभ्यान्त्वा जुष्टं गृह्णामि देवेभ्यः — उक्थायुवं । उक्थपात्रेनोक्थ्य तृतीयं गृहीत्वा पवित्रदशाभिः परिमृज्य । एषतेयोनिरिन्द्रा वरुणाभ्यान्त्वा सादयति । पुनर्हविरसि स्थालीमभिमृशति । मैत्रावरुणचमसमुख्यान् चमसानुन्नयति । असर्ज्यसर्जि । ब्रह्मा देवसवितरेतत्ते — तन्तुरसि प्रजाभ्यस्त्वा प्रजाजिन्व । ओꣲ् स्तुत । स्तुतस्य स्तुतम् । इडा देवहूः । शोंसामोद इव । ग्रहमध्वर्युरादत्ते चमसान् चमसाध्वर्यवः । उक्थशा यज सोमानाम् । इन्द्रा वरुणाभ्यामिदम् । प्रत्याक्रम्य अन्तरा सदोहविर्धानयोर्मध्ये तिष्ठन् देवेभ्यस्त्वा देवायुवं पृणज्मियज्ञस्यायुषे मैत्रावरुणचमसे सम्पातमवनयति । प्रशास्तृभक्षितं चमसमध्वर्युः प्रति भक्षयति । सर्वभक्षाश्चमसाभवन्ति । प्रक्षालितेषु चमसेषु । एवं विहितवुत्तरौ प्रर्यायौ । उपयामगृहीतोसीन्द्राबृहस्पतिभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवायुममुक्थेभ्य उक्थायुवम् । उक्थ्यपात्रेण अर्धमुक्थ्यं गृहीत्वा । एष ते योनिरिन्द्राबृहस्पतिभ्यां त्वा सादयति । पुनर्हविरसि स्थालीमभिमृशति । ब्रह्मा देवसवितरेतत्ते — पृतनाषाडसि पशुभ्यस्वा पशून् जिन्व । ओꣲ् स्तुत । उक्थशा यज सोमानाम् । इन्द्राबृहस्पतिभ्यामिदम् । प्रतिप्रस्थातोर्ध्वपत्रस्य भक्षयति । सर्वान् चमसान् सकृद्ब्राह्मणाच्छंसी भक्षितं चमसं प्रतिभक्षयति । सर्वभक्षाश्चमसाभवन्ति । प्रक्षालितेषु चमसेषु । उपयामगृहीतोसीन्द्राविष्णुभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवायुममुक्थेभ्य उक्थायुवम् । उक्थ्यपात्रेण सर्वमुक्थ्यं गृहीत्वा । एष ते योनिरिन्द्राविष्णुभ्यां त्वा सादयति । न स्थालीमभिमृशति । अच्छावाकचमसमुख्यान् चमसानुन्नयति । ब्रह्मा देवसवितरेतत्ते — रेवदस्योषधीभ्यस्त्वौषदीर्जिन्व । ओꣲ् स्तुत । उक्थशा यज सोमानाम् । इन्द्राविष्णुभ्यामिदम् । अन्तरा — देवेभ्यस्त्वा । होतृचमसमुख्यान् चमसानुन्नयति । समयाविषिते सूर्ये हिरणेन षोडशिनस्तोत्रमुपाकरोति । बर्हिस्थाने भवति । असर्ज्यसर्जीत्यादि । अभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्व । ओꣲ् स्तुत । इडा देवहूः । शोंꣳ्सामोद इव । आ त्वा वहन्तु हरय इत्यभिज्ञाय ओथामोदैव मदे । मदामोदैवोमथ । प्रप्रचस्त्रिष्टुभमित्यन्तम् । शस्त्रस्य शस्त्रम् । अग्नये पथिकृत इत्यादि । आहुतिं हुत्वा । प्रचरण काले षोडशिग्रहमध्वर्युरादत्ते । चमसान् चमसाध्वर्यवः । उक्थशा यजसोमानाम् । इन्द्राधिपतेधिपतिः —? मनिष्येषु कुरु स्वाहा । वषट्कृते जुहोति । इन्द्राय षोडशिन इदम् । अग्नये स्विष्टकृत इदम् । होत्रा भक्षितं ग्रहमध्वर्युः प्रतिभक्षयति । भक्षेहीत्यादि । होतरुपह्वयस्व । इ—? । एतं तयोरनि भक्षं — तृप्यतु । भक्षयित्वा हिन्व मे । सर्वान् चमसान् दिर्होता भक्षयति । चमसिन उपह्वयध्वं । सर्वभक्षाश्चमसाभवन्ति । प्रक्षालितेषु चमसेषु । सादयति । अथ बृहतस्तोत्रोपाकरणं । उन्नेता सर्वं राजानमुन्नयमातिरिरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जति । उत्तमे गण एत इति संप्रेष्यति । पूतभृतो बिलौदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तं सर्वं पूतभृत्यवनीय । होतृचमसमुख्यान् चमासानुन्नयन् सर्वं राजानमुन्नीय दशाभिः कलशौ मृष्ट्वा न्युब्जति । असर्ज्यसर्जि । ब्रह्मा देवसवितः — अधिपतिरसि प्रणाय त्वा प्रणं जिन्व । ओꣲ् स्तुत । स्तुतस्य स्तुतम् । इडादेवहूः । शोंसामोदैव । ओथामोदैव । शस्त्रस्य शस्त्रमसि । अग्नये पथिकृत इत्यादि । होतृचमसन्ध्वर्युरादत्ते चमसान् चमसाध्वर्यवः । ऋत्विज इतरा सोमग्रहान् । संपृच स्थ सं मा भद्रेण पृङ्त अध्वर्युः सोमग्रहैस्सह प्राङ्मुखो गच्छति । विपृच स्थ वि मा पाप्मना पृङ्त प्रतिप्रस्थाता सुराग्रहैस्सह हविर्धानस्य प्रत्यग्द्वारं निष्क्रम्य । पूर्वया सदःप्रविश्यापरया द्वारा निष्क्रम्य मार्जालीयं गत्वा उदङ्मुखस्तिष्ठति । तथा वाजसृजवषट्कृते सोमस्यग्रहचमसानां प्रक्षेपः । आश्रावय । उक्थशा यज सोमानाम् । प्रजापतेधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु स्वाहा । इति षोडशिमन्त्रेण सर्वऋत्विजा वषट्कृते जुह्वति । चमसाध्वर्यवस्तूष्णीम् । अनुवषट्कृते सर्वेषां तूष्णीं होमः । वषट्कारानु वषट्कारयोः सुराग्रहाननुप्रकम्पयन्ति । मार्जालीये सर्वेषां प्रजापतिर्देवता । प्रजापतिश्वसम्राद्वरुणो राजा — भक्षयामि । वाग्जुषाणा स्थाने मन्त्रः । पयोग्रहानन्यत्रनिनयेत् । होतृचमसमध्वरुः प्रतिभक्षयति । प्रक्षालितेषु चमसेषु । यथा त्वं सूर्यासि विश्वदर्शत एवमहं विश्वदर्शतो भूयासम् आदित्यं यजमान उपतिष्ठते । आयुर्म इन्द्रयं धेह्यदो म आगच्छतु । आहवनीयम् । अग्नीदौपयजादङ्गारानित्यादि । समुद्रं गच्छस्वाहेत्यादि । स्वरुहोमे सर्वान् स्वरूनवधाय द्यां वो धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणध्वꣴ् स्वाहा । स्वरुभ्य इदं । जाघनीभिश्च पत्नीस्संयाजयन्ति । शूलोद्वासनकाले शुगस्थ तं पाप्मानमभिशोचत योऽस्मान् द्वेष्टि यं च वयं द्विष्मः । यूपोपस्थानान्ते यूपवस्त्राण्यादाय अध्वर्यवे ददाति । स्वकीयां हिरण्य मालां च । अग्निंनरा पृथिव्यादि उदवसानीयान्तं समानं । सन्तिष्ठते कुरु वाजपेयः । वाजपेयेनेष्ट्वा ब्राह्मणो बृहस्पतिसवेन यजेत । चयनाद्वाजपेयाद्वापरतश्चोदना सन्ति । सौत्रामण्युत्तरे पर्वण्यन्तरदिनेपि वा । तेनेष्ट्वा सौत्रामण्या यजेत । मैत्रावरुण्यामिक्षया । यावज्जीवं न कञ्चनेत्यादि । वाजपेयस्समाप्तः ।

