२६ 'चक्षुषो हेते'

‘चक्षुषो हेत’ इत्यारभ्य ‘भ्रातृव्यं पादयामसि’ इत्यन्तं

चक्षुषो हेते ...{Loading}...

भास्करोक्त-विनियोगः

1अभिचारेष्ट्यां ‘अग्रये यविष्ठाय’ इत्यादौ उपहोमाः - चक्षुषो हेत इति बृहतीप्रकारः ॥

मेनिवारणम्
विश्वास-प्रस्तुतिः ...{Loading}...

चक्षु॑षो हेते॒ मन॑सो हेते,
वाचो॑ हेते॒ ब्रह्म॑णो हेते ।
यो मा॑ ऽघा॒युर् अ॑भि॒दास॑ति+++(=अभिचरति)+++,
तम् अ॑ग्ने मे॒न्या+++(=मन्युना)+++ ऽमे॒निं कृ॑णु

सर्वाष् टीकाः ...{Loading}...
मूलम्

चख्षु॑षो हेते॒ मन॑सो हेते । वाचो॑ हेते॒ ब्रह्म॑णो हेते । यो मा॑ऽघा॒युर॑भि॒दास॑ति । तम॑ग्ने मे॒न्या मे॒निङ्कृ॑णु ।

सायण-टीका

चक्षुरादीनां ज्ञानेन्द्रियाणां शत्रुसंबन्धिनां हे! हेते! विनाशहेतो! मनसस्चान्तःकरणस्य हेते! वागादीनां च कर्मेन्द्रियाणां हेते! ब्रह्मणो मन्त्रस्य कर्मणो वा हेते! यो मामघायुः अघं पापं वधादिकं ममेच्छन् ‘छन्दसि परेच्छायामपि’ इति क्यच् । ‘अश्वाघस्स्यात्’ इत्यात्वम् । अभिदासति क्षपयति ‘दमु उपक्षये’ वर्णविकारश्छान्दसः । हे! अग्ने! तदीयचक्षुरादिविनाशक! तं मेन्या वज्ज्रेणायुधेन अमेनिं अशरीरं कृणु कुरु । अमनस्कमित्येके । मारयेति यावत् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा॒ चक्षु॑षा॒ यो मन॑सा,
यो वा॒चा ब्रह्म॑णा ऽऽघा॒युर् अ॑भि॒दास॑ति
तया॑ऽग्ने॒ त्वं मे॒न्या,
अ॒मुम् अ॑मे॒निं कृ॑णु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यो मा॒ चख्षु॑षा॒ यो मन॑सा । यो वा॒चा ब्रह्म॑णाऽघा॒युर॑भि॒दास॑ति । तया᳚ऽग्ने॒ त्वम्मे॒न्या । अ॒मुम॑मे॒निङ्कृ॑णु ।

सायण-टीका

2यो मेति बृहतीविशेषः ॥ यो मां चक्षुरादिना अघायुः चक्षुरादिविनाशरूपं ममेच्छन् मामभिदासति अमुं अमुकशर्माणं मेन्या तया अमेनिं कृणु हे! अग्ने! ॥

अभिचार-प्रतीकारः
विश्वास-प्रस्तुतिः ...{Loading}...

यत् किञ्चा॒सौ मन॑सा॒ यच् च॑ वा॒चा,
य॒ज्ञैर् जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ।
तन् मृ॒त्युर् निरृ॑त्या संविदा॒नः+++(=समाहितः)+++,
पु॒रा दि॒ष्टाद्+++(=दैवात् तदनुकूलाद्)+++ आहु॑तीर् अस्य हन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यत्किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा । य॒ज्ञैर्जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ॥12॥
तन्मृ॒त्युर्निर्ऋ॑त्या सव्ँ विदा॒नः । पु॒रादि॒ष्टादाहु॑तीरस्य हन्तु ।

सायण-टीका

3यत्किंचेति त्रिष्टुप् ॥ असौ अमुकनामा मम मरणार्थं यत्किंचिन्मनसा वाचा च यज्ञैर्जुहोति हविर्भिस्माधनैः, तत् तदा अस्य आहुतीर्हन्तु मृत्युः । निर्ऋत्या कृच्छ्रवत्या संविदानः ऐकमत्यं गतः आदिष्टात्पुरा प्रागेव देवतादेशात् प्रागेव हन्तु उत्तरकाले हन्तुमशक्यत्वात् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

या॒तु॒धाना॒ निरृ॑ति॒र् आदु॒+++(=अनु)+++ रक्षः॑,
ते अ॑स्य घ्न॒न्त्व् अनृ॑तेन स॒त्यम् ।
इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु,
मा तत् समृ॑द्धि॒ यद् अ॒सौ क॒रोति॑

सर्वाष् टीकाः ...{Loading}...
मूलम्

या॒तु॒धाना॒ निर्ऋ॑ति॒रादु॒रख्षः॑ । ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम् । इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु । मा तथ्समृ॑द्धि॒ यद॒सौ क॒रोति॑ ।

सायण-टीका

4यातुधाना इति त्रिष्टुप् ॥ दक्षिणादिग्वासिनी निर्ऋतिरुक्ता । रक्षः प्रसिद्धम् । ते यज्ञविद्वेषिणः सर्वे अस्य मदीयस्य शत्रोः सत्यं यागफलं आदु अनन्तरमेव घ्नन्तु अनृतेन विपरीतसाधनेन । पुंसश्शेषश्छान्दसः । किंच ते सर्वेऽपि इन्द्रेषिता इन्द्रेण प्रेषिताः आज्यं आज्यादिकं हविः मथ्नन्तु । मा तत्समृद्धि तत्कर्म संगतर्द्धिकं समृद्धं मा भूत् । यदसौ यज्ञशर्मा करोति साधयति । यद्वा - तत्कर्म मा समृद्धिं यत्करोति कर्म अमुकः । च्लेः वर्णविकारः ॥

प्रतिज्ञा
विश्वास-प्रस्तुतिः ...{Loading}...

