३० संज्ञपनप्रायश्चित्तानि संज्ञप्तहोमश्च

यदस्य पारे रजसश्शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विषोऽग्ने वैश्वानरस्स्वाहा । अग्नये वैश्वानरायेदम् । यस्माद्भीषा वाशिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा । रुद्राय मीढुष इदम् । अप उपस्पृश्य । य इदमकस्तस्मै नमस्तस्मै स्वाहा । रुद्राय मीढुष इदम् । अप उपस्पृश्य । यदस्य । यस्माद्भीषा न्यषदस्ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा । रुद्राय मीढुष इदम् । अप उपस्पृश्य । य इदमकः । यदस्य । यस्माद्भीषाऽवेपिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यस्सर्वाभ्यो मृड नमो रुद्राय मीढुषे स्वाहा । य इदमकः । यदस्य । यस्माद्भीषा पलायिष्ठाः । य इदमकः । यदस्य । यस्माद्भीषा समज्ञास्थाः । य इदमकः । यदस्य । यस्माद्भीषा निमेहसि । यदस्य । यस्माद्भीषा शकृत्करोषि । नोभयत्र य इदमकः । भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदम् १ । यत्पशुर्मायुमकृतोरो वा पद्भिराहते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वꣳहसस्स्वाहा । अग्नय इदम् । संज्ञप्ते संज्ञप्तहोमं जुहोति ।

संज्ञप्तहोमे तु हुते प्रताप्ये सप्लक्षशाखे तु वपाश्रपण्यौ ।

निष्टप्तयित्वाहवनीय एव मुख्याभिषेकः प्रतिपत्न्यनर्वा ॥