०५ सवनीयहविषां करणम्

अत्र प्रतिप्रस्थाता सवनीयानां पाणिप्रक्षालनादि कर्म प्रतिपद्यते । प्राग्वंशे करोति । कर्मणे वाम् । नोलपराजीस्तरणम् । द्वे भर्जनार्थे कपाले एकादशपुरोडाशकपालानि शूर्पे च द्वन्द्वम् । उलूखलं पत्न्या आग्नीध्रस्य वा नखानि मुसलं च द्वन्द्वम् । स्फ्यमग्निहोत्रहवणीवर्जम् । पुरतः पात्रीं प्राशित्रहरणं मेक्षणं मदन्त्यर्थम् । उपवेषं उत्पवनार्थं पात्रं विभक्तवेदाग्राणि प्रातर्दोहपात्राणि वाजिनपात्रं च प्रयुज्य, पवित्रे पूर्वेद्युरेवात्र कृते भवतः २। वानस्पत्यासि इति अग्निहोत्रहवणीं वेषाय वाम् इति शूर्पे गृहीत्वा प्राजहितस्य पश्चाद्भागे पात्र्यां यवान् व्रीहींश्च स्थापयित्वा । धूरसि इत्यादि । यच्छन्ताम् । देवस्य त्वा — इन्द्राय हरिवते जुष्टं निर्वपामि धानार्थान् यवान्निर्वपति । देवस्य त्वा — इन्द्राय पूषण्वते जुष्टं निर्वपामि करम्भार्थान् यवान्निरुप्य । अन्यस्मिन् शूर्पे पवित्रे निधाय । देवस्य त्वा — सरस्वत्यै भारत्यै जुष्टं निर्वपामि लाजार्थान् व्रीहीन् निर्वपति । पूर्वस्मिञ्छूर्पे पवित्रे निधाय देवस्य त्वा — इन्द्राय जुष्टं निर्वपामि पुरोडाशार्थान् यवान्निरुप्य । निरुप्तेष्वन्वोप्य इत्येतदन्तं कृत्वाभिषवाय प्रव्रजति । अभिषुत्य प्रत्येत्य इदं देवानां इत्यादि । अदित्यास्त्वोपस्थे सादयामीन्द्र हरिवन् हव्यꣳ रक्षस्वेन्द्र पूषण्वन् हव्यꣳ रक्षस्व सरस्वति भारति हव्यꣳ रक्षस्वेन्द्र हव्यꣳ रक्षस्व अपरेण शालामुखीयमुपसादयति । न कस्त्वा । स शूकायामित्यादि । देवस्य त्वा — इन्द्राय हरिवते वो जुष्टं प्रोक्षामीन्द्राय पूषण्वते वो जुष्टं प्रोक्षामि सरस्वत्यै भारत्यै वो जुष्टं प्रोक्षामीन्द्राय वो जुष्टं प्रोक्षामि । शुन्धध्वं इति सर्वाभिरद्भिस्त्रिः प्रोक्षति ।

अवहननकाले लाजार्थान् परिहाप्येतरानवहन्ति । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् विभज्य । इदमिन्द्रस्य हरिवत इन्द्रस्य पूषण्वतः धानाकरंभार्थान्निर्दिश्य । इदमिन्द्रस्य पुरोडाशार्थान् । कृष्णाजिनादानादि इन्द्राय जुष्टमधिवपामि धान्यमसि । अणूनि कुरुतादित्यन्तं कृत्वा । पिष्टलेपं फलीकरणं च प्रज्ञातं निधाय । शालामुखीये हविश्श्रपणम् । धृष्ट्यादानादि । ध्रुवमसि इति प्रथमकपालमन्त्रेण धानार्थं लाजार्थं च कपाले अधिश्रयति । पुरोडाशकपालान्युपधाय, सायं दोहवत्प्रातर्दोहं दोहयति, एता आचरन्तीत्यादि सङ्क्षाळननिनयनान्तम् । भृगूणामङ्गिरसां तपसा तप्यस्व धानार्थे लाजार्थे च कपालेऽङ्गारानध्यूह्य । तप्यध्वमिति पुरोडाशकपालेषु । मदन्तीरधिश्रयतीत्यादि । इन्द्राय जुष्टꣳ संवपामि । पिष्टान्युत्पूय तण्डुलानुत्पूय व्रीहीनुत्पुनाति १। अपश्चोत्पूय समाप इति पिष्टेष्वानयति । अधिश्रयणकाले घर्मास्स्थ विश्वायुषः तण्डुलानोप्य धानाः करोति । घर्मोऽसि इति व्रीहीनोप्य लाजान् करोति । पुरोडाशमधिश्रित्य तप्ते प्रातर्दोहे सायं दोहमानयति । उरु प्रथस्वेत्यादि पुरोडाशस्य । अन्तरितꣳ सर्वेषाम् । आप्यलेपं निनीय ।