॥ अथ बृहस्पतिसवः ॥

अथ वाजपेयप्रसङ्गात् बृहस्पतिसवप्रयोगः उच्यते । तत्र सूत्रम् । चत्वारः त्रिवृदग्निष्टोमाः रथन्तरसामानः तेषां प्रथमेनानिरुक्तेन ग्रामकामो यजेत । अनिरुक्तं प्रातस्सवनमित्येकमश्वः श्वेतो दक्षिणा । स ब्राह्मणादयो बृहस्पतिसवो द्वितीयो ब्राह्मणो ब्रह्मवर्चसकामः पुरोधाकामो वा यजेत ।

अथ प्रयोगः । प्राणानायम्य त्रिवृता बृहस्पतिसवेन यक्ष्ये । प्रत्यवरोहणार्थमिति ब्रह्मवर्चसमप्नवानीति सङ्कल्पः । पुरोधार्थमिति वा । पुरोधकामी वा क्रत्वधिकारी । सर्वमग्मिष्टोमवत् । होतृवरणकाले परिस्रजी होता भवति । परिस्रजी खलतिः इत्यर्थः । अरुणो मिर्मिरस्त्रिशुक्रः । अरुणवर्णो मिर्मिरः अक्षिणीयः पुनःपुनः समीलयते स त्रिशुक्रः । अर्मभिर्मातृतः पुतृतश्च स्वयमभिजातवृत्तैश्च शुद्धः । कर्मश्रेष्ठः एवंभूतो होतरं वृणीते । अतिग्राह्यकाले बार्हस्पत्यं गृह्णाति । आग्नेयैन्द्रसौर्याणामन्यतमेषु विकारः । केचित्स्थानात्सौर्यविकारः । बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे । उपयामगृहीतोऽसि बृहस्पतये त्वा भ्राजस्वते गृह्णात्वा पवित्रदशाभिः परिमृज्य । एष ते योनिर्बृहस्पतये त्वा भ्राजस्वते सादयति । अग्नेयं सवनीयं पशुमुपकृत्य बार्हस्पत्यमुपाकरोति । अग्नये त्वा जुष्टमुपाकरोमि । बृहस्पतये त्वा जुष्टमुपाकरोमि । प्राजानन्त इत्यादीनां सर्वं द्विवचनेन ऊहः । सर्वमेकादशिनीवत् । एक एव यूपः । (केचिद्यूपद्वयमिच्छन्ति । तथोपशपात्नीवतौ ।) एकयूपपक्षे द्वे रशने । स्वरुद्वयम् । (पशुगण्त्वेन चोदनाभावात् गणधर्मा नप्रवर्तन्ते इति केचित्) प्रातस्सवने सन्नेषु नारशंसेषु एकादशगावो दक्षिणा दीयन्ते । तुथो व इति विभज्य दाक्षिणहोमनयननि च माध्यन्दिने सवने । प्रातस्सवने दानमात्रमेव । पशवः अस्मिन्काले तीर्थेन नेयाः । द्वादशमाध्यन्दिने ददाति एको अश्वः अन्याः गावः । उभयोः उपाकरोति ययाः माध्यन्दिने सवने यायाः तृतीयसवने । (तासामुभयीषां पृथक्करणमित्यर्थः ।) माहेन्द्रस्य स्तोत्रं प्रत्यभिषेकः । सदसि कृष्णाजिनमास्तीर्य तस्मिन्नासीनमभिषिञ्चति स्थालीवतेनाज्येन शुक्रामन्थिनोः संस्रावेण वा । बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तग्ं रयिग्ग् स्तुवते कीरयेचिद्यूयं पात स्वस्तिभिः सदा नः । माहेन्द्रातिग्राह्यहोमकाले बृहस्पते भ्राजस्विन् भ्राजस्वी त्वं — जुहोमि स्वाहा । सुवर्विदसि इत्यनुमन्त्रणम् । (सौर्यविकारपक्षे) तृतीयसवने सन्नेषु नारशंसेषु एकादशगावो दक्षिणा दीयन्ते । शेषमग्निष्टोमवत् । समाप्तो बृहस्पतिसवः ।