२७ अग्निहोत्रम्

विद्युदसीत्यप उपस्पृश्य । तूष्णीं काण्टकीं समिधमाधाय । प्रजापतय इदम् । एतस्मादेव शेषादुपयमनेनाग्निहोत्रं जुहोति । स्रुचं गृहीत्वा प्राण्यापान्य निमील्याऽवेक्ष्य अभिक्रम्य । ओं भूर्भुवस्सुवः भूस्स्वाहा । अग्नय इदम् । हुत्वा महदभिवीक्षते । प्रथमामाहुतिं जुहुयात् । ऊर्जे त्वा । ओषधीभ्यस्त्वौषधीर्जिन्व । ओषधीभ्य इदम् । बर्हिषि लेपं निमृज्य । वर्चो मे यच्छ स्रुचं सादयित्वा । अग्ने गृहपते मा मा सन्ताप्सीरात्मन्नमृतमधिषि प्रजा ज्योतिरदब्धेन त्वा चक्षुषा प्रतीक्षे गार्हपत्यं प्रतीक्षते । ओं भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदम् । हुत्वा स्रुचमुद्गृह्य । रुद्र मृडानार्भव मृड धूर्त नमस्ते अस्तु पशुपते त्रायस्वैनम् । रुद्राय पशुपतय इदम् । अप उपस्पृश्य । प्राचीनावीती । ऊर्जे त्वा । स्वधा पितृभ्यः पितॄन् जिन्व । पितृभ्य इदम् । यज्ञोपवीत्यप उपस्पृश्य । प्रजां मे यच्छ १ । उपयमनं सादयित्वा । वृष्टिरसीत्यप उपस्पृश्य ।