३७ शकटात् प्राचीनवंशे राज्ञः आनयनं, आसन्द्यां स्थापनं च

वरुणस्य स्कम्भनमसि वरुणस्य स्कम्भसर्जनमसि उत्तरां शम्यामुद्वृह्य । विचृत्तो वरुणस्य पाशः योक्त्रपाशं विचृत्य । उन्मुक्तो वरुणस्य पाशः अभिधानीमुन्मुञ्चति । वारुणमसि परिश्रयणवासोऽपादाय । वरुणोऽसि धृतव्रतः राजानमादाय । अच्छिद्रपत्रः प्रजा उपावरोहोशन्नुशती-स्स्योनस्स्योनास्सोमराजन् विश्वस्त्वं प्रजा उपावरोह विश्वास्त्वां प्रजा उपावरोहन्तु इत्युपावहृत्य । उर्वन्तरिक्षमन्विहि अभिप्रव्रजति । आसन्दीमादाय प्रतिप्रस्थाता पूर्वः प्रतिपद्यते । अध्वर्युः - या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञं गयस्फानः प्रतरणस्सुवीरोऽवीरहा प्रचरा सोम दुर्यान् पूर्वया द्वारा प्राग्वंशं प्रविश्य अपरेणाहवनीयं राजानं दक्षिणातिहरति । पूर्वेणाहवनीयं राजानं प्रतिप्रस्थाता राजासन्दीं हरति । अध्वर्युः - वरुणस्यर्तसदन्यसि दक्षिणेनाहवनीयं राजासन्दीं प्रतिष्ठाप्य । अदित्यास्सदोऽसि तस्यां शकटवत् कृष्णाजिनमास्तृणाति । अदित्यास्सद आसीद तस्मिन् राजानमासाद्य । वरुणोऽसि धृतव्रतः राजानमभिमन्त्रयते । वारुणमसि शं योर्देवानाꣳ सख्यान्मा देवानामपसश्छित्स्महि वाससा पर्यानह्यति । अग्निं राजानं चांतरेण मा सञ्चारिष्ट इति सम्प्रेष्यति । अवरक्षो दिव इत्यवहननादि कर्म प्रतिपद्यते । विष्णवे जुष्टमधिवपामि । कपालानामुपधानकालेऽष्टावुपधाय । चितस्थ प्रजामस्मै इत्यावृत्या नवममुपदधाति । विष्णवे जुष्टꣳ सं वपामि । अन्या आपो यजुषोत्पूय समापो अद्भिरग्मत । पत्नीवर्जं सम्प्रेष्यति । दिवश्शिल्पमवततम् । अग्ने गृहपत इत्यादि । चतुर्गृहीतान्याज्यानि पञ्चावत्तिनामपि । विष्णवे जुष्टमभिघारयामि । पृथिवी होतेति चतुर्होत्रातिथ्य-मासाद्य । यज्ञोस्ययं यज्ञो ममाग्ने चतुर्होतेत्यासन्नाभिमर्शनम् । अग्निर्यजुर्भिरित्यादि सम्भारयजूंषि व्याचष्टे । यजमानं वाचयतीत्येके । पशुवन्निर्मन्थ्यस्सामिधेन्यश्च । अग्नेर्जनित्रमसीत्याद्यभिहोमान्तम् । वेदं निधायेत्यादि । होतरेहि प्रस्तोतरेहि । प्रयाजेषु इडान्तामिष्ट्वा औपभृतं सर्वमानयति । नोपभृतमभिघारयति । उपांशु प्रधानयागः । अवद्यमाने साम । विष्णवे अनुब्रूहि । विष्णुं यज । विष्णव इदम् । विष्णोरहं देवयज्ययान्नादो भूयासम् । नारिष्ठादि । न यजमानभागम् । इडामार्जनान्ता आतिथ्या सन्तिष्ठते । धारयति ध्रौवमाज्यम् । गार्हपत्ये दीक्षितस्य व्रतं श्रपयतीत्यादि नाभ्यभिमर्शनान्तं पूर्ववत् ॥

॥ इति प्रथमोध्यायः ॥

