२३ पुरोडाशानाम् अलङ्करणं, पशोः आहरणं च

आग्नीध्रः कर्मणे वामिति हस्ताववनिज्य । यज्ञस्य सन्ततिरसि इति गार्हपत्यात् प्रक्रम्य सन्ततमनुपृष्ठ्यं बर्हिस्तृणात्याहवनीयात् २ । पुरोडाशानलङ्करोति । देवो वस्सविता मध्वानक्तु धाना अनक्ति । यजमानः - तृप्तयस्स्थ गायत्रं छन्दस्तर्पयत मा तेजसा ब्रह्मवर्चसेन तृप्तयस्स्थ त्रैष्टुभं छन्दस्तर्पयतमौजसा वीर्येण तृप्तयस्स्थ जागतं छन्दस्तर्पयत मा प्रजया पशुभिः । करम्भादीनां देवस्त्वा सविता इति अलङ्करणम् ।

यजमानः - हविर्धानमेत्य विष्णो त्वन्नो अन्तमश्शर्म यच्छ सहन्त्य । प्र ते धारा मधुश्चुत उत्सं दुह्रते अक्षितम् सर्वं राजानमुपतिष्ठते । विष्णो त्वन्नो — अक्षितम् इत्येतयैव अध्वर्युः पात्राणि संमृशति । असम्भवतां मन्त्रावृत्तिः ।

आश्विनं गृह्णाति या वां कशा मधुमत्यश्विना सूनृतावती । तया यज्ञं मिमिक्षतम् । उपयामगृहीतोऽस्यश्विभ्यां त्वा द्रोणकलशात् परिप्लवया गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिर्माध्वीभ्यां त्वा सादयति ।