१४ स्नानम्

शौचार्थं स्नात्वौदुम्बरेण दतो धावते लोहितमनभिगमयन् । पत्न्या अपि दन्तधावनम् । स्थावरास्वप्सु स्नाति । शङ्खिनीष्ववकिनीषु लोमशे तीर्थे । कुण्डे हिरण्यं निधाय तस्मिन् स्नातीति वाजसनेयकम् । आपो अस्मान्मातरश्शुन्धन्तु घृतेन नो घृतपुवः पुनन्तु विश्वमस्मत्प्र वहन्तु रिप्रम् ॥ हिरण्यवर्णाश्शुचयः पावकाः प्रचक्रमुर्हित्वाऽवद्यमापः । शतं पवित्रा वितता ह्यासु ताभिर्नो देवस्सविता पुनातु ॥ हिरण्यवर्णाश्शुचयः पावका यासु जातः कश्यपो या स्विन्द्रः । अग्निं या गर्भं दधिरे विरूपास्ता न आपश्शꣳ स्योना भवन्तु इति चैताभ्यां स्नाति । उदाभ्यश्शुचिरा पूत एमि उद्गाहमानो जपति । उदाभ्यश्शुचिरा पूतैमि इति पत्नी । आचम्य । कपोलपरिमितमपोऽश्नाति । पत्नी च । शुद्ध्यर्थमाचमनमुभौ कुरुतः ।