११ दीक्षणीयेष्टेः पुरस्तात् आहवनीयोपस्थानम्

दीक्षणीयार्थं गार्हपत्यादाहवनीयमुद्धृत्य । दक्षिणाग्निं प्रणीय आहवनीयं प्रणयति । स्वे दक्षे दक्षपितेह सीद देवानाꣳ सुम्नो महते रणाय । स्वासस्स्थस्तनुवा सं विशस्व पितेवैधि सूनव आ सुशेवः । शिवो मा शिवमाविश सत्यं मा आत्मा श्रद्धा मेऽक्षितिस्तपो मे प्रतिष्ठा सवितृप्रसूता मा दिशो दीक्षयन्तु सत्यमस्मि पुरस्ताद्दीक्षणीयाया आहवनीयं यजमान उपतिष्ठते ।