१० क्रतुकरणहोमः

अवेरपो अध्वर्या३उ इति पृष्टः उतेमनन्नमुः१ इति प्रत्युक्त्वा प्रचरणीशेषात् क्रतुकरणं जुहोति । यमग्ने पृत्सु मर्त्यमावो वाजेषु यं जुनाः । स यन्ता शश्वती रिषस्स्वाहा । अग्नय इदम् । तदभावे चतुर्गृहीतेन । अपरया द्वारा हविर्धानमपः प्रपादयति । ब्रह्मा यजमानश्चापोऽनुप्रपद्यते । प्रविष्टास्वप्सु प्रतिनिवृत्य पूर्वया द्वारा हविर्धानं प्रविशतः । ब्रह्मा त्वग्रेण खरं दक्षिणातिक्रम्य दक्षिणत उपविशति । अध्वर्युः पूर्वया द्वारा हविर्धानं प्रविश्य दक्षिणस्य हविर्धानस्य प्रधुरे प्रचरणीं सादयति । यं कामयेत पण्डकस्स्यादिति तं प्रचरण्योपस्पृशेत् । एतस्यैव हविर्धानस्याधस्तात् पुरोक्षं मैत्रावरुणचमसमुत्तरस्यां वर्तन्यां पुरश्चक्रं होतृचमसमुत्तरस्य हविर्धानस्याधस्तात् पुरोक्षं वसतीवरीः पश्चादक्षमेकधनाः ।