१९ शफोपयमनयोः आदानं, महावीरे पयसोरवनयनम्

अध्वर्युः - गायत्रोऽसि शफमादत्ते । त्रैष्टुभोऽसि द्वितीयम् । प्रतिप्रस्थाता जागतमसि उपयमनमादत्ते । यत्राभिजानात्युपद्रव पयसा गोधुगिति तदाग्नीध्रो अनुप्रपद्यते । अध्वर्युः - सहोर्जो भागेनोपमेहि पय आह्रियमाणं प्रतीक्षते३ । इन्द्राश्विना मधुनस्सारघस्य । घर्मं पात वसवो यजता वट् महावीरे गोपय आनयति४ । स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमि उद्यन्तमूष्माणमनुमन्त्रयते । यजमानः - इन्द्रायाश्विभ्यामिदम् । सूर्यस्य रश्मय इदम् । प्रतिप्रस्थाता - मधु हविरसि महावीरे अजापय आनयति५ । अग्नये स्विष्टकृत इदम् । सूर्यस्य तपस्तप उद्यन्तमूष्माणमनुमन्त्रयते ।