०२ ब्रह्मोपदेशः

नमस्सदस इति सदस्यान् प्रणम्य, दक्षिणां दत्वा,

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

मम गायत्रीप्रदाने (उपदेष्टृत्वे) अस्योपनीतस्य गायत्रीस्वीकरणे च योग्यता-सिद्धिमनुगृहाण

इति प्रार्थ्य,

[[82]]

योग्यतासिद्धिरस्त्विति तैरनुज्ञातः, प्राणानायम्य, पूर्वोक्तेत्यादि मम गायत्रीप्रदाने(उपदेष्टृत्वे) अस्योपनीतस्य गायत्रीस्वीकरणे च योग्यतासिद्ध्यर्थं प्राजापत्यकृच्छ्राणि करिष्ये इति सङ्कल्प्य, हिरण्यगर्भ–प्रयच्छ मे, इमानि प्राजापत्यकृच्छ्राणि हिरण्यरूपाणि नानागोत्रेभ्यः श्रीवैष्णवेभ्यस्तेभ्यः सम्प्रददे न मम इति भूमौ साक्षतं सहिरण्यं जलं निस्राव्य, तद्धिरण्यं ब्राह्मणेभ्यो दत्वा, अग्नेः पश्चादुपनीतेन “अयं कूर्च" इति दत्तं कूर्चं “सुकूर्च” इति प्रतिगृह्य, तस्मिन् कूर्चे “राष्ट्रभृदस्याचार्यासन्दी मात्वद्योषम्” इति कुक्कुटासनेन प्राङ्मुख उपविशेत् । कुमार आचार्यं प्रणम्याभिवाद्य, तस्य पुरस्तात् प्रत्यङ्मुख आसीनो, दक्षिणेन पाणिना तस्य दक्षिणं पादं सव्येन सव्यमुपसङ्गृह्य, “सावित्रीं भो अनुब्रूहि” इति प्रार्थयेत् । अथाचार्यः पादादौ प्रणवादिव्याहृतित्रयम्, अर्धर्चादौ प्रथमद्वितीये व्याहृती, अनवानादौ तृतीयां व्याहृतिं च संयोज्य, गायत्रीं तस्य दक्षिणे कर्णे जपित्वा, तथैव तं वाचयित्वा, “अवृधमसौ सौम्य प्राण स्वं मे गोपाये”ति दक्षिणेन हस्तेन उत्तरमोष्ठमुपस्पर्शयित्वा, आचामयेत् । नात्रादश्शब्दे शर्मनिर्देशः । “ब्रह्मण आणीस्थ” इति हस्ताभ्यां युगपत्कर्णावुपस्पर्शयित्वा,

सुश्रवस्सुश्रवसं मा कुरु यथा त्वँसुश्रवस्सुश्रवा अस्येवमहँसुश्रवस्सुश्रवा भूयासं यथा त्वँसुश्रवो देवानां निधिगोपोऽस्येवमहं ब्राह्मणानां ब्रह्मणो निधिगोपो भूयासम्

इति पालाशं बैल्वं वा दण्डं धारयित्वा,

स्मृतं च मेऽस्मृतं च मे तन्म उभयं व्रतं निन्दा च मेऽनिन्दा च मे तन्म उभयं व्रतँ श्रद्धा च मेऽश्रद्धा च मे तन्म उभयं व्रतं विद्या च मेऽविद्या च मे तन्म उभयं व्रतँ श्रुतं च मेऽश्रुतं च मे तन्म उभयं व्रतँसत्यं च मेऽनृतं च मे तन्म उभयं व्रतं तपश्च मेऽतपश्च मे तन्म उभयं व्रतं व्रतं च मेऽव्रतं च मे तन्म उभयं व्रतं यद्ब्राह्मणानां ब्रह्मणि व्रतम् ।

[[83]]

यदग्नेस्सेन्द्रस्य सप्रजापतिकस्य सदेवस्य सदेवराजस्य समनुष्यस्य समनुष्यराजस्य सपितृकस्य सपितृराजस्य सगन्धर्वाफ्सरस्कस्य । यन्म आत्मन आत्मनि व्रतं तेनाहँ सर्वव्रतो भूयासम् ।

इति वाचयेत् । ततः कुमारः “वरं ते ददामि” इति गुरवे वरं दद्यात् । आचार्यस्तं प्रतिगृह्य,

उदायुषा स्वायुषोदोषधीनाँरसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अनु ।

इति कुमारमुत्थाप्य,

तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदश्शतं, जीवेम शरदश्शतं, नन्दाम शरदश्शतं, मोदाम शरदश्शतं, भवाम शरदश्शतं, शृणवाम शरदश्शदतं, प्रब्रवाम शरदश्शतम्, अजीता स्याम शरदश्शतं, ज्योक्चसूर्यं दृशे

