०४ प्रोक्षणम्

प्रणवेन कुम्भम् उत्थाप्य
‘देवस्य’ इत्यादि,

देवस्य त्वा - तेजोवीर्य-श्रीभ्यः ...{Loading}...
सायणोक्त-विनियोगः

5कल्पः - ‘तस्यां प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन्नश्विनोः संपातैरभिषिञ्चति देवस्य त्वा’ इति ।

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
अ॒श्विनो॒र्भैष॑ज्येन ।
तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
अ॒श्विनो॒र्भैष॑ज्येन ।
तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ।

सायण-टीका

सवितुर्देवस्य प्रेरणे सति अश्विसंबन्धिभ्यां बाहुभ्यां पूषसंबन्धिम्यां हस्ताभ्यां अश्विनोस्सबन्धिना संपातेनौषधरूपेण कान्तिब्रह्मवर्चससिद्ध्यर्थं यजमानं त्वामभिषिञ्चामि ॥

सायणोक्त-विनियोगः

6कल्पः - ‘एवमुत्तरेण मन्त्रेण सारस्वतस्योत्तमेनैन्द्रस्य’ इति। संपातेनाभिषिञ्चतीत्युभयत्रानुवर्तते ।

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
सर॑स्वत्यै॒ भैष॑ज्येन ॥21॥
वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
सर॑स्वत्यै॒ भैष॑ज्येन ॥21॥
वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ।

सायण-टीका

पूर्ववद्व्याख्येयम् ॥

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
इन्द्र॑स्येन्द्रि॒येण॑ ।
श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्याम् ।
इन्द्र॑स्येन्द्रि॒येण॑ ।
श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ।

सायण-टीका

7पूर्ववद्व्याख्येयम् ॥

दे॒वस्य॑ त्वा - साम्रा᳚ज्येना॒भिषि॑ञ्चामि ...{Loading}...
भास्करोक्त-विनियोगः

8-10अभिषेकमन्त्राः - देवस्येत्यादयः ॥

मूलम् (संयुक्तम्)

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्या᳚म्पू॒ष्णो हस्ता᳚भ्या॒ꣳ॒ सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥ [42]

देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे᳚+++(=अनुज्ञायां)+++, ऽश्विनो᳚र् बा॒हुभ्या᳚म्, पू॒ष्णो हस्ता᳚भ्याम्…

Keith

On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्या᳚म्, पू॒ष्णो हस्ता᳚भ्यां॒…

भट्टभास्कर-टीका

सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं

‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥


सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥


तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां

विश्वास-प्रस्तुतिः

सर॑स्वत्यै वा॒चो
य॒न्तुर् य॒न्त्रेण अग्नेस् त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ।

Keith

with the bond of Sarasvati, of speech, the binder, I anoint thee with the lordship of Agni,

मूलम्

सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेण अग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ।

भट्टभास्कर-टीका

सरस्वत्यै सरस्वत्याः । षष्ठ्यर्थे चतुर्थी ॥ सरस्वत्या वाचस्सम्बन्धिना यन्तुर्यन्त्रेण यन्तुरप्यन्यस्य यन्त्रणेन यमनेन । सामान्येन वा विवक्ष्यते, यन्त्र्याः वाचस्सरस्वत्याः यन्त्रणेन अग्नेश्च साम्राज्येन त्वामभिषिञ्चामि । सङ्गतं राजतीति सम्राट्, ‘मो राजि समः क्वौ’, ‘गुणवचनब्राह्मणादिभ्यः’ इति ष्यञ् ।

विश्वास-प्रस्तुतिः

इन्द्र॑स्य॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥
बृह॒स्पते᳚स् त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥

Keith

with the lordship of Indra, of Brhaspati, I anoint thee.

मूलम्

इन्द्र॑स्य॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥

बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥

भट्टभास्कर-टीका

एवं ‘इन्द्रस्य त्वा साम्राज्येन’ ‘बृहस्पतेस्त्वा साम्राज्येन’, इत्येतौ गतौ ॥

इति सप्तमे दशमोनुवाकः ॥

व्याहृतिभिश्च यजमानं प्रोक्षयेत् ।