घृतागेह्यग्निस्त्वा ह्वयति देवयज्यायै इत्यादि प्राशित्रं संमृज्य । प्रस्तरे पवित्रे अपिसृज्य । पुरोडाशे इदमहꣳ सेनाया इत्यङ्गारानपोह्य । सूर्य ज्योतिषो विभात महत इन्द्रियाय धाना अभिमन्त्र्य । सूर्यज्योतिः इतीतरौ । न सूर्यज्योतिः आमिक्षायाः । तूष्णीं धाना अभिघार्य । आ प्यायतां— सरस्वत्यै भारत्यै जुष्टमभिघारयामि लाजानभिघार्य । तूष्णीं पुरोडाशम् । यस्त आत्मा इत्यामिक्षाम् । स्योनं वस्सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि वः पात्र्यामुपस्तीर्य । पुनः स्योनं ते । भुवनस्य गोपा शृता उत्स्नान्ति जनित्र्यो २ मतीनाम् धाना उद्वास्य । यथाभागं व्यावर्तेथाम् विभज्य । इदमिन्द्रस्य हरिवतः धाना अभिमृश्य । इदमिन्द्रस्य पूषण्वतः करम्भार्थान् । आज्येन धानास्संयुत्य पात्र्यां तूष्णीं प्रतिष्ठापयति । करम्भस्य कृष्णाजिनादानादि । इन्द्राय पूषण्वते जुष्टमधिवपामि धान्यमसि । अणूनि कुरुतात् इत्यन्तं कृत्वा आज्येन संयुत्य पात्र्यां तूष्णीं प्रतिष्ठापयति । स्योनं ते सदनं करोमि पात्र्यामुपस्तीर्य । भुवनस्य गोपा शृत उत्स्नाति जनिता मतीनाम् लाजानुद्वास्य । कृष्णाजिनादानादि अधिषवणानि स्थ मानुषाणि प्रति वोऽदित्यास्त्वग्वेत्तु पत्न्यास्सव्यहस्तमुलूखलस्थाने निधाय । अग्नेस्तनूरसि इत्यङ्गुलीषु लाजानावपति । अद्रयस्स्थ मानुषास्त इदं देवेभ्यो हव्यꣳ सुशमि शमीढ्वम् तस्या दक्षिणहस्तनखैर्लाजेभ्यस्तुषान् संहरति । अव रक्षः । वर्षवृद्धमसि इत्यादि । न परावापः । रक्षसां भागोऽसि हस्तेन तुषान्निरस्य । अप उपस्पृश्य । तस्मिन्थ्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः इति पात्र्यां प्रतिष्ठापयति । स्योनं त इत्यादि पुरोडाशमुद्वास्य पात्र्यां तूष्णीं प्रतिष्ठापयति । दृꣳह इत्यामिक्षामुद्वास्य संहत्य द्वयोः पात्रयोरुद्धृत्य वाजिना एकदेशेनोपसिञ्चति । इरा भूतिः इति त्रयाणां कृत्वा विरमति ।