इति मन्त्रैरादित्योपस्थानं कारयित्वा ब्रह्मोद्वासनं कृत्वा

यस्मिन्भूतं च भव्यं च सर्वे लोकास्समाहिताः ।
तेन गृह्णामि त्वामहं मह्यं गृह्णामि त्वामहं प्रजापतिना त्वा मह्यं गृह्णामि शर्मन्

इति तस्य दक्षिणं हस्तं दक्षिणहस्तेन गृह्णीयात् । ततः अग्निमुपतिष्ठेत् । ततः कुमारः त्रिः प्राणानायम्य, श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं भगवत्कैङ्कर्यरूपं प्रातस्समिध आधास्यामीति सङ्कल्प्य, उल्लिख्यावोक्ष्य, अग्निं प्रतिष्ठाप्य, प्रज्वाल्य,

परित्वाऽग्ने परिमृजाम्यायुषा च धनेन च ।
सुप्रजाः प्रजयाभूयासँ सुवीरो वीरैस्सुवर्चा वर्चसा सुपोषः पोषैः सुगृहो गृहैस्सुपतिः पत्या सुमेधा मेधया सुब्रह्मा ब्रह्मचारिभिः

इति परिसमूह्य, अदितेऽनुमन्यस्व, अनुमतेऽनुमन्यस्व, सरस्वतेनुमन्यस्व, देव सवितः प्रसुव इति परिषिच्य,

अग्नये समिधमाहार्षं बृहते जातवेदसे यथा त्वमग्ने समिधा समिध्यस एवं मामायुषा वर्चसा सन्या मेधया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा, एधोस्येधिषीमहि स्वाहा, समिदसि समेधिषीमहि स्वाहा,

[[84]]

तेजोऽसि तेजो मयि धेहि स्वाहा, अपो अद्यान्वचारिषँ रसेन समसृक्ष्महि । पयस्वाँअग्न आगमं तं मा सँसृज वर्चसा स्वाहा, सम्माग्ने वर्चसा सृज प्रजया च धनेन च स्वाहा, विद्युन्मे अस्य देवा इन्द्रो विद्यात्सहर्षभिस्स्वाहा, अग्नये बृहते नाकाय स्वाहा, द्यावापृथिभ्याँ स्वाहा, एषा ते अग्ने समित्तया वर्धस्व चाप्ययस्व च तयाहं वर्धमानो भूयासमाप्ययमानश्च स्वाहा, योमाग्ने भागिनँसन्तमथाभागं चिकीर्षति । अभागमग्ने तं कुरु मामग्ने भागिनं कुरु स्वाहा, समिधमाधायाग्ने सर्वव्रतो भूयासँ स्वाहा

इति द्वादश समिध आधाय, तूष्णीं परिसमूह्य,

अदितेऽन्वमँस्थाः, अनुमतेऽन्वमँस्थाः, सरस्वतेऽन्वमँस्थाः, देव सवितः प्रासावीः

इति परिषिच्य, ओं श्रीविष्णवे स्वाहा, श्रीविष्णवे परमात्मन इदम् । उपस्थानं

यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहँ हरस्वी भूयासं, मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु

इति अग्निमुपतिष्ठेत । एव (त)मग्निं त्र्यहं धारयेत् । सायं प्रातः समिध आदधीत । त्र्यहादूर्ध्वमासमावर्तनं लौकिकाग्नौ सायं प्रातः समिध आदद्ध्यात् । आचार्यः कुमारं षडर्थान् संशास्ति । आचार्यः कुमारं ब्रह्मचार्यसि - कुमारः बाढं, आचार्यः अपोशान-कुमारः बाढम्, आचार्यः कर्मकुरु - कुमारः बाढम्, आचार्यः मासुषुप्थाः - कुमारः बाढम्, आचार्यः भिक्षाचर्यं चर कुमारः बाढम्, आचार्यः आचार्याधीनो भव कुमारः बाढम्, आचार्यः तस्मै अरिक्तं पात्रं प्रयच्छन्, मातरमेवाग्रे भिक्षस्व भगिनीं वेति ब्रूयात् । स च “भवति भिक्षां देही”ति मातरमेवाग्रे भिक्षेत । भगिनीं वा । तत्समाहृत्योपनिधाय, भैक्षमिदमाहृतमित्याचार्याय ब्रूयात् ।

[[85]]

तत्सुभैक्षमित्याचार्यः प्रतिगृह्णीयात् । कुमारः त्र्यहं क्षारलवणवर्जं भुञ्जीत । मन्त्रवद्धृतमेव वस्त्रं धारयेत् । चतुर्थेऽहनि तद्विसृज्य, अन्यद्वस्त्रमाचार्यः परिधापयेत् । कुमारः पूर्वधृतवस्त्रं गुरो वासस्ते ददामि इति आचार्याय दद्यात् ।

यस्य ते प्रथमवास्यँ हरामस्तं त्वा विश्वे अवन्तु देवाः।
तं त्वा भ्रातरस्सुवृधो वर्धमानमनु जायन्तां बहवस्सुजातम्

इति तत् प्रतिगृह्णीयात् ।