समावृत्तः

01 विद्यया स्नातीत्येके ...{Loading}...

विद्यया स्नातीत्येके १

02 तथा व्रतेनाष्टाचत्वारिंशत्परीमाणेन ...{Loading}...

तथा व्रतेनाष्टाचत्वारिंशत्परीमाणेन २

03 विद्याव्रतेन चेत्येके ...{Loading}...

विद्याव्रतेन चेत्येके ३

04 तेषु सर्वेषु स्नातकवद्वृत्तिः ...{Loading}...

तेषु सर्वेषु स्नातकवद्वृत्तिः ४

05 समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायाम् फलविशेषः ...{Loading}...

समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ५

06 अथ स्नातकव्रतानि ...{Loading}...

अथ स्नातकव्रतानि ६

07 पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण ...{Loading}...

पूर्वेण ग्रामान् निष्क्रमण-प्रवेशनानि शीलयेद्, उत्तरेण वा ७

08 सन्ध्योश्च बहिर्ग्रामादासनं वाग्यतश्च ...{Loading}...

संध्योश् च बहिर्ग्रामाद् आसनं, वाग्-यतश् च ८

09 विप्रतिषेधे श्रुतिलक्षणम् बलीयः ...{Loading}...

विप्रतिषेधे श्रुतिलक्षणं +++(सन्ध्याग्निहोत्रादिचोदकम्)+++ बलीयः ९

10 सर्वान्रागान्वाससि वर्जयेत् ...{Loading}...

सर्वान् रागान् वाससि वर्जयेत् १०

11 कृष्णञ् च स्वाभाविकम् ...{Loading}...

+++(वस्त्रं यत्)+++ कृष्णं च स्वाभाविकम् ११

12 अनूद्भासि वासो वसीत ...{Loading}...

अनूद्भासि वासो वसीत १२

13 अप्रतिकृष्टञ् च शक्तिविषये ...{Loading}...

अ-प्रतिकृष्टं +++(जीर्णत्वादेः)+++ च शक्तिविषये १३

14 दिवा च शिरसः ...{Loading}...

दिवा च शिरसः प्रावरणं वर्जयेन् - मूत्र-पुरीषयोः कर्म परिहाप्य १४

15 शिरस्तु प्रावृत्य मूत्रपुरीषे ...{Loading}...

शिरस् तु प्रावृत्य मूत्र-पुरीषे कुर्याद् - भूम्यां किंचिद् +++(तृणादि)+++ अन्तर्धाय १५

+++(मूत्रपुरिषयोर् वर्तनम् अन्यत्रोक्तम्।)+++

गुरौ गौरवदर्शने

अन्यत्रोक्तम्।

वेषः

02 माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती ...{Loading}...

माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती काञ्चुक्युपानही पादुकी २

03 उदाचारेषु चास्यैतानि न ...{Loading}...

उदाचारेषु चास्यैतानि न कुर्यात्कारयेद्वा ३

04 स्वैरिकर्मसु च ...{Loading}...

स्वैरिकर्मसु च ४

05 यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ...{Loading}...

यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ५

07 स्नातस्तु काले यथाविध्यभिहृतमाहूतो ...{Loading}...

स्नातस्तु काले यथाविध्यभिहृतमाहूतो ऽभ्येतो वा न प्रतिसंहरे इत्येके ७

आचार्यस्य तस्मिन् वृत्तिः

06 तद्द्रव्याणाञ् च न ...{Loading}...

तद्द्रव्याणां च न कथयेदात्मसंयोगेनाचार्यः ६