२९ मदन्तीभिः मार्जनं, घर्मप्रायश्चित्तं च

भक्षयित्वोपयमनं प्रतिप्रस्थात्रे प्रयच्छति । तदुच्छिष्टकरे प्रक्षाल्याऽन्तर्वेद्युपयमनं निधाय । तस्मिन् रुक्माववधाय मदन्तीरानीयाऽपो हि ष्ठा मयोभुव इति तिसृभिर्माजयित्वाऽन्तर्वेद्यां शेषं निनीयोपयमनेन घर्मप्रायश्चित्तानि जुहोति । प्राणाय स्वाहा । व्यानाय स्वाहा । अपानाय स्वाहा । चक्षुषे स्वाहा । श्रोत्राय स्वाहा । मनसे स्वाहा । वाचे सरस्वत्यै स्वाहा । चतुर्थ्यंता देवताः । पूष्णे स्वाहा । पूष्ण इदम् । पूष्णे शरसे स्वाहा । पूष्णे शरस इदम् । पूष्णे प्रपथ्याय स्वाहा । पूष्णे प्रपथ्यायेदम् । पूष्णे नरन्धिषाय स्वाहा । पूष्णे नरन्धिषायेदम् । पूष्णेऽङ्घृणये स्वाहा । पूष्णेऽङ्घृणय इदम् । पूष्णे नरुणाय स्वाहा । पूष्णे नरुणायेदम् । पूष्णे साकेताय स्वाहा । पूष्णे साकेतायेदम् । व्याहृतीभिर्विहृताभिस्समस्ताभिश्च हुत्वा, ऋक्तो यज्ञभ्रेषप्रायश्चित्तमित्यादि हुत्वा ।