०६ ब्रह्मोपदेशः

अनुज्ञान्तम्

सदस्यान् प्रणम्य

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

दक्षिणां दत्वा
अनुज्ञाप्य

उपवेशनम्

अग्नेः पश्चात् कुमार-निहिते कूर्चे
‘राष्ट्रभृदसीति’ प्राङ्मुखः उपविशेत् ।

१२ राष्ट्रभृदस्याचार्यासन्दी मा ...{Loading}...

+++(हे कूर्च!)+++ रा॒ष्ट्र॒भृद् अ॑स्य् आचार्याऽऽस॒न्दी, मा त्वद्+++(तः)+++ यो॑षम्+++(←यौतिः पृथग्भावे)+++ ।

प्रार्थना

ततः कुमार आचार्यं प्रणम्य
अभिवाद्य
तस्य पुरस्तात् प्रत्यङ्-मुखः आसीनो
दक्षिणेन पाणिना दक्षिणं पादं
सव्येन सव्यम् उपसङ्गृह्य
‘सावित्री भो अनुब्रूहि’ इति प्रार्थयेत् ।

उपदेशः

अथ आचार्यः
पादादौ प्रणवादि-व्याहृति-त्रयम्,
अर्धर्चादौ प्रथम-द्वितीये व्याहृती,
अनवानादौ तृतीयां व्याहृतिं च संयोज्य
गायत्रीं तस्य दक्षिणे कर्णे जपित्वा
तथैव तं वाचयित्वा

११ ११ व्याहृतीर्विहृताः ...{Loading}...

व्याहृतीर् विहृताः - पादादिष्व् अन्तेषु वा, तथार्धर्चयोर्, उत्तमां कृत्स्नायाम् ११

(आद्युच्चारणपक्षे)

पादशः

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्।
ओं भुव॒र् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं सुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

अर्धशः पूर्णश्श्च

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं भुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

ओं सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

पुनः पूर्णोच्यते कैश्चित्

ॐ भूर्-भुव॒स्-सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

ओष्ठोपस्पर्शनम्

‘अवृधमसौ सौम्ये’ति दक्षिणहस्तेन उत्तरम् ओष्ठम् उपस्पर्शयित्वा आचामयेत् ।
नात्र अदश्शब्दे शर्म-निर्देशः ।

१४ अवृधमसौ सौम्य ...{Loading}...

+++(सावित्रीग्रहणात्)+++ अवृ॑धम् अ॒सौ+++(←प्राण-सम्बोधने)+++ सौ॑म्य प्रा॒ण, स्वं मे॑ गोपाय ।+++(५)+++

+++(सम्बोधने स्वरः कथम्??)+++

कर्ण-स्पर्शः

‘ब्रह्मण आणीस्थ’ इति
हस्ताभ्यां युगपत् कर्णौ उपस्पर्शयित्वा

१५ ब्रह्मण आणी ...{Loading}...

+++(सावित्री)+++ब्रह्म॑ण+++(=मन्त्रस्य)+++ आ॒णी+++(=कीले)+++ स्थः॑ ॥+++(५)+++