२० वैप्रुष होमः

अध्वर्युः - द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमञ्च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु सञ्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्रास्स्वाहा । इन्द्रायेदम् । यस्ते द्रप्सस्स्कन्दति यस्ते अꣳशुर्बाहुच्युतो धिषणयोरुपस्थात् । अध्वर्योर्वा परि यस्ते पवित्रात्स्वाहाकृतमिन्द्राय तं जुहोमि स्वाहा । इन्द्रायेदम् । यो द्रप्सो अꣳशुः पतितः पृथिव्यां परिवापात् पुरोडाशात् करम्भात् । धानासोमान्मन्थिन इन्द्र शुक्रात् स्वाहाकृतमिन्द्राय तं जुहोमि स्वाहा । इन्द्रायेदम् । यस्ते द्रप्सो मधुमाꣳ इन्द्रियावान् स्वाहाकृतः पुनरप्येतु देवान् । दिवः पृथिव्याः पर्यन्तरिक्षात् स्वाहाकृतमिन्द्राय तं जुहोमि स्वाहा । इन्द्रायेदम् । वैप्रुषान् होमान् जुहोति । सप्तहोतारं मनसानुद्रुत्य सग्रहं जुहोति । एवं ब्रह्मा यजमानश्च जुहोति१ । महाहविर्होता —ट्ठनमः पृथिव्यै स्वाहा । वाचस्पतये ब्रह्मण इदम् ।