२२ पत्न्याः कुम्बकुरीराध्यूहनं, दीक्षा, यजमानस्य शिरोवेष्टनञ्च

अध्वर्युः :- अत्र पत्नीशिरसि कुम्बकुरीरमध्यूहते । कृष्णं जीवोर्णानामिति वाजसनेयकम् । जालं कुम्बकुरीरमित्याचक्षते । विष्णोश्शर्मासि शर्म यजमानस्य शर्म मे यच्छ अहतेन वाससा दक्षिणमंसं यजमानः प्रोर्णुते । नक्षत्राणां मातीकाशात् पाहि उष्णीषेण प्रदक्षिणं शिरो वेष्टयते । न पुरा सोमस्य क्रयादपोर्ण्वीत । प्राचीनमात्रा वाससा पत्नीं दीक्षयति । ऊर्ध्ववास्यं ब्रुवते । उत्तरीयमित्येके।

मेखलायोक्त्रबन्धनं कृष्णविषाणस्य प्रदानम् -

अध्वर्युः - ऊर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मे यच्छ पाहि मा पाप्मनो मा मा हिꣳसीः शरमयी मौञ्जी वा मेखला त्रिवृत् पृथ्वी अन्यतरतः पाशा तया यजमानं दीक्षयति योक्त्रेण पत्नीम् । यजमानः :- उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा प्रदक्षिणं पर्यूह्य दक्षिणेन नाभिमवस्थापयति । अत्र दर्शपूर्णमासवत्पत्नीं सन्नह्यति सं त्वा नह्यामीति विकारः । अध्वर्युः :- सं त्वा नह्यामि पयसा घृतेन सं त्वा नह्याम्यप ओषधीभिः । सं त्वा नह्यामि प्रजयाहमद्य सा दीक्षिता सनवो वाजमस्मे अपरेण गार्हपत्यमूर्ध्वज्ञुमासीनां पत्नीं योक्त्रेण सन्नह्यति । उत्तरेण नाभिमित्यादि पत्नी । इन्द्रस्य योनिरसि मा मा हिꣳसीः कृष्णविषाणां यजमानाय प्रयच्छति । आबध्नातीत्येके । त्रिवलिः पञ्चवलिर्वा दक्षिणावृद्भवति । सव्यावृदित्येके । त्रिवलिं दक्षिणावृताम् । यजमानः :- कृष्यै त्वा सुसस्यायै तया वेदेर्लोष्टमुद्धन्ति । सुपिप्पलाभ्यस्त्वौषधीभ्यः अर्थे प्राप्ते शिरसि कण्डूयते । विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितं हृदि मनो यदस्य गुल्पितम् इत्यङ्गानि । एवं प्रतिक्षणे कण्डूयने विषाणमन्त्रः ।