हन्मि॑ ते॒ऽहं कृ॒तꣳ ह॒विः,
यो मे॑ घो॒रम् अची॑कृतः+++(=अकार्षीः)+++ ।
अपां॑चौ त उ॒भौ बा॒हू,
अप॑नह्याम्य् (=बध्नामि) आ॒स्य॑म् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

हन्मि॑ ते॒ऽहङ्कृ॒तꣳ ह॒विः । यो मे॑ घो॒रमची॑कृतः । अपा᳚ञ्चौ त उ॒भौ बा॒हू । अप॑नह्याम्या॒स्य᳚म् ॥13॥

सायण-टीका

5हन्मि त इत्याद्या अनुष्टुभः ॥ शत्रो! त्वदीयं कृतं हविः अहं हन्मि नाशयामि यस्त्वं मे घोरं क्रूरं आयुरादिकं अचीकृतः कृन्तासि । ‘कृती छेदने’ । किंच तव ते उभावपि बाहू अपाञ्चौ अपगतौ आस्यं च अपनह्यामि ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अप॑नह्यामि ते बा॒हू,
अप॑नह्याम्य् आ॒स्य॑म् ।
अ॒ग्नेर् दे॒वस्य॒ ब्रह्म॑णा,
सर्वं॑ ते ऽवधिषं कृ॒तम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अप॑नह्यामि ते बा॒हू । अप॑नह्याम्या॒स्य᳚म् । अ॒ग्नेर्दे॒वस्य॒ ब्रह्म॑णा । सर्व॑न्तेऽवधिषङ्कृ॒तम् ।

सायण-टीका

6अपनह्यामीत्याद्यर्धर्चो गतः । अग्नेर्देवस्य दीप्तिमतः ब्रह्मणा तेजसा कर्मणा वा ते त्वदीयं कृतं सर्वमपि कर्म अवधिषं हतवानेवास्मि ॥

अभिचार-प्रतीकारः
विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रा ऽमुष्य॑ वषट्का॒रात्,
य॒ज्ञं दे॒वेषु॑ नस् कृधि
स्वि॑ष्टम् अ॒स्माकं॑ भ्यूयात्,
माऽस्मान् प्राप॒न्न् अरा॑तयः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

पु॒राऽमुष्य॑ वषट्का॒रात् । य॒ज्ञन्दे॒वेषु॑ नस्कृधि । स्वि॑ष्टम॒स्माक॑म्भूयात् । माऽस्मान्प्राप॒न्नरा॑तयः ।

सायण-टीका

7पुराऽमुष्येति ॥ अमुष्य यज्ञशर्मणो वषट्कारात्पुरैव अस्माकं यज्ञं देवेषु कृधि कुरु स्थापय । अस्य यज्ञः छिनत्तु । अस्माकं स्विष्टं भूयात् । अस्मान् मा प्रापन् अप्राप्यैव विनश्यन्तु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अन्ति॑ दू॒रे स॒तो अ॒ग्ने,
भ्रातृ॑व्यस्याऽऽभि॒दास॑तः
व॒ष॒ट्का॒रेण॒ वज्रे॑ण,
कृ॒त्याꣳ ह॑न्मि कृ॒ताम् अ॒हम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अन्ति॑ दू॒रे स॒तो अ॑ग्ने । भ्रातृ॑व्यस्याभि॒दास॑तः ॥14॥
व॒ष॒ट्का॒रेण॒ वज्रे॑ण । कृ॒त्याꣳ ह॑न्मि कृ॒ताम॒हम् ।

सायण-टीका

8अन्ति दूर इत्यादि ॥ अन्तिके दूरे वा सतः भ्रातृव्यस्य शत्रोः ‘कादिलोपो बहुलम्’ इत्यन्तिकस्य लोपः । अभिदासतः मामुपक्षयितुं प्रवृत्तस्य संबन्धिनीं तेन कृतां कृत्यां वज्रस्थानीयेन वषट्कारेण अहं हन्मि त्वत्प्रसादात् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा॒ नक्तं॒ दिवा॑ सा॒यम्,
प्रा॒तश् चाह्नो॑ नि॒पीय॑ति+++(=बाधते)+++ ।
अ॒द्या तम् इ॑न्द्र॒वज्रे॑ण,
भ्रातृ॑व्यं पादयामसि+++(=पातयामि)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

यो मा॒ नक्त॒न्दिवा॑ सा॒यम् । प्रा॒तश्चाह्नो॑ नि॒पीय॑ति । अ॒द्या तमि॑न्द्र॒ वज्रे॑ण । भातृ॑व्यम्पादयामसि ।

सायण-टीका

9यो मा नक्तमिति ॥ नक्तं दिवा च अह्नोपि सायं प्रातश्च अविरतं यो मां निपीयति नियमेन पिबति शोषयति अद्य अस्मिन् कर्मणि अप्रतिहतशक्त्या तं भ्रातृव्यं पादयामसि गमयामः मनुष्यलोकात् हे! इन्द्र! त्वत्प्रसादात् ॥