१० प्रवर्ग्यपात्राणां प्रोक्षणम्

अध्वर्युः :- यमाय त्वा मखाय त्वा । सूर्यस्य हरसे त्वा सर्वं परिघर्म्यमभिपूर्वं त्रिः प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । प्रोक्षितानि व्यायातयति १ । अधिश्रयत्याग्नीध्रो रौहिणौ पुरोडाशौ तूष्णीमुपचरितौ । धृष्ट्यादानादि भस्माध्यूहनपर्यन्तं, नात्र पात्र्यां संवापः मदन्तीभिः संयवनम् । अत्र प्रतिप्रस्थाता दर्विहोमसंस्कारेणाज्यं संस्करेति । अपरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामित्यादि पवित्रानुप्रहरणान्तं करोति । गार्हपत्ये दध्यधिश्रयति । दधि चाधिश्रित्योत्पूय पवित्रेऽनुप्रहरति । अध्वर्युः संराडासन्दीमादाया-ग्रेणाहवनीयं पर्याहृत्य पुरस्ताद्राजासन्द्यास्सादयति । तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नप्रचरणीयौ महावीरावुपावहरति । देव पुरश्चर सघ्यासं त्वा द्विः । अथैतां मेथीं मयूखान् विशाखदामानीत्यादायाग्रेण होतारं जघनेन गार्हपत्यं दक्षिणया द्वारोपनिर्हृत्य दक्षिणेन दक्षिणं द्वारं मेथीं निहन्ति, होतुस्समीक्षायै । एतस्यैव द्वारस्य पूर्वस्यै द्वार्यायै दक्षिणतो वत्साय शङ्कुं, एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया अभ्यन्तरमुत्तरतो बर्कराय । तेषु विशाखदामानि व्यायातयति । तान्येव व्यायातितानि भवन्ति आ उद्वासनात् तैरेनान् काले बध्नन्ति । ततः खरानुपवपति । उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीयमेकम् । उत्तरपूर्वं द्वारं प्रत्युच्छिष्टखरं करोति बाह्यतो निष्षेचनवन्तम् । प्रतिप्रस्थाता उत्तरेणाहवनीयं शृतदध्यासादयति । षट्छकलान् काण्टकीं च समिधम